Ṛk 7.33.11
Saṃhitā
उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः ।
द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददंत ॥
उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः |
द्रप्सं स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ||
utā́si maitrāvaruṇó vasiṣṭhorváśyā brahmanmánasó’dhi jātáḥ ǀ
drapsám skannám bráhmaṇā dáivyena víśve devā́ḥ púṣkare tvādadanta ǁ
utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ |
drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta ||
Padapāṭha
उ॒त । अ॒सि॒ । मै॒त्रा॒व॒रु॒णः । व॒सि॒ष्ठ॒ । उ॒र्वश्याः॑ । ब्र॒ह्म॒न् । मन॑सः । अधि॑ । जा॒तः ।
द्र॒प्सम् । स्क॒न्नम् । ब्रह्म॑णा । दैव्ये॑न । विश्वे॑ । दे॒वाः । पुष्क॑रे । त्वा॒ । अ॒द॒द॒न्त॒ ॥
उत । असि । मैत्रावरुणः । वसिष्ठ । उर्वश्याः । ब्रह्मन् । मनसः । अधि । जातः ।
द्रप्सम् । स्कन्नम् । ब्रह्मणा । दैव्येन । विश्वे । देवाः । पुष्करे । त्वा । अददन्त ॥
utá ǀ asi ǀ maitrāvaruṇáḥ ǀ vasiṣṭha ǀ urváśyāḥ ǀ brahman ǀ mánasaḥ ǀ ádhi ǀ jātáḥ ǀ
drapsám ǀ skannám ǀ bráhmaṇā ǀ dáivyena ǀ víśve ǀ devā́ḥ ǀ púṣkare ǀ tvā ǀ adadanta ǁ
uta ǀ asi ǀ maitrāvaruṇaḥ ǀ vasiṣṭha ǀ urvaśyāḥ ǀ brahman ǀ manasaḥ ǀ adhi ǀ jātaḥ ǀ
drapsam ǀ skannam ǀ brahmaṇā ǀ daivyena ǀ viśve ǀ devāḥ ǀ puṣkare ǀ tvā ǀ adadanta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.033.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.24.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.158
- Devatā देवता
- 1-9: Vasiṣṭha’s Sons; 10-14: Vasiṣṭha
- Ṛṣi ऋषि
- 1-9: Vasiṣṭha Maitrāvaruṇi; 10-14: Vasiṣṭha Maitrāvaruṇi’s Sons
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.