Sūkta 44
- Devatā देवता
- 1: Liṅgoktadevatāḥ; 2-5: Dadhikrā
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 3); paṅktiḥ (4, 5); nicṛjjagatī (1)
2nd set of styles triṣṭubh (2-5); jagatī (1)
-
Ṛk 1
द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे ।
इंद्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यांद्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥दधिक्रां वः प्रथमम् अश्विनोषसम् अग्निं समिद्धम् भगम् ऊतये हुवे |
इन्द्रं विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान् द्यावापृथिवी अपः स्वः ||dadhikrā́m vaḥ prathamámaśvínoṣásamagním sámiddham bhágamūtáye huve ǀ
índram víṣṇum pūṣáṇam bráhmaṇaspátimādityā́ndyā́vāpṛthivī́ apáḥ sváḥ ǁdadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve |
indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ ||द॒धि॒ऽक्राम् । वः॒ । प्र॒थ॒मम् । अ॒श्विना॑ । उ॒षस॑म् । अ॒ग्निम् । सम्ऽइ॑द्धम् । भग॑म् । ऊ॒तये॑ । हु॒वे॒ ।
इन्द्र॑म् । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वः॑ ॥दधिऽक्राम् । वः । प्रथमम् । अश्विना । उषसम् । अग्निम् । सम्ऽइद्धम् । भगम् । ऊतये । हुवे ।
इन्द्रम् । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । आदित्यान् । द्यावापृथिवी इति । अपः । स्वः ॥dadhi-krā́m ǀ vaḥ ǀ prathamám ǀ aśvínā ǀ uṣásam ǀ agním ǀ sám-iddham ǀ bhágam ǀ ūtáye ǀ huve ǀ
índram ǀ víṣṇum ǀ pūṣáṇam ǀ bráhmaṇaḥ ǀ pátim ǀ ādityā́n ǀ dyā́vāpṛthivī́ íti ǀ apáḥ ǀ sváḥ ǁdadhi-krām ǀ vaḥ ǀ prathamam ǀ aśvinā ǀ uṣasam ǀ agnim ǀ sam-iddham ǀ bhagam ǀ ūtaye ǀ huve ǀ
indram ǀ viṣṇum ǀ pūṣaṇam ǀ brahmaṇaḥ ǀ patim ǀ ādityān ǀ dyāvāpṛthivī iti ǀ apaḥ ǀ svaḥ ǁ7.44.1 Aṣṭaka 5.4.11.1Anuvāka 7.3.98
-
Ṛk 2
द॒धि॒क्रामु॒ नम॑सा बो॒धयं॑त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यंतः॑ ।
इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दयं॑तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥दधिक्राम् उ नमसा बोधयन्त उदीराणा यज्ञम् उपप्रयन्तः |
इऌआं देवीम् बर्हिषि सादयन्तो ऽश्विना विप्रा सुहवा हुवेम ||dadhikrā́mu námasā bodháyanta udī́rāṇā yajñámupaprayántaḥ ǀ
íḷām devī́m barhíṣi sādáyanto’śvínā víprā suhávā huvema ǁdadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ |
iḷāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema ||द॒धि॒ऽक्राम् । ऊं॒ इति॑ । नम॑सा । बो॒धय॑न्तः । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ ।
इळा॑म् । दे॒वीम् । ब॒र्हिषि॑ । सा॒दय॑न्तः । अ॒श्विना॑ । विप्राः॑ । सु॒ऽहवा॑ । हु॒वे॒म॒ ॥दधिऽक्राम् । ऊं इति । नमसा । बोधयन्तः । उत्ऽईराणाः । यज्ञम् । उपऽप्रयन्तः ।
इळाम् । देवीम् । बर्हिषि । सादयन्तः । अश्विना । विप्राः । सुऽहवा । हुवेम ॥dadhi-krā́m ǀ ūṃ íti ǀ námasā ǀ bodháyantaḥ ǀ ut-ī́rāṇāḥ ǀ yajñám ǀ upa-prayántaḥ ǀ
íḷām ǀ devī́m ǀ barhíṣi ǀ sādáyantaḥ ǀ aśvínā ǀ víprāḥ ǀ su-hávā ǀ huvema ǁdadhi-krām ǀ ūṃ iti ǀ namasā ǀ bodhayantaḥ ǀ ut-īrāṇāḥ ǀ yajñam ǀ upa-prayantaḥ ǀ
iḷām ǀ devīm ǀ barhiṣi ǀ sādayantaḥ ǀ aśvinā ǀ viprāḥ ǀ su-havā ǀ huvema ǁ7.44.2 Aṣṭaka 5.4.11.2Anuvāka 7.3.99
-
Ṛk 3
द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गां ।
ब्र॒ध्नं मां॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयंतु ॥दधिक्रावाणम् बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गाम् |
ब्रध्नम् मांश्चतोर् वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु ||dadhikrā́vāṇam bubudhānó agnímúpa bruva uṣásam sū́ryam gā́m ǀ
bradhnám māṃścatórváruṇasya babhrúm té víśvāsmádduritā́ yāvayantu ǁdadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām |
bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu ||द॒धि॒ऽक्रावा॑णम् । बु॒बु॒धा॒नः । अ॒ग्निम् । उप॑ । ब्रु॒वे॒ । उ॒षस॑म् । सूर्य॑म् । गाम् ।
ब्र॒ध्नम् । मं॒श्च॒तोः । वरु॑णस्य । ब॒भ्रुम् । ते । विश्वा॑ । अ॒स्मत् । दुः॒ऽइ॒ता । य॒व॒य॒न्तु॒ ॥दधिऽक्रावाणम् । बुबुधानः । अग्निम् । उप । ब्रुवे । उषसम् । सूर्यम् । गाम् ।
ब्रध्नम् । मंश्चतोः । वरुणस्य । बभ्रुम् । ते । विश्वा । अस्मत् । दुःऽइता । यवयन्तु ॥dadhi-krā́vāṇam ǀ bubudhānáḥ ǀ agním ǀ úpa ǀ bruve ǀ uṣásam ǀ sū́ryam ǀ gā́m ǀ
bradhnám ǀ máṃścatóḥ ǀ váruṇasya ǀ babhrúm ǀ té ǀ víśvā ǀ asmát ǀ duḥ-itā́ ǀ yavayantu ǁdadhi-krāvāṇam ǀ bubudhānaḥ ǀ agnim ǀ upa ǀ bruve ǀ uṣasam ǀ sūryam ǀ gām ǀ
bradhnam ǀ maṃścatoḥ ǀ varuṇasya ǀ babhrum ǀ te ǀ viśvā ǀ asmat ǀ duḥ-itā ǀ yavayantu ǁ7.44.3 Aṣṭaka 5.4.11.3Anuvāka 7.3.100
-
Ṛk 4
द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् ।
सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रंगि॑रोभिः ॥दधिक्रावा प्रथमो वाज्य् अर्वाग्रे रथानाम् भवति प्रजानन् |
संविदान उषसा सूर्येणादित्येभिर् वसुभिर् अङ्गिरोभिः ||dadhikrā́vā prathamó vājyárvā́gre ráthānām bhavati prajānán ǀ
saṃvidāná uṣásā sū́ryeṇādityébhirvásubhiráṅgirobhiḥ ǁdadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan |
saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ ||द॒धि॒ऽक्रावा॑ । प्र॒थ॒मः । वा॒जी । अर्वा॑ । अग्रे॑ । रथा॑नाम् । भ॒व॒ति॒ । प्र॒ऽजा॒नन् ।
स॒म्ऽवि॒दा॒नः । उ॒षसा॑ । सूर्ये॑ण । आ॒दि॒त्येभिः॑ । वसु॑ऽभिः । अङ्गि॑रःऽभिः ॥दधिऽक्रावा । प्रथमः । वाजी । अर्वा । अग्रे । रथानाम् । भवति । प्रऽजानन् ।
सम्ऽविदानः । उषसा । सूर्येण । आदित्येभिः । वसुऽभिः । अङ्गिरःऽभिः ॥dadhi-krā́vā ǀ prathamáḥ ǀ vājī́ ǀ árvā ǀ ágre ǀ ráthānām ǀ bhavati ǀ pra-jānán ǀ
sam-vidānáḥ ǀ uṣásā ǀ sū́ryeṇa ǀ ādityébhiḥ ǀ vásu-bhiḥ ǀ áṅgiraḥ-bhiḥ ǁdadhi-krāvā ǀ prathamaḥ ǀ vājī ǀ arvā ǀ agre ǀ rathānām ǀ bhavati ǀ pra-jānan ǀ
sam-vidānaḥ ǀ uṣasā ǀ sūryeṇa ǀ ādityebhiḥ ǀ vasu-bhiḥ ǀ aṅgiraḥ-bhiḥ ǁ7.44.4 Aṣṭaka 5.4.11.4Anuvāka 7.3.101
-
Ṛk 5
आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पंथा॒मन्वे॑त॒वा उ॑ ।
शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वंतु॒ विश्वे॑ महि॒षा अमू॑राः ॥आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ |
शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ||ā́ no dadhikrā́ḥ pathyā́manaktvṛtásya pánthāmánvetavā́ u ǀ
śṛṇótu no dáivyam śárdho agníḥ śṛṇvántu víśve mahiṣā́ ámūrāḥ ǁā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u |
śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ ||आ । नः॒ । द॒धि॒ऽक्राः । प॒थ्या॑म् । अ॒न॒क्तु॒ । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।
शृ॒णोतु॑ । नः॒ । दैव्य॑म् । शर्धः॑ । अ॒ग्निः । शृ॒ण्वन्तु॑ । विश्वे॑ । म॒हि॒षाः । अमू॑राः ॥आ । नः । दधिऽक्राः । पथ्याम् । अनक्तु । ऋतस्य । पन्थाम् । अनुऽएतवै । ऊं इति ।
शृणोतु । नः । दैव्यम् । शर्धः । अग्निः । शृण्वन्तु । विश्वे । महिषाः । अमूराः ॥ā́ ǀ naḥ ǀ dadhi-krā́ḥ ǀ pathyā́m ǀ anaktu ǀ ṛtásya ǀ pánthām ǀ ánu-etavái ǀ ūṃ íti ǀ
śṛṇótu ǀ naḥ ǀ dáivyam ǀ śárdhaḥ ǀ agníḥ ǀ śṛṇvántu ǀ víśve ǀ mahiṣā́ḥ ǀ ámūrāḥ ǁā ǀ naḥ ǀ dadhi-krāḥ ǀ pathyām ǀ anaktu ǀ ṛtasya ǀ panthām ǀ anu-etavai ǀ ūṃ iti ǀ
śṛṇotu ǀ naḥ ǀ daivyam ǀ śardhaḥ ǀ agniḥ ǀ śṛṇvantu ǀ viśve ǀ mahiṣāḥ ǀ amūrāḥ ǁ7.44.5 Aṣṭaka 5.4.11.5Anuvāka 7.3.102
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.