Ṛk 7.7.1
Saṃhitā
प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः ।
भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वांत्मना॑ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ॥
प्र वो देवं चित् सहसानम् अग्निम् अश्वं न वाजिनं हिषे नमोभिः |
भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः ||
prá vo devám citsahasānámagnímáśvam ná vājínam hiṣe námobhiḥ ǀ
bhávā no dūtó adhvarásya vidvā́ntmánā devéṣu vivide mitádruḥ ǁ
pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ |
bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ ||
Padapāṭha
प्र । वः॒ । दे॒वम् । चि॒त् । स॒ह॒सा॒नम् । अ॒ग्निम् । अश्व॑म् । न । वा॒जिन॑म् । हि॒षे॒ । नमः॑ऽभिः ।
भव॑ । नः॒ । दू॒तः । अ॒ध्व॒रस्य॑ । वि॒द्वान् । त्मना॑ । दे॒वेषु॑ । वि॒वि॒दे॒ । मि॒तऽद्रुः॑ ॥
प्र । वः । देवम् । चित् । सहसानम् । अग्निम् । अश्वम् । न । वाजिनम् । हिषे । नमःऽभिः ।
भव । नः । दूतः । अध्वरस्य । विद्वान् । त्मना । देवेषु । विविदे । मितऽद्रुः ॥
prá ǀ vaḥ ǀ devám ǀ cit ǀ sahasānám ǀ agním ǀ áśvam ǀ ná ǀ vājínam ǀ hiṣe ǀ námaḥ-bhiḥ ǀ
bháva ǀ naḥ ǀ dūtáḥ ǀ adhvarásya ǀ vidvā́n ǀ tmánā ǀ devéṣu ǀ vivide ǀ mitá-druḥ ǁ
pra ǀ vaḥ ǀ devam ǀ cit ǀ sahasānam ǀ agnim ǀ aśvam ǀ na ǀ vājinam ǀ hiṣe ǀ namaḥ-bhiḥ ǀ
bhava ǀ naḥ ǀ dūtaḥ ǀ adhvarasya ǀ vidvān ǀ tmanā ǀ deveṣu ǀ vivide ǀ mita-druḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.007.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.10.01
- Maṇḍala · Anuvāka · Ṛk
- 07.01.073
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.