Sūkta 55
- Devatā देवता
- 1: Vāstoṣpati; 2-8: Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh, Upariṣṭādbṛhatī, Gāyatrī
Metres by ṛk
1st set of styles bṛhatī (2-4); anuṣṭup (5, 7); nicṛdanuṣṭup (6, 8); nicṛdgāyatrī (1)
2nd set of styles anuṣṭubh (5-8); upariṣṭādbṛhatī (2-4); gāyatrī (1)
-
Ṛk 1
अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् ।
सखा॑ सु॒शेव॑ एधि नः ॥अमीवहा वास्तोष् पते विश्वा रूपाण्य् आविशन् |
सखा सुशेव एधि नः ||amīvahā́ vāstoṣpate víśvā rūpā́ṇyāviśán ǀ
sákhā suśéva edhi naḥ ǁamīvahā vāstoṣ pate viśvā rūpāṇy āviśan |
sakhā suśeva edhi naḥ ||अ॒मी॒व॒ऽहा । वा॒स्तोः॒ । प॒ते॒ । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् ।
सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥अमीवऽहा । वास्तोः । पते । विश्वा । रूपाणि । आऽविशन् ।
सखा । सुऽशेवः । एधि । नः ॥amīva-hā́ ǀ vāstoḥ ǀ pate ǀ víśvā ǀ rūpā́ṇi ǀ ā-viśán ǀ
sákhā ǀ su-śévaḥ ǀ edhi ǀ naḥ ǁamīva-hā ǀ vāstoḥ ǀ pate ǀ viśvā ǀ rūpāṇi ǀ ā-viśan ǀ
sakhā ǀ su-śevaḥ ǀ edhi ǀ naḥ ǁ7.55.1 Aṣṭaka 5.4.22.1Anuvāka 7.3.139
-
Ṛk 2
यद॑र्जुन सारमेय द॒तः पि॑शंग॒ यच्छ॑से ।
वी॑व भ्राजंत ऋ॒ष्टय॒ उप॒ स्रक्वे॑षु॒ बप्स॑तो॒ नि षु स्व॑प ॥यद् अर्जुन सारमेय दतः पिशङ्ग यच्छसे |
वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ||yádarjuna sārameya datáḥ piśaṅga yácchase ǀ
vī́va bhrājanta ṛṣṭáya úpa srákveṣu bápsato ní ṣú svapa ǁyad arjuna sārameya dataḥ piśaṅga yacchase |
vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa ||यत् । अ॒र्जु॒न॒ । सा॒र॒मे॒य॒ । द॒तः । पि॒श॒ङ्ग॒ । यच्छ॑से ।
विऽइ॑व । भ्रा॒ज॒न्ते॒ । ऋ॒ष्टयः॑ । उप॑ । स्रक्वे॑षु । बप्स॑तः । नि । सु । स्व॒प॒ ॥यत् । अर्जुन । सारमेय । दतः । पिशङ्ग । यच्छसे ।
विऽइव । भ्राजन्ते । ऋष्टयः । उप । स्रक्वेषु । बप्सतः । नि । सु । स्वप ॥yát ǀ arjuna ǀ sārameya ǀ datáḥ ǀ piśaṅga ǀ yácchase ǀ
ví-iva ǀ bhrājante ǀ ṛṣṭáyaḥ ǀ úpa ǀ srákveṣu ǀ bápsataḥ ǀ ní ǀ sú ǀ svapa ǁyat ǀ arjuna ǀ sārameya ǀ dataḥ ǀ piśaṅga ǀ yacchase ǀ
vi-iva ǀ bhrājante ǀ ṛṣṭayaḥ ǀ upa ǀ srakveṣu ǀ bapsataḥ ǀ ni ǀ su ǀ svapa ǁ7.55.2 Aṣṭaka 5.4.22.2Anuvāka 7.3.140
-
Ṛk 3
स्ते॒नं रा॑य सारमेय॒ तस्क॑रं वा पुनःसर ।
स्तो॒तॄनिंद्र॑स्य रायसि॒ किम॒स्मांदु॑च्छुनायसे॒ नि षु स्व॑प ॥स्तेनं राय सारमेय तस्करं वा पुनःसर |
स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ||stenám rāya sārameya táskaram vā punaḥsara ǀ
stotṝ́níndrasya rāyasi kímasmā́nducchunāyase ní ṣú svapa ǁstenaṃ rāya sārameya taskaraṃ vā punaḥsara |
stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa ||स्ते॒नम् । रा॒य॒ । सा॒र॒मे॒य॒ । तस्क॑रम् । वा॒ । पु॒नः॒ऽस॒र॒ ।
स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥स्तेनम् । राय । सारमेय । तस्करम् । वा । पुनःऽसर ।
स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुनऽयसे । नि । सु । स्वप ॥stenám ǀ rāya ǀ sārameya ǀ táskaram ǀ vā ǀ punaḥ-sara ǀ
stotṝ́n ǀ índrasya ǀ rāyasi ǀ kím ǀ asmā́n ǀ ducchuna-yase ǀ ní ǀ sú ǀ svapa ǁstenam ǀ rāya ǀ sārameya ǀ taskaram ǀ vā ǀ punaḥ-sara ǀ
stotṝn ǀ indrasya ǀ rāyasi ǀ kim ǀ asmān ǀ ducchuna-yase ǀ ni ǀ su ǀ svapa ǁ7.55.3 Aṣṭaka 5.4.22.3Anuvāka 7.3.141
-
Ṛk 4
त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः ।
स्तो॒तॄनिंद्र॑स्य रायसि॒ किम॒स्मांदु॑च्छुनायसे॒ नि षु स्व॑प ॥त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः |
स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ||tvám sūkarásya dardṛhi táva dardartu sūkaráḥ ǀ
stotṝ́níndrasya rāyasi kímasmā́nducchunāyase ní ṣú svapa ǁtvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ |
stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa ||त्वम् । सू॒क॒रस्य॑ । द॒र्दृ॒हि॒ । तव॑ । द॒र्द॒र्तु॒ । सू॒क॒रः ।
स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥त्वम् । सूकरस्य । दर्दृहि । तव । दर्दर्तु । सूकरः ।
स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुनऽयसे । नि । सु । स्वप ॥tvám ǀ sūkarásya ǀ dardṛhi ǀ táva ǀ dardartu ǀ sūkaráḥ ǀ
stotṝ́n ǀ índrasya ǀ rāyasi ǀ kím ǀ asmā́n ǀ ducchuna-yase ǀ ní ǀ sú ǀ svapa ǁtvam ǀ sūkarasya ǀ dardṛhi ǀ tava ǀ dardartu ǀ sūkaraḥ ǀ
stotṝn ǀ indrasya ǀ rāyasi ǀ kim ǀ asmān ǀ ducchuna-yase ǀ ni ǀ su ǀ svapa ǁ7.55.4 Aṣṭaka 5.4.22.4Anuvāka 7.3.142
-
Ṛk 5
सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑ ।
स॒संतु॒ सर्वे॑ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑ ॥सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः |
ससन्तु सर्वे ज्ञातयः सस्त्व् अयम् अभितो जनः ||sástu mātā́ sástu pitā́ sástu śvā́ sástu viśpátiḥ ǀ
sasántu sárve jñātáyaḥ sástvayámabhíto jánaḥ ǁsastu mātā sastu pitā sastu śvā sastu viśpatiḥ |
sasantu sarve jñātayaḥ sastv ayam abhito janaḥ ||सस्तु॑ । मा॒ता । सस्तु॑ । पि॒ता । सस्तु॑ । श्वा । सस्तु॑ । वि॒श्पतिः॑ ।
स॒सन्तु॑ । सर्वे॑ । ज्ञा॒तयः॑ । सस्तु॑ । अ॒यम् । अ॒भितः॑ । जनः॑ ॥सस्तु । माता । सस्तु । पिता । सस्तु । श्वा । सस्तु । विश्पतिः ।
ससन्तु । सर्वे । ज्ञातयः । सस्तु । अयम् । अभितः । जनः ॥sástu ǀ mātā́ ǀ sástu ǀ pitā́ ǀ sástu ǀ śvā́ ǀ sástu ǀ viśpátiḥ ǀ
sasántu ǀ sárve ǀ jñātáyaḥ ǀ sástu ǀ ayám ǀ abhítaḥ ǀ jánaḥ ǁsastu ǀ mātā ǀ sastu ǀ pitā ǀ sastu ǀ śvā ǀ sastu ǀ viśpatiḥ ǀ
sasantu ǀ sarve ǀ jñātayaḥ ǀ sastu ǀ ayam ǀ abhitaḥ ǀ janaḥ ǁ7.55.5 Aṣṭaka 5.4.22.5Anuvāka 7.3.143
-
Ṛk 6
य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ ।
तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥य आस्ते यश् च चरति यश् च पश्यति नो जनः |
तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ||yá ā́ste yáśca cárati yáśca páśyati no jánaḥ ǀ
téṣām sám hanmo akṣā́ṇi yáthedám harmyám táthā ǁya āste yaś ca carati yaś ca paśyati no janaḥ |
teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā ||यः । आस्ते॑ । यः । च॒ । चर॑ति । यः । च॒ । पश्य॑ति । नः॒ । जनः॑ ।
तेषा॑म् । सम् । ह॒न्मः॒ । अ॒क्षाणि॑ । यथा॑ । इ॒दम् । ह॒र्म्यम् । तथा॑ ॥यः । आस्ते । यः । च । चरति । यः । च । पश्यति । नः । जनः ।
तेषाम् । सम् । हन्मः । अक्षाणि । यथा । इदम् । हर्म्यम् । तथा ॥yáḥ ǀ ā́ste ǀ yáḥ ǀ ca ǀ cárati ǀ yáḥ ǀ ca ǀ páśyati ǀ naḥ ǀ jánaḥ ǀ
téṣām ǀ sám ǀ hanmaḥ ǀ akṣā́ṇi ǀ yáthā ǀ idám ǀ harmyám ǀ táthā ǁyaḥ ǀ āste ǀ yaḥ ǀ ca ǀ carati ǀ yaḥ ǀ ca ǀ paśyati ǀ naḥ ǀ janaḥ ǀ
teṣām ǀ sam ǀ hanmaḥ ǀ akṣāṇi ǀ yathā ǀ idam ǀ harmyam ǀ tathā ǁ7.55.6 Aṣṭaka 5.4.22.6Anuvāka 7.3.144
-
Ṛk 7
स॒हस्र॑शृंगो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् ।
तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् |
तेना सहस्येना वयं नि जनान् स्वापयामसि ||sahásraśṛṅgo vṛṣabhó yáḥ samudrā́dudā́carat ǀ
ténā sahasyénā vayám ní jánāntsvāpayāmasi ǁsahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat |
tenā sahasyenā vayaṃ ni janān svāpayāmasi ||स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । यः । स॒मु॒द्रात् । उ॒त्ऽआच॑रत् ।
तेन॑ । स॒ह॒स्ये॑न । व॒यम् । नि । जना॑न् । स्वा॒प॒या॒म॒सि॒ ॥सहस्रऽशृङ्गः । वृषभः । यः । समुद्रात् । उत्ऽआचरत् ।
तेन । सहस्येन । वयम् । नि । जनान् । स्वापयामसि ॥sahásra-śṛṅgaḥ ǀ vṛṣabháḥ ǀ yáḥ ǀ samudrā́t ǀ ut-ā́carat ǀ
téna ǀ sahasyéna ǀ vayám ǀ ní ǀ jánān ǀ svāpayāmasi ǁsahasra-śṛṅgaḥ ǀ vṛṣabhaḥ ǀ yaḥ ǀ samudrāt ǀ ut-ācarat ǀ
tena ǀ sahasyena ǀ vayam ǀ ni ǀ janān ǀ svāpayāmasi ǁ7.55.7 Aṣṭaka 5.4.22.7Anuvāka 7.3.145
-
Ṛk 8
प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः ।
स्त्रियो॒ याः पुण्य॑गंधा॒स्ताः सर्वाः॑ स्वापयामसि ॥प्रोष्ठेशया वह्येशया नारीर् यास् तल्पशीवरीः |
स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि ||proṣṭheśayā́ vahyeśayā́ nā́rīryā́stalpaśī́varīḥ ǀ
stríyo yā́ḥ púṇyagandhāstā́ḥ sárvāḥ svāpayāmasi ǁproṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ |
striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi ||प्रो॒ष्ठे॒ऽश॒याः । व॒ह्ये॒ऽश॒याः । नारीः॑ । याः । त॒ल्प॒ऽशीव॑रीः ।
स्त्रियः॑ । याः । पुण्य॑ऽगन्धाः । ताः । सर्वाः॑ । स्वा॒प॒या॒म॒सि॒ ॥प्रोष्ठेऽशयाः । वह्येऽशयाः । नारीः । याः । तल्पऽशीवरीः ।
स्त्रियः । याः । पुण्यऽगन्धाः । ताः । सर्वाः । स्वापयामसि ॥proṣṭhe-śayā́ḥ ǀ vahye-śayā́ḥ ǀ nā́rīḥ ǀ yā́ḥ ǀ talpa-śī́varīḥ ǀ
stríyaḥ ǀ yā́ḥ ǀ púṇya-gandhāḥ ǀ tā́ḥ ǀ sárvāḥ ǀ svāpayāmasi ǁproṣṭhe-śayāḥ ǀ vahye-śayāḥ ǀ nārīḥ ǀ yāḥ ǀ talpa-śīvarīḥ ǀ
striyaḥ ǀ yāḥ ǀ puṇya-gandhāḥ ǀ tāḥ ǀ sarvāḥ ǀ svāpayāmasi ǁ7.55.8 Aṣṭaka 5.4.22.8Anuvāka 7.3.146
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.