Sūkta 101
- Devatā देवता
- Parjanya
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi Or Kumāra Āgneya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 4, 5); triṣṭup (1, 6); nicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ ।
स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम् ऊधः |
स वत्सं कृण्वन् गर्भम् ओषधीनां सद्यो जातो वृषभो रोरवीति ||tisró vā́caḥ prá vada jyótiragrā yā́ etádduhré madhudoghámū́dhaḥ ǀ
sá vatsám kṛṇvángárbhamóṣadhīnām sadyó jātó vṛṣabhó roravīti ǁtisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ |
sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti ||ति॒स्रः । वाचः॑ । प्र । व॒द॒ । ज्योतिः॑ऽअग्राः । याः । ए॒तत् । दु॒ह्रे । म॒धु॒ऽदो॒घम् । ऊधः॑ ।
सः । व॒त्सम् । कृ॒ण्वन् । गर्भ॑म् । ओष॑धीनाम् । स॒द्यः । जा॒तः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥तिस्रः । वाचः । प्र । वद । ज्योतिःऽअग्राः । याः । एतत् । दुह्रे । मधुऽदोघम् । ऊधः ।
सः । वत्सम् । कृण्वन् । गर्भम् । ओषधीनाम् । सद्यः । जातः । वृषभः । रोरवीति ॥tisráḥ ǀ vā́caḥ ǀ prá ǀ vada ǀ jyótiḥ-agrāḥ ǀ yā́ḥ ǀ etát ǀ duhré ǀ madhu-doghám ǀ ū́dhaḥ ǀ
sáḥ ǀ vatsám ǀ kṛṇván ǀ gárbham ǀ óṣadhīnām ǀ sadyáḥ ǀ jātáḥ ǀ vṛṣabháḥ ǀ roravīti ǁtisraḥ ǀ vācaḥ ǀ pra ǀ vada ǀ jyotiḥ-agrāḥ ǀ yāḥ ǀ etat ǀ duhre ǀ madhu-dogham ǀ ūdhaḥ ǀ
saḥ ǀ vatsam ǀ kṛṇvan ǀ garbham ǀ oṣadhīnām ǀ sadyaḥ ǀ jātaḥ ǀ vṛṣabhaḥ ǀ roravīti ǁ7.101.1 Aṣṭaka 5.7.1.1Anuvāka 7.6.83
-
Ṛk 2
यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ ।
स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॒॑स्मे ॥यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे |
स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः स्वभिष्ट्य् अस्मे ||yó várdhana óṣadhīnām yó apā́m yó víśvasya jágato devá ī́śe ǀ
sá tridhā́tu śaraṇám śárma yaṃsattrivártu jyótiḥ svabhiṣṭyásmé ǁyo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe |
sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme ||यः । वर्ध॑नः । ओष॑धीनाम् । यः । अ॒पाम् । यः । विश्व॑स्य । जग॑तः । दे॒वः । ईशे॑ ।
सः । त्रि॒ऽधातु॑ । श॒र॒णम् । शर्म॑ । यं॒स॒त् । त्रि॒ऽवर्तु॑ । ज्योतिः॑ । सु॒ऽअ॒भि॒ष्टि । अ॒स्मे इति॑ ॥यः । वर्धनः । ओषधीनाम् । यः । अपाम् । यः । विश्वस्य । जगतः । देवः । ईशे ।
सः । त्रिऽधातु । शरणम् । शर्म । यंसत् । त्रिऽवर्तु । ज्योतिः । सुऽअभिष्टि । अस्मे इति ॥yáḥ ǀ várdhanaḥ ǀ óṣadhīnām ǀ yáḥ ǀ apā́m ǀ yáḥ ǀ víśvasya ǀ jágataḥ ǀ deváḥ ǀ ī́śe ǀ
sáḥ ǀ tri-dhā́tu ǀ śaraṇám ǀ śárma ǀ yaṃsat ǀ tri-vártu ǀ jyótiḥ ǀ su-abhiṣṭí ǀ asmé íti ǁyaḥ ǀ vardhanaḥ ǀ oṣadhīnām ǀ yaḥ ǀ apām ǀ yaḥ ǀ viśvasya ǀ jagataḥ ǀ devaḥ ǀ īśe ǀ
saḥ ǀ tri-dhātu ǀ śaraṇam ǀ śarma ǀ yaṃsat ǀ tri-vartu ǀ jyotiḥ ǀ su-abhiṣṭi ǀ asme iti ǁ7.101.2 Aṣṭaka 5.7.1.2Anuvāka 7.6.84
-
Ṛk 3
स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशं तन्वं चक्र एषः |
पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ||starī́ru tvadbhávati sū́ta u tvadyathāvaśám tanvám cakra eṣáḥ ǀ
pitúḥ páyaḥ práti gṛbhṇāti mātā́ téna pitā́ vardhate téna putráḥ ǁstarīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ |
pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ ||स्त॒रीः । ऊं॒ इति॑ । त्व॒त् । भव॑ति । सूते॑ । ऊं॒ इति॑ । त्व॒त् । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः ।
पि॒तुः । पयः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । मा॒ता । तेन॑ । पि॒ता । व॒र्ध॒ते॒ । तेन॑ । पु॒त्रः ॥स्तरीः । ऊं इति । त्वत् । भवति । सूते । ऊं इति । त्वत् । यथाऽवशम् । तन्वम् । चक्रे । एषः ।
पितुः । पयः । प्रति । गृभ्णाति । माता । तेन । पिता । वर्धते । तेन । पुत्रः ॥starī́ḥ ǀ ūṃ íti ǀ tvat ǀ bhávati ǀ sū́te ǀ ūṃ íti ǀ tvat ǀ yathā-vaśám ǀ tanvám ǀ cakre ǀ eṣáḥ ǀ
pitúḥ ǀ páyaḥ ǀ práti ǀ gṛbhṇāti ǀ mātā́ ǀ téna ǀ pitā́ ǀ vardhate ǀ téna ǀ putráḥ ǁstarīḥ ǀ ūṃ iti ǀ tvat ǀ bhavati ǀ sūte ǀ ūṃ iti ǀ tvat ǀ yathā-vaśam ǀ tanvam ǀ cakre ǀ eṣaḥ ǀ
pituḥ ǀ payaḥ ǀ prati ǀ gṛbhṇāti ǀ mātā ǀ tena ǀ pitā ǀ vardhate ǀ tena ǀ putraḥ ǁ7.101.3 Aṣṭaka 5.7.1.3Anuvāka 7.6.85
-
Ṛk 4
यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ ।
त्रयः॒ कोशा॑स उप॒सेच॑नासो॒ मध्वः॑ श्चोतंत्य॒भितो॑ विर॒प्शं ॥यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा सस्रुर् आपः |
त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्य् अभितो विरप्शम् ||yásminvíśvāni bhúvanāni tasthústisró dyā́vastredhā́ sasrúrā́paḥ ǀ
tráyaḥ kóśāsa upasécanāso mádhvaḥ ścotantyabhíto virapśám ǁyasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ |
trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam ||यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः । ति॒स्रः । द्यावः॑ । त्रे॒धा । स॒स्रुः । आपः॑ ।
त्रयः॑ । कोशा॑सः । उ॒प॒ऽसेच॑नासः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥यस्मिन् । विश्वानि । भुवनानि । तस्थुः । तिस्रः । द्यावः । त्रेधा । सस्रुः । आपः ।
त्रयः । कोशासः । उपऽसेचनासः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥yásmin ǀ víśvāni ǀ bhúvanāni ǀ tasthúḥ ǀ tisráḥ ǀ dyā́vaḥ ǀ tredhā́ ǀ sasrúḥ ǀ ā́paḥ ǀ
tráyaḥ ǀ kóśāsaḥ ǀ upa-sécanāsaḥ ǀ mádhvaḥ ǀ ścotanti ǀ abhítaḥ ǀ vi-rapśám ǁyasmin ǀ viśvāni ǀ bhuvanāni ǀ tasthuḥ ǀ tisraḥ ǀ dyāvaḥ ǀ tredhā ǀ sasruḥ ǀ āpaḥ ǀ
trayaḥ ǀ kośāsaḥ ǀ upa-secanāsaḥ ǀ madhvaḥ ǀ ścotanti ǀ abhitaḥ ǀ vi-rapśam ǁ7.101.4 Aṣṭaka 5.7.1.4Anuvāka 7.6.86
-
Ṛk 5
इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वंत॑रं॒ तज्जु॑जोषत् ।
म॒यो॒भुवो॑ वृ॒ष्टयः॑ संत्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥इदं वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरं तज् जुजोषत् |
मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर् देवगोपाः ||idám vácaḥ parjányāya svarā́je hṛdó astvántaram tájjujoṣat ǀ
mayobhúvo vṛṣṭáyaḥ santvasmé supippalā́ óṣadhīrdevágopāḥ ǁidaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat |
mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ ||इ॒दम् । वचः॑ । प॒र्जन्या॑य । स्व॒ऽराजे॑ । हृ॒दः । अ॒स्तु॒ । अन्त॑रम् । तत् । जु॒जो॒ष॒त् ।
म॒यः॒ऽभुवः॑ । वृ॒ष्टयः॑ । स॒न्तु॒ । अ॒स्मे इति॑ । सु॒ऽपि॒प्प॒लाः । ओष॑धीः । दे॒वऽगो॑पाः ॥इदम् । वचः । पर्जन्याय । स्वऽराजे । हृदः । अस्तु । अन्तरम् । तत् । जुजोष���् ।
मयःऽभुवः । वृष्टयः । सन्तु । अस्मे इति । सुऽपिप्पलाः । ओषधीः । देवऽगोपाः ॥idám ǀ vácaḥ ǀ parjányāya ǀ sva-rā́je ǀ hṛdáḥ ǀ astu ǀ ántaram ǀ tát ǀ jujoṣat ǀ
mayaḥ-bhúvaḥ ǀ vṛṣṭáyaḥ ǀ santu ǀ asmé íti ǀ su-pippalā́ḥ ǀ óṣadhīḥ ǀ devá-gopāḥ ǁidam ǀ vacaḥ ǀ parjanyāya ǀ sva-rāje ǀ hṛdaḥ ǀ astu ǀ antaram ǀ tat ǀ jujoṣat ǀ
mayaḥ-bhuvaḥ ǀ vṛṣṭayaḥ ǀ santu ǀ asme iti ǀ su-pippalāḥ ǀ oṣadhīḥ ǀ deva-gopāḥ ǁ7.101.5 Aṣṭaka 5.7.1.5Anuvāka 7.6.87
-
Ṛk 6
स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च ।
तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥स रेतोधा वृषभः शश्वतीनां तस्मिन्न् आत्मा जगतस् तस्थुषश् च |
तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः सदा नः ||sá retodhā́ vṛṣabháḥ śáśvatīnām tásminnātmā́ jágatastasthúṣaśca ǀ
tánma ṛtám pātu śatáśāradāya yūyám pāta svastíbhiḥ sádā naḥ ǁsa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca |
tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ ||सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् । तस्मि॑न् । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ।
तत् । मा॒ । ऋ॒तम् । पा॒तु॒ । श॒तऽशा॑रदाय । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥सः । रेतःऽधाः । वृषभः । शश्वतीनाम् । तस्मिन् । आत्मा । जगतः । तस्थुषः । च ।
तत् । मा । ऋतम् । पातु । शतऽशारदाय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥sáḥ ǀ retaḥ-dhā́ḥ ǀ vṛṣabháḥ ǀ śáśvatīnām ǀ tásmin ǀ ātmā́ ǀ jágataḥ ǀ tasthúṣaḥ ǀ ca ǀ
tát ǀ mā ǀ ṛtám ǀ pātu ǀ śatá-śāradāya ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁsaḥ ǀ retaḥ-dhāḥ ǀ vṛṣabhaḥ ǀ śaśvatīnām ǀ tasmin ǀ ātmā ǀ jagataḥ ǀ tasthuṣaḥ ǀ ca ǀ
tat ǀ mā ǀ ṛtam ǀ pātu ǀ śata-śāradāya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.101.6 Aṣṭaka 5.7.1.6Anuvāka 7.6.88
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.