Ṛk 7.73.2
Saṃhitā
न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वंद॑ते च ।
अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥
न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च |
अश्नीतम् मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ||
nyú priyó mánuṣaḥ sādi hótā nā́satyā yó yájate vándate ca ǀ
aśnītám mádhvo aśvinā upāká ā́ vām voce vidátheṣu práyasvān ǁ
ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca |
aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān ||
Padapāṭha
नि । ऊं॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ ।
अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥
नि । ऊं इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च ।
अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥
ní ǀ ūṃ íti ǀ priyáḥ ǀ mánuṣaḥ ǀ sādi ǀ hótā ǀ nā́satyā ǀ yáḥ ǀ yájate ǀ vándate ǀ ca ǀ
aśnītám ǀ mádhvaḥ ǀ aśvinau ǀ upāké ǀ ā́ ǀ vām ǀ voce ǀ vidátheṣu ǀ práyasvān ǁ
ni ǀ ūṃ iti ǀ priyaḥ ǀ manuṣaḥ ǀ sādi ǀ hotā ǀ nāsatyā ǀ yaḥ ǀ yajate ǀ vandate ǀ ca ǀ
aśnītam ǀ madhvaḥ ǀ aśvinau ǀ upāke ǀ ā ǀ vām ǀ voce ǀ vidatheṣu ǀ prayasvān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.073.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.20.02
- Maṇḍala · Anuvāka · Ṛk
- 07.05.013
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.