Sūkta 73
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2-4); virāṭtrisṭup (1, 5)
2nd set of styles triṣṭubh
-
Ṛk 1
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यंतो॒ दधा॑नाः ।
पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥अतारिष्म तमसस् पारम् अस्य प्रति स्तोमं देवयन्तो दधानाः |
पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ||átāriṣma támasaspārámasyá práti stómam devayánto dádhānāḥ ǀ
purudáṃsā purutámā purājā́martyā havate aśvínā gī́ḥ ǁatāriṣma tamasas pāram asya prati stomaṃ devayanto dadhānāḥ |
purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ ||अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । स्तोम॑म् । दे॒व॒ऽयन्तः॑ । दधा॑नाः ।
पु॒रु॒ऽदंसा॑ । पु॒रु॒ऽतमा॑ । पु॒रा॒ऽजा । अम॑र्त्या । ह॒व॒ते॒ । अ॒श्विना॑ । गीः ॥अतारिष्म । तमसः । पारम् । अस्य । प्रति । स्तोमम् । देवऽयन्तः । दधानाः ।
पुरुऽदंसा । पुरुऽतमा । पुराऽजा । अमर्त्या । हवते । अश्विना । गीः ॥átāriṣma ǀ támasaḥ ǀ pārám ǀ asyá ǀ práti ǀ stómam ǀ deva-yántaḥ ǀ dádhānāḥ ǀ
puru-dáṃsā ǀ puru-támā ǀ purā-jā́ ǀ ámartyā ǀ havate ǀ aśvínā ǀ gī́ḥ ǁatāriṣma ǀ tamasaḥ ǀ pāram ǀ asya ǀ prati ǀ stomam ǀ deva-yantaḥ ǀ dadhānāḥ ǀ
puru-daṃsā ǀ puru-tamā ǀ purā-jā ǀ amartyā ǀ havate ǀ aśvinā ǀ gīḥ ǁ7.73.1 Aṣṭaka 5.5.20.1Anuvāka 7.5.12
-
Ṛk 2
न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वंद॑ते च ।
अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च |
अश्नीतम् मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ||nyú priyó mánuṣaḥ sādi hótā nā́satyā yó yájate vándate ca ǀ
aśnītám mádhvo aśvinā upāká ā́ vām voce vidátheṣu práyasvān ǁny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca |
aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān ||नि । ऊं॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ ।
अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥नि । ऊं इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च ।
अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥ní ǀ ūṃ íti ǀ priyáḥ ǀ mánuṣaḥ ǀ sādi ǀ hótā ǀ nā́satyā ǀ yáḥ ǀ yájate ǀ vándate ǀ ca ǀ
aśnītám ǀ mádhvaḥ ǀ aśvinau ǀ upāké ǀ ā́ ǀ vām ǀ voce ǀ vidátheṣu ǀ práyasvān ǁni ǀ ūṃ iti ǀ priyaḥ ǀ manuṣaḥ ǀ sādi ǀ hotā ǀ nāsatyā ǀ yaḥ ǀ yajate ǀ vandate ǀ ca ǀ
aśnītam ǀ madhvaḥ ǀ aśvinau ǀ upāke ǀ ā ǀ vām ǀ voce ǀ vidatheṣu ǀ prayasvān ǁ7.73.2 Aṣṭaka 5.5.20.2Anuvāka 7.5.13
-
Ṛk 3
अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।
श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥अहेम यज्ञम् पथाम् उराणा इमां सुवृक्तिं वृषणा जुषेथाम् |
श्रुष्टीवेव प्रेषितो वाम् अबोधि प्रति स्तोमैर् जरमाणो वसिष्ठः ||áhema yajñám pathā́murāṇā́ imā́m suvṛktím vṛṣaṇā juṣethām ǀ
śruṣṭīvéva préṣito vāmabodhi práti stómairjáramāṇo vásiṣṭhaḥ ǁahema yajñam pathām urāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ ||अहे॑म । य॒ज्ञम् । प॒थाम् । उ॒रा॒णाः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
श्रु॒ष्टी॒वाऽइ॑व । प्रऽइ॑षितः । वा॒म् । अ॒बो॒धि॒ । प्रति॑ । स्तोमैः॑ । जर॑माणः । वसि॑ष्ठः ॥अहेम । यज्ञम् । पथाम् । उराणाः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।
श्रुष्टीवाऽइव । प्रऽइषितः । वाम् । अबोधि । प्रति । स्तोमैः । जरमाणः । वसिष्ठः ॥áhema ǀ yajñám ǀ pathā́m ǀ urāṇā́ḥ ǀ imā́m ǀ su-vṛktím ǀ vṛṣaṇā ǀ juṣethām ǀ
śruṣṭīvā́-iva ǀ prá-iṣitaḥ ǀ vām ǀ abodhi ǀ práti ǀ stómaiḥ ǀ járamāṇaḥ ǀ vásiṣṭhaḥ ǁahema ǀ yajñam ǀ pathām ǀ urāṇāḥ ǀ imām ǀ su-vṛktim ǀ vṛṣaṇā ǀ juṣethām ǀ
śruṣṭīvā-iva ǀ pra-iṣitaḥ ǀ vām ǀ abodhi ǀ prati ǀ stomaiḥ ǀ jaramāṇaḥ ǀ vasiṣṭhaḥ ǁ7.73.3 Aṣṭaka 5.5.20.3Anuvāka 7.5.14
-
Ṛk 4
उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ संभृ॑ता वी॒ळुपा॑णी ।
समंधां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीऌउपाणी |
सम् अन्धांस्य् अग्मत मत्सराणि मा नो मर्धिष्टम् आ गतं शिवेन ||úpa tyā́ váhnī gamato víśam no rakṣoháṇā sámbhṛtā vīḷúpāṇī ǀ
sámándhāṃsyagmata matsarā́ṇi mā́ no mardhiṣṭamā́ gatam śivéna ǁupa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīḷupāṇī |
sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena ||उप॑ । त्या । वह्नी॒ इति॑ । ग॒म॒तः॒ । विश॑म् । नः॒ । र॒क्षः॒ऽहना॑ । सम्ऽभृ॑ता । वी॒ळुपा॑णी॒ इति॑ वी॒ळुऽपा॑णी ।
सम् । अन्धां॑सि । अ॒ग्म॒त॒ । म॒त्स॒राणि॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् । शि॒वेन॑ ॥उप । त्या । वह्नी इति । गमतः । विशम् । नः । रक्षःऽहना । सम्ऽभृता । वीळुपाणी इति वीळुऽपाणी ।
सम् । अन्धांसि । अग्मत । मत्सराणि । मा । नः । मर्धिष्टम् । आ । गतम् । शिवेन ॥úpa ǀ tyā́ ǀ váhnī íti ǀ gamataḥ ǀ víśam ǀ naḥ ǀ rakṣaḥ-hánā ǀ sám-bhṛtā ǀ vīḷúpāṇī íti vīḷú-pāṇī ǀ
sám ǀ ándhāṃsi ǀ agmata ǀ matsarā́ṇi ǀ mā́ ǀ naḥ ǀ mardhiṣṭam ǀ ā́ ǀ gatam ǀ śivéna ǁupa ǀ tyā ǀ vahnī iti ǀ gamataḥ ǀ viśam ǀ naḥ ǀ rakṣaḥ-hanā ǀ sam-bhṛtā ǀ vīḷupāṇī iti vīḷu-pāṇī ǀ
sam ǀ andhāṃsi ǀ agmata ǀ matsarāṇi ǀ mā ǀ naḥ ǀ mardhiṣṭam ǀ ā ǀ gatam ǀ śivena ǁ7.73.4 Aṣṭaka 5.5.20.4Anuvāka 7.5.15
-
Ṛk 5
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
आ वि॒श्वतः॒ पांच॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् |
आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ||ā́ paścā́tānnāsatyā́ purástādā́śvinā yātamadharā́dúdaktāt ǀ
ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyám pāta svastíbhiḥ sádā naḥ ǁā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt |
ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ||आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।
आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् ।
आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ā́ ǀ paścā́tāt ǀ nāsatyā ǀ ā́ ǀ purástāt ǀ ā́ ǀ aśvinā ǀ yātam ǀ adharā́t ǀ údaktāt ǀ
ā́ ǀ viśvátaḥ ǀ pā́ñca-janyena ǀ rāyā́ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁā ǀ paścātāt ǀ nāsatyā ǀ ā ǀ purastāt ǀ ā ǀ aśvinā ǀ yātam ǀ adharāt ǀ udaktāt ǀ
ā ǀ viśvataḥ ǀ pāñca-janyena ǀ rāyā ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.73.5 Aṣṭaka 5.5.20.5Anuvāka 7.5.16
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.