Sūkta 24
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3); triṣṭup (2, 5); virāṭtrisṭup (4); virāṭpaṅkti (6)
2nd set of styles triṣṭubh
-
Ṛk 1
योनि॑ष्ट इंद्र॒ सद॑ने अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या॑हि ।
असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमैः॑ ॥योनिष् ट इन्द्र सदने अकारि तम् आ नृभिः पुरुहूत प्र याहि |
असो यथा नो ऽविता वृधे च ददो वसूनि ममदश् च सोमैः ||yóniṣṭa indra sádane akāri támā́ nṛ́bhiḥ puruhūta prá yāhi ǀ
áso yáthā no’vitā́ vṛdhé ca dádo vásūni mamádaśca sómaiḥ ǁyoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi |
aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ ||योनिः॑ । ते॒ । इ॒न्द्र॒ । सद॑ने । अ॒का॒रि॒ । तम् । आ । नृऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्र । या॒हि॒ ।
असः॑ । यथा॑ । नः॒ । अ॒वि॒ता । वृ॒धे । च॒ । ददः॑ । वसू॑नि । म॒मदः॑ । च॒ । सोमैः॑ ॥योनिः । ते । इन्द्र । सदने । अकारि । तम् । आ । नृऽभिः । पुरुऽहूत । प्र । याहि ।
असः । यथा । नः । अविता । वृधे । च । ददः । वसूनि । ममदः । च । सोमैः ॥yóniḥ ǀ te ǀ indra ǀ sádane ǀ akāri ǀ tám ǀ ā́ ǀ nṛ́-bhiḥ ǀ puru-hūta ǀ prá ǀ yāhi ǀ
ásaḥ ǀ yáthā ǀ naḥ ǀ avitā́ ǀ vṛdhé ǀ ca ǀ dádaḥ ǀ vásūni ǀ mamádaḥ ǀ ca ǀ sómaiḥ ǁyoniḥ ǀ te ǀ indra ǀ sadane ǀ akāri ǀ tam ǀ ā ǀ nṛ-bhiḥ ǀ puru-hūta ǀ pra ǀ yāhi ǀ
asaḥ ǀ yathā ǀ naḥ ǀ avitā ǀ vṛdhe ǀ ca ǀ dadaḥ ǀ vasūni ǀ mamadaḥ ǀ ca ǀ somaiḥ ǁ7.24.1 Aṣṭaka 5.3.8.1Anuvāka 7.2.72
-
Ṛk 2
गृ॒भी॒तं ते॒ मन॑ इंद्र द्वि॒बर्हाः॑ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि ।
विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिंद्रं॒ जोहु॑वती मनी॒षा ॥गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि |
विसृष्टधेना भरते सुवृक्तिर् इयम् इन्द्रं जोहुवती मनीषा ||gṛbhītám te mána indra dvibárhāḥ sutáḥ sómaḥ páriṣiktā mádhūni ǀ
vísṛṣṭadhenā bharate suvṛktíriyámíndram jóhuvatī manīṣā́ ǁgṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni |
visṛṣṭadhenā bharate suvṛktir iyam indraṃ johuvatī manīṣā ||गृ॒भी॒तम् । ते॒ । मनः॑ । इ॒न्द्र॒ । द्वि॒ऽबर्हाः॑ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।
विसृ॑ष्टऽधेना । भ॒र॒ते॒ । सु॒ऽवृ॒क्तिः । इ॒यम् । इन्द्र॑म् । जोहु॑वती । म॒नी॒षा ॥गृभीतम् । ते । मनः । इन्द्र । द्विऽबर्हाः । सुतः । सोमः । परिऽसिक्ता । मधूनि ।
विसृष्टऽधेना । भरते । सुऽवृक्तिः । इयम् । इन्द्रम् । जोहुवती । मनीषा ॥gṛbhītám ǀ te ǀ mánaḥ ǀ indra ǀ dvi-bárhāḥ ǀ sutáḥ ǀ sómaḥ ǀ pári-siktā ǀ mádhūni ǀ
vísṛṣṭa-dhenā ǀ bharate ǀ su-vṛktíḥ ǀ iyám ǀ índram ǀ jóhuvatī ǀ manīṣā́ ǁgṛbhītam ǀ te ǀ manaḥ ǀ indra ǀ dvi-barhāḥ ǀ sutaḥ ǀ somaḥ ǀ pari-siktā ǀ madhūni ǀ
visṛṣṭa-dhenā ǀ bharate ǀ su-vṛktiḥ ǀ iyam ǀ indram ǀ johuvatī ǀ manīṣā ǁ7.24.2 Aṣṭaka 5.3.8.2Anuvāka 7.2.73
-
Ṛk 3
आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि ।
वहं॑तु त्वा॒ हर॑यो म॒द्र्यं॑चमांगू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय याहि |
वहन्तु त्वा हरयो मद्र्यञ्चम् आङ्गूषम् अच्छा तवसम् मदाय ||ā́ no divá ā́ pṛthivyā́ ṛjīṣinnidám barhíḥ somapéyāya yāhi ǀ
váhantu tvā hárayo madryáñcamāṅgūṣámácchā tavásam mádāya ǁā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi |
vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya ||आ । नः॒ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । इ॒दम् । ब॒र्हिः । सो॒म॒ऽपेया॑य । या॒हि॒ ।
वह॑न्तु । त्वा॒ । हर॑यः । म॒द्र्य॑ञ्चम् । आ॒ङ्गू॒षम् । अच्छ॑ । त॒वस॑म् । मदा॑य ॥आ । नः । दिवः । आ । पृथिव्याः । ऋजीषिन् । इदम् । बर्हिः । सोमऽपेयाय । याहि ।
वहन्तु । त्वा । हरयः । मद्र्यञ्चम् । आङ्गूषम् । अच्छ । तवसम् । मदाय ॥ā́ ǀ naḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ ṛjīṣin ǀ idám ǀ barhíḥ ǀ soma-péyāya ǀ yāhi ǀ
váhantu ǀ tvā ǀ hárayaḥ ǀ madryáñcam ǀ āṅgūṣám ǀ áccha ǀ tavásam ǀ mádāya ǁā ǀ naḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ ṛjīṣin ǀ idam ǀ barhiḥ ǀ soma-peyāya ǀ yāhi ǀ
vahantu ǀ tvā ǀ harayaḥ ǀ madryañcam ǀ āṅgūṣam ǀ accha ǀ tavasam ǀ madāya ǁ7.24.3 Aṣṭaka 5.3.8.3Anuvāka 7.2.74
-
Ṛk 4
आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिंद्र ॥आ नो विश्वाभिर् ऊतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि |
वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणं शुष्मम् इन्द्र ||ā́ no víśvābhirūtíbhiḥ sajóṣā bráhma juṣāṇó haryaśva yāhi ǀ
várīvṛjatsthávirebhiḥ suśiprāsmé dádhadvṛ́ṣaṇam śúṣmamindra ǁā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi |
varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra ||आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । ब्रह्म॑ । जु॒षा॒णः । ह॒रि॒ऽअ॒श्व॒ । या॒हि॒ ।
वरी॑वृजत् । स्थवि॑रेभिः । सु॒ऽशि॒प्र॒ । अ॒स्मे इति॑ । दध॑त् । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ ॥आ । नः । विश्वाभिः । ऊतिऽभिः । सऽजोषाः । ब्रह्म । जुषाणः । हरिऽअश्व । याहि ।
वरीवृजत् । स्थविरेभिः । सुऽशिप्र । अस्मे इति । दधत् । वृषणम् । शुष्मम् । इन्द्र ॥ā́ ǀ naḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ sa-jóṣāḥ ǀ bráhma ǀ juṣāṇáḥ ǀ hari-aśva ǀ yāhi ǀ
várīvṛjat ǀ sthávirebhiḥ ǀ su-śipra ǀ asmé íti ǀ dádhat ǀ vṛ́ṣaṇam ǀ śúṣmam ǀ indra ǁā ǀ naḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ sa-joṣāḥ ǀ brahma ǀ juṣāṇaḥ ǀ hari-aśva ǀ yāhi ǀ
varīvṛjat ǀ sthavirebhiḥ ǀ su-śipra ǀ asme iti ǀ dadhat ǀ vṛṣaṇam ǀ śuṣmam ǀ indra ǁ7.24.4 Aṣṭaka 5.3.8.4Anuvāka 7.2.75
-
Ṛk 5
ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि ।
इंद्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ॥एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्न् अधायि |
इन्द्र त्वायम् अर्क ईट्टे वसूनां दिवीव द्याम् अधि नः श्रोमतं धाः ||eṣá stómo mahá ugrā́ya vā́he dhurī́vā́tyo ná vājáyannadhāyi ǀ
índra tvāyámarká īṭṭe vásūnām divī́va dyā́mádhi naḥ śrómatam dhāḥ ǁeṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi |
indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ ||ए॒षः । स्तोमः॑ । म॒हे । उ॒ग्राय॑ । वाहे॑ । धु॒रिऽइ॑व । अत्यः॑ । न । वा॒जय॑न् । अ॒धा॒यि॒ ।
इन्द्र॑ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू॑नाम् । दि॒विऽइ॑व । द्याम् । अधि॑ । नः॒ । श्रोम॑तम् । धाः॒ ॥एषः । स्तोमः । महे । उग्राय । वाहे । धुरिऽइव । अत्यः । न । वाजयन् । अधायि ।
इन्द्र । त्वा । अयम् । अर्कः । ईट्टे । वसूनाम् । दिविऽइव । द्याम् । अधि । नः । श्रोमतम् । धाः ॥eṣáḥ ǀ stómaḥ ǀ mahé ǀ ugrā́ya ǀ vā́he ǀ dhurí-iva ǀ átyaḥ ǀ ná ǀ vājáyan ǀ adhāyi ǀ
índra ǀ tvā ǀ ayám ǀ arkáḥ ǀ īṭṭe ǀ vásūnām ǀ diví-iva ǀ dyā́m ǀ ádhi ǀ naḥ ǀ śrómatam ǀ dhāḥ ǁeṣaḥ ǀ stomaḥ ǀ mahe ǀ ugrāya ǀ vāhe ǀ dhuri-iva ǀ atyaḥ ǀ na ǀ vājayan ǀ adhāyi ǀ
indra ǀ tvā ǀ ayam ǀ arkaḥ ǀ īṭṭe ǀ vasūnām ǀ divi-iva ǀ dyām ǀ adhi ǀ naḥ ǀ śromatam ǀ dhāḥ ǁ7.24.5 Aṣṭaka 5.3.8.5Anuvāka 7.2.76
-
Ṛk 6
ए॒वा न॑ इंद्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।
इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम |
इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ||evā́ na indra vā́ryasya pūrdhi prá te mahī́m sumatím vevidāma ǀ
íṣam pinva maghávadbhyaḥ suvī́rām yūyám pāta svastíbhiḥ sádā naḥ ǁevā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma |
iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ ||ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ ।
इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । नः । इन्द्र । वार्यस्य । पूर्धि । प्र । ते । महीम् । सुऽमतिम् । वेविदाम ।
इषम् । पिन्व । मघवत्ऽभ्यः । सुऽवीराम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥evá ǀ naḥ ǀ indra ǀ vā́ryasya ǀ pūrdhi ǀ prá ǀ te ǀ mahī́m ǀ su-matím ǀ vevidāma ǀ
íṣam ǀ pinva ǀ maghávat-bhyaḥ ǀ su-vī́rām ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁeva ǀ naḥ ǀ indra ǀ vāryasya ǀ pūrdhi ǀ pra ǀ te ǀ mahīm ǀ su-matim ǀ vevidāma ǀ
iṣam ǀ pinva ǀ maghavat-bhyaḥ ǀ su-vīrām ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.24.6 Aṣṭaka 5.3.8.6Anuvāka 7.2.77
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.