Ṛk 7.7.2
Saṃhitā
आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा मं॒द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः ।
आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जंभे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥
आ याह्य् अग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः |
आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम् उशधग् वनानि ||
ā́ yāhyagne pathyā́ ánu svā́ mandró devā́nām sakhyám juṣāṇáḥ ǀ
ā́ sā́nu śúṣmairnadáyanpṛthivyā́ jámbhebhirvíśvamuśádhagvánāni ǁ
ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ |
ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni ||
Padapāṭha
आ । या॒हि॒ । अ॒ग्ने॒ । प॒थ्याः॑ । अनु॑ । स्वाः । म॒न्द्रः । दे॒वाना॑म् । स॒ख्यम् । जु॒षा॒णः ।
आ । सानु॑ । शुष्मैः॑ । न॒दय॑न् । पृ॒थि॒व्याः । जम्भे॑भिः । विश्व॑म् । उ॒शध॑क् । वना॑नि ॥
आ । याहि । अग्ने । पथ्याः । अनु । स्वाः । मन्द्रः । देवानाम् । सख्यम् । जुषाणः ।
आ । सानु । शुष्मैः । नदयन् । पृथिव्याः । जम्भेभिः । विश्वम् । उशधक् । वनानि ॥
ā́ ǀ yāhi ǀ agne ǀ pathyā́ḥ ǀ ánu ǀ svā́ḥ ǀ mandráḥ ǀ devā́nām ǀ sakhyám ǀ juṣāṇáḥ ǀ
ā́ ǀ sā́nu ǀ śúṣmaiḥ ǀ nadáyan ǀ pṛthivyā́ḥ ǀ jámbhebhiḥ ǀ víśvam ǀ uśádhak ǀ vánāni ǁ
ā ǀ yāhi ǀ agne ǀ pathyāḥ ǀ anu ǀ svāḥ ǀ mandraḥ ǀ devānām ǀ sakhyam ǀ juṣāṇaḥ ǀ
ā ǀ sānu ǀ śuṣmaiḥ ǀ nadayan ǀ pṛthivyāḥ ǀ jambhebhiḥ ǀ viśvam ǀ uśadhak ǀ vanāni ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.007.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.10.02
- Maṇḍala · Anuvāka · Ṛk
- 07.01.074
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.