Ṛk 7.55.6
Saṃhitā
य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ ।
तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥
य आस्ते यश् च चरति यश् च पश्यति नो जनः |
तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ||
yá ā́ste yáśca cárati yáśca páśyati no jánaḥ ǀ
téṣām sám hanmo akṣā́ṇi yáthedám harmyám táthā ǁ
ya āste yaś ca carati yaś ca paśyati no janaḥ |
teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā ||
Padapāṭha
यः । आस्ते॑ । यः । च॒ । चर॑ति । यः । च॒ । पश्य॑ति । नः॒ । जनः॑ ।
तेषा॑म् । सम् । ह॒न्मः॒ । अ॒क्षाणि॑ । यथा॑ । इ॒दम् । ह॒र्म्यम् । तथा॑ ॥
यः । आस्ते । यः । च । चरति । यः । च । पश्यति । नः । जनः ।
तेषाम् । सम् । हन्मः । अक्षाणि । यथा । इदम् । हर्म्यम् । तथा ॥
yáḥ ǀ ā́ste ǀ yáḥ ǀ ca ǀ cárati ǀ yáḥ ǀ ca ǀ páśyati ǀ naḥ ǀ jánaḥ ǀ
téṣām ǀ sám ǀ hanmaḥ ǀ akṣā́ṇi ǀ yáthā ǀ idám ǀ harmyám ǀ táthā ǁ
yaḥ ǀ āste ǀ yaḥ ǀ ca ǀ carati ǀ yaḥ ǀ ca ǀ paśyati ǀ naḥ ǀ janaḥ ǀ
teṣām ǀ sam ǀ hanmaḥ ǀ akṣāṇi ǀ yathā ǀ idam ǀ harmyam ǀ tathā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.055.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.22.06
- Maṇḍala · Anuvāka · Ṛk
- 07.03.144
- Devatā देवता
- 1: Vāstoṣpati; 2-8: Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh, Upariṣṭādbṛhatī, Gāyatrī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.