Ṛk 7.73.5
Saṃhitā
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
आ वि॒श्वतः॒ पांच॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् |
आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ||
ā́ paścā́tānnāsatyā́ purástādā́śvinā yātamadharā́dúdaktāt ǀ
ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyám pāta svastíbhiḥ sádā naḥ ǁ
ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt |
ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ||
Padapāṭha
आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।
आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् ।
आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
ā́ ǀ paścā́tāt ǀ nāsatyā ǀ ā́ ǀ purástāt ǀ ā́ ǀ aśvinā ǀ yātam ǀ adharā́t ǀ údaktāt ǀ
ā́ ǀ viśvátaḥ ǀ pā́ñca-janyena ǀ rāyā́ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ
ā ǀ paścātāt ǀ nāsatyā ǀ ā ǀ purastāt ǀ ā ǀ aśvinā ǀ yātam ǀ adharāt ǀ udaktāt ǀ
ā ǀ viśvataḥ ǀ pāñca-janyena ǀ rāyā ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.073.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.20.05
- Maṇḍala · Anuvāka · Ṛk
- 07.05.016
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.