Ṛk 7.33.9
Saṃhitā
त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रंति ।
य॒मेन॑ त॒तं प॑रि॒धिं वयं॑तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥
त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सं चरन्ति |
यमेन ततम् परिधिं वयन्तो ऽप्सरस उप सेदुर् वसिष्ठाः ||
tá ínniṇyám hṛ́dayasya praketáiḥ sahásravalśamabhí sám caranti ǀ
yaména tatám paridhím váyanto’psarása úpa sedurvásiṣṭhāḥ ǁ
ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśam abhi saṃ caranti |
yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ ||
Padapāṭha
ते । इत् । नि॒ण्यम् । हृद॑यस्य । प्र॒ऽके॒तैः । स॒हस्र॑ऽवल्शम् । अ॒भि । सम् । च॒र॒न्ति॒ ।
य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । वय॑न्तः । अ॒प्स॒रसः॑ । उप॑ । से॒दुः॒ । वसि॑ष्ठाः ॥
ते । इत् । निण्यम् । हृदयस्य । प्रऽकेतैः । सहस्रऽवल्शम् । अभि । सम् । चरन्ति ।
यमेन । ततम् । परिऽधिम् । वयन्तः । अप्सरसः । उप । सेदुः । वसिष्ठाः ॥
té ǀ ít ǀ niṇyám ǀ hṛ́dayasya ǀ pra-ketáiḥ ǀ sahásra-valśam ǀ abhí ǀ sám ǀ caranti ǀ
yaména ǀ tatám ǀ pari-dhím ǀ váyantaḥ ǀ apsarásaḥ ǀ úpa ǀ seduḥ ǀ vásiṣṭhāḥ ǁ
te ǀ it ǀ niṇyam ǀ hṛdayasya ǀ pra-ketaiḥ ǀ sahasra-valśam ǀ abhi ǀ sam ǀ caranti ǀ
yamena ǀ tatam ǀ pari-dhim ǀ vayantaḥ ǀ apsarasaḥ ǀ upa ǀ seduḥ ǀ vasiṣṭhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.033.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.23.04
- Maṇḍala · Anuvāka · Ṛk
- 07.02.156
- Devatā देवता
- 1-9: Vasiṣṭha’s Sons; 10-14: Vasiṣṭha
- Ṛṣi ऋषि
- 1-9: Vasiṣṭha Maitrāvaruṇi; 10-14: Vasiṣṭha Maitrāvaruṇi’s Sons
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.