Ṛk 7.24.3
Saṃhitā
आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि ।
वहं॑तु त्वा॒ हर॑यो म॒द्र्यं॑चमांगू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥
आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय याहि |
वहन्तु त्वा हरयो मद्र्यञ्चम् आङ्गूषम् अच्छा तवसम् मदाय ||
ā́ no divá ā́ pṛthivyā́ ṛjīṣinnidám barhíḥ somapéyāya yāhi ǀ
váhantu tvā hárayo madryáñcamāṅgūṣámácchā tavásam mádāya ǁ
ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi |
vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya ||
Padapāṭha
आ । नः॒ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । इ॒दम् । ब॒र्हिः । सो॒म॒ऽपेया॑य । या॒हि॒ ।
वह॑न्तु । त्वा॒ । हर॑यः । म॒द्र्य॑ञ्चम् । आ॒ङ्गू॒षम् । अच्छ॑ । त॒वस॑म् । मदा॑य ॥
आ । नः । दिवः । आ । पृथिव्याः । ऋजीषिन् । इदम् । बर्हिः । सोमऽपेयाय । याहि ।
वहन्तु । त्वा । हरयः । मद्र्यञ्चम् । आङ्गूषम् । अच्छ । तवसम् । मदाय ॥
ā́ ǀ naḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ ṛjīṣin ǀ idám ǀ barhíḥ ǀ soma-péyāya ǀ yāhi ǀ
váhantu ǀ tvā ǀ hárayaḥ ǀ madryáñcam ǀ āṅgūṣám ǀ áccha ǀ tavásam ǀ mádāya ǁ
ā ǀ naḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ ṛjīṣin ǀ idam ǀ barhiḥ ǀ soma-peyāya ǀ yāhi ǀ
vahantu ǀ tvā ǀ harayaḥ ǀ madryañcam ǀ āṅgūṣam ǀ accha ǀ tavasam ǀ madāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.024.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.08.03
- Maṇḍala · Anuvāka · Ṛk
- 07.02.074
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.