Sūkta 7
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (4-6); triṣṭup (1, 3); bhurikpaṅkti (2); svarāṭpaṅkti (7)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः ।
भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वांत्मना॑ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ॥प्र वो देवं चित् सहसानम् अग्निम् अश्वं न वाजिनं हिषे नमोभिः |
भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः ||prá vo devám citsahasānámagnímáśvam ná vājínam hiṣe námobhiḥ ǀ
bhávā no dūtó adhvarásya vidvā́ntmánā devéṣu vivide mitádruḥ ǁpra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ |
bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ ||प्र । वः॒ । दे॒वम् । चि॒त् । स॒ह॒सा॒नम् । अ॒ग्निम् । अश्व॑म् । न । वा॒जिन॑म् । हि॒षे॒ । नमः॑ऽभिः ।
भव॑ । नः॒ । दू॒तः । अ॒ध्व॒रस्य॑ । वि॒द्वान् । त्मना॑ । दे॒वेषु॑ । वि॒वि॒दे॒ । मि॒तऽद्रुः॑ ॥प्र । वः । देवम् । चित् । सहसानम् । अग्निम् । अश्वम् । न । वाजिनम् । हिषे । नमःऽभिः ।
भव । नः । दूतः । अध्वरस्य । विद्वान् । त्मना । देवेषु । विविदे । मितऽद्रुः ॥prá ǀ vaḥ ǀ devám ǀ cit ǀ sahasānám ǀ agním ǀ áśvam ǀ ná ǀ vājínam ǀ hiṣe ǀ námaḥ-bhiḥ ǀ
bháva ǀ naḥ ǀ dūtáḥ ǀ adhvarásya ǀ vidvā́n ǀ tmánā ǀ devéṣu ǀ vivide ǀ mitá-druḥ ǁpra ǀ vaḥ ǀ devam ǀ cit ǀ sahasānam ǀ agnim ǀ aśvam ǀ na ǀ vājinam ǀ hiṣe ǀ namaḥ-bhiḥ ǀ
bhava ǀ naḥ ǀ dūtaḥ ǀ adhvarasya ǀ vidvān ǀ tmanā ǀ deveṣu ǀ vivide ǀ mita-druḥ ǁ7.7.1 Aṣṭaka 5.2.10.1Anuvāka 7.1.73
-
Ṛk 2
आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा मं॒द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः ।
आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जंभे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥आ याह्य् अग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः |
आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम् उशधग् वनानि ||ā́ yāhyagne pathyā́ ánu svā́ mandró devā́nām sakhyám juṣāṇáḥ ǀ
ā́ sā́nu śúṣmairnadáyanpṛthivyā́ jámbhebhirvíśvamuśádhagvánāni ǁā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ |
ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni ||आ । या॒हि॒ । अ॒ग्ने॒ । प॒थ्याः॑ । अनु॑ । स्वाः । म॒न्द्रः । दे॒वाना॑म् । स॒ख्यम् । जु॒षा॒णः ।
आ । सानु॑ । शुष्मैः॑ । न॒दय॑न् । पृ॒थि॒व्याः । जम्भे॑भिः । विश्व॑म् । उ॒शध॑क् । वना॑नि ॥आ । याहि । अग्ने । पथ्याः । अनु । स्वाः । मन्द्रः । देवानाम् । सख्यम् । जुषाणः ।
आ । सानु । शुष्मैः । नदयन् । पृथिव्याः । जम्भेभिः । विश्वम् । उशधक् । वनानि ॥ā́ ǀ yāhi ǀ agne ǀ pathyā́ḥ ǀ ánu ǀ svā́ḥ ǀ mandráḥ ǀ devā́nām ǀ sakhyám ǀ juṣāṇáḥ ǀ
ā́ ǀ sā́nu ǀ śúṣmaiḥ ǀ nadáyan ǀ pṛthivyā́ḥ ǀ jámbhebhiḥ ǀ víśvam ǀ uśádhak ǀ vánāni ǁā ǀ yāhi ǀ agne ǀ pathyāḥ ǀ anu ǀ svāḥ ǀ mandraḥ ǀ devānām ǀ sakhyam ǀ juṣāṇaḥ ǀ
ā ǀ sānu ǀ śuṣmaiḥ ǀ nadayan ǀ pṛthivyāḥ ǀ jambhebhiḥ ǀ viśvam ǀ uśadhak ǀ vanāni ǁ7.7.2 Aṣṭaka 5.2.10.2Anuvāka 7.1.74
-
Ṛk 3
प्रा॒चीनो॑ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री॑णी॒ते अ॒ग्निरी॑ळि॒तो न होता॑ ।
आ मा॒तरा॑ वि॒श्ववा॑रे हुवा॒नो यतो॑ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ॥प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निर् ईऌइतो न होता |
आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ||prācī́no yajñáḥ súdhitam hí barhíḥ prīṇīté agnírīḷitó ná hótā ǀ
ā́ mātárā viśvávāre huvānó yáto yaviṣṭha jajñiṣé suśévaḥ ǁprācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īḷito na hotā |
ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ ||प्रा॒चीनः॑ । य॒ज्ञः । सुऽधि॑तम् । हि । ब॒र्हिः । प्री॒णी॒ते । अ॒ग्निः । ई॒ळि॒तः । न । होता॑ ।
आ । मा॒तरा॑ । वि॒श्ववा॑रे॒ इति॑ वि॒श्वऽवा॑रे । हु॒वा॒नः । यतः॑ । य॒वि॒ष्ठ॒ । ज॒ज्ञि॒षे । सु॒ऽशेवः॑ ॥प्राचीनः । यज्ञः । सुऽधितम् । हि । बर्हिः । प्रीणीते । अग्निः । ईळितः । न । होता ।
आ । मातरा । विश्ववारे इति विश्वऽवारे । हुवानः । यतः । यविष्ठ । जज्ञिषे । सुऽशेवः ॥prācī́naḥ ǀ yajñáḥ ǀ sú-dhitam ǀ hí ǀ barhíḥ ǀ prīṇīté ǀ agníḥ ǀ īḷitáḥ ǀ ná ǀ hótā ǀ
ā́ ǀ mātárā ǀ viśvávāre íti viśvá-vāre ǀ huvānáḥ ǀ yátaḥ ǀ yaviṣṭha ǀ jajñiṣé ǀ su-śévaḥ ǁprācīnaḥ ǀ yajñaḥ ǀ su-dhitam ǀ hi ǀ barhiḥ ǀ prīṇīte ǀ agniḥ ǀ īḷitaḥ ǀ na ǀ hotā ǀ
ā ǀ mātarā ǀ viśvavāre iti viśva-vāre ǀ huvānaḥ ǀ yataḥ ǀ yaviṣṭha ǀ jajñiṣe ǀ su-śevaḥ ǁ7.7.3 Aṣṭaka 5.2.10.3Anuvāka 7.1.75
-
Ṛk 4
स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नंत॒ मानु॑षासो॒ विचे॑तसो॒ य ए॑षां ।
वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॒॑ऽग्निर्मं॒द्रो मधु॑वचा ऋ॒तावा॑ ॥सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् |
विशाम् अधायि विश्पतिर् दुरोणे ऽग्निर् मन्द्रो मधुवचा ऋतावा ||sadyó adhvaré rathirám jananta mā́nuṣāso vícetaso yá eṣām ǀ
viśā́madhāyi viśpátirduroṇé’gnírmandró mádhuvacā ṛtā́vā ǁsadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām |
viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā ||स॒द्यः । अ॒ध्व॒रे । र॒थि॒रम् । ज॒न॒न्त॒ । मानु॑षासः । विऽचे॑तसः । यः । ए॒षा॒म् ।
वि॒शाम् । अ॒धा॒यि॒ । वि॒श्पतिः॑ । दु॒रो॒णे । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ॥सद्यः । अध्वरे । रथिरम् । जनन्त । मानुषासः । विऽचेतसः । यः । एषाम् ।
विशाम् । अधायि । विश्पतिः । दुरोणे । अग्निः । मन्द्रः । मधुऽवचाः । ऋतऽवा ॥sadyáḥ ǀ adhvaré ǀ rathirám ǀ jananta ǀ mā́nuṣāsaḥ ǀ ví-cetasaḥ ǀ yáḥ ǀ eṣām ǀ
viśā́m ǀ adhāyi ǀ viśpátiḥ ǀ duroṇé ǀ agníḥ ǀ mandráḥ ǀ mádhu-vacāḥ ǀ ṛtá-vā ǁsadyaḥ ǀ adhvare ǀ rathiram ǀ jananta ǀ mānuṣāsaḥ ǀ vi-cetasaḥ ǀ yaḥ ǀ eṣām ǀ
viśām ǀ adhāyi ǀ viśpatiḥ ǀ duroṇe ǀ agniḥ ǀ mandraḥ ǀ madhu-vacāḥ ǀ ṛta-vā ǁ7.7.4 Aṣṭaka 5.2.10.4Anuvāka 7.1.76
-
Ṛk 5
असा॑दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता ।
द्यौश्च॒ यं पृ॑थि॒वी वा॑वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा॑रं ॥असादि वृतो वह्निर् आजगन्वान् अग्निर् ब्रह्मा नृषदने विधर्ता |
द्यौश् च यम् पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ||ásādi vṛtó váhnirājaganvā́nagnírbrahmā́ nṛṣádane vidhartā́ ǀ
dyáuśca yám pṛthivī́ vāvṛdhā́te ā́ yám hótā yájati viśvávāram ǁasādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā |
dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram ||असा॑दि । वृ॒तः । वह्निः॑ । आ॒ऽज॒ग॒न्वान् । अ॒ग्निः । ब्र॒ह्मा । नृ॒ऽसद॑ने । वि॒ऽध॒र्ता ।
द्यौः । च॒ । यम् । पृ॒थि॒वी । व॒वृ॒धाते॒ इति॑ । आ । यम् । होता॑ । यज॑ति । वि॒श्वऽवा॑रम् ॥असादि । वृतः । वह्निः । आऽजगन्वान् । अग्निः । ब्रह्मा । नृऽसदने । विऽधर्ता ।
द्यौः । च । यम् । पृथिवी । ववृधाते इति । आ । यम् । होता । यजति । विश्वऽवारम् ॥ásādi ǀ vṛtáḥ ǀ váhniḥ ǀ ā-jaganvā́n ǀ agníḥ ǀ brahmā́ ǀ nṛ-sádane ǀ vi-dhartā́ ǀ
dyáuḥ ǀ ca ǀ yám ǀ pṛthivī́ ǀ vavṛdhā́te íti ǀ ā́ ǀ yám ǀ hótā ǀ yájati ǀ viśvá-vāram ǁasādi ǀ vṛtaḥ ǀ vahniḥ ǀ ā-jaganvān ǀ agniḥ ǀ brahmā ǀ nṛ-sadane ǀ vi-dhartā ǀ
dyauḥ ǀ ca ǀ yam ǀ pṛthivī ǀ vavṛdhāte iti ǀ ā ǀ yam ǀ hotā ǀ yajati ǀ viśva-vāram ǁ7.7.5 Aṣṭaka 5.2.10.5Anuvāka 7.1.77
-
Ṛk 6
ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रंत॒ मंत्रं॒ ये वारं॒ नर्या॒ अत॑क्षन् ।
प्र ये विश॑स्ति॒रंत॒ श्रोष॑माणा॒ आ ये मे॑ अ॒स्य दीध॑यन्नृ॒तस्य॑ ॥एते द्युम्नेभिर् विश्वम् आतिरन्त मन्त्रं ये वारं नर्या अतक्षन् |
प्र ये विशस् तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न् ऋतस्य ||eté dyumnébhirvíśvamā́tiranta mántram yé vā́ram náryā átakṣan ǀ
prá yé víśastiránta śróṣamāṇā ā́ yé me asyá dī́dhayannṛtásya ǁete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan |
pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya ||ए॒ते । द्यु॒म्नेभिः॑ । विश्व॑म् । आ । अ॒ति॒र॒न्त॒ । मन्त्र॑म् । ये । वा॒ । अर॑म् । नर्याः॑ । अत॑क्षन् ।
प्र । ये । विशः॑ । ति॒रन्त॑ । श्रोष॑माणाः । आ । ये । मे॒ । अ॒स्य । दीध॑यन् । ऋ॒तस्य॑ ॥एते । द्युम्नेभिः । विश्वम् । आ । अतिरन्त । मन्त्रम् । ये । वा । अरम् । नर्याः । अतक्षन् ।
प्र । ये । विशः । तिरन्त । श्रोषमाणाः । आ । ये । मे । अस्य । दीधयन् । ऋतस्य ॥eté ǀ dyumnébhiḥ ǀ víśvam ǀ ā́ ǀ atiranta ǀ mántram ǀ yé ǀ vā ǀ áram ǀ náryāḥ ǀ átakṣan ǀ
prá ǀ yé ǀ víśaḥ ǀ tiránta ǀ śróṣamāṇāḥ ǀ ā́ ǀ yé ǀ me ǀ asyá ǀ dī́dhayan ǀ ṛtásya ǁete ǀ dyumnebhiḥ ǀ viśvam ǀ ā ǀ atiranta ǀ mantram ǀ ye ǀ vā ǀ aram ǀ naryāḥ ǀ atakṣan ǀ
pra ǀ ye ǀ viśaḥ ǀ tiranta ǀ śroṣamāṇāḥ ǀ ā ǀ ye ǀ me ǀ asya ǀ dīdhayan ǀ ṛtasya ǁ7.7.6 Aṣṭaka 5.2.10.6Anuvāka 7.1.78
-
Ṛk 7
नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां ।
इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् |
इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ||nū́ tvā́magna īmahe vásiṣṭhā īśānám sūno sahaso vásūnām ǀ
íṣam stotṛ́bhyo maghávadbhya ānaḍyūyám pāta svastíbhiḥ sádā naḥ ǁnū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām |
iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ ||नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।
इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् ।
इषम् । स्तोतृऽभ्यः । मघवत्ऽभ्यः । आनट् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥nú ǀ tvā́m ǀ agne ǀ īmahe ǀ vásiṣṭhāḥ ǀ īśānám ǀ sūno íti ǀ sahasaḥ ǀ vásūnām ǀ
íṣam ǀ stotṛ́-bhyaḥ ǀ maghávat-bhyaḥ ǀ ānaṭ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁnu ǀ tvām ǀ agne ǀ īmahe ǀ vasiṣṭhāḥ ǀ īśānam ǀ sūno iti ǀ sahasaḥ ǀ vasūnām ǀ
iṣam ǀ stotṛ-bhyaḥ ǀ maghavat-bhyaḥ ǀ ānaṭ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.7.7 Aṣṭaka 5.2.10.7Anuvāka 7.1.79
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.