Ṛgveda · Maṇḍala 7

Sūkta 16

Agni · Vasiṣṭha Maitrāvaruṇi · 12 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Bṛhatī, Satobṛhatī
Metres by ṛk

1st set of styles bṛhatī (4, 9, 10); nicṛtpaṅkti (6, 8, 12); svarāḍanuṣṭup (1); bhurigbṛhatī (2); nicṛdbṛhatī (3); nicṛdanuṣṭup (5); anuṣṭup (7); bhuriganuṣṭup (11)

2nd set of styles bṛhatī (1, 3, 5, 7, 9, 11); satobṛhatī (2, 4, 6, 8, 10, 12)

  1. Ṛk 1

    ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे ।
    प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृतं॑ ॥

    एना वो अग्निं नमसोर्जो नपातम् आ हुवे |
    प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ||

    enā́ vo agním námasorjó nápātamā́ huve ǀ
    priyám cétiṣṭhamaratím svadhvarám víśvasya dūtámamṛ́tam ǁ

    enā vo agniṃ namasorjo napātam ā huve |
    priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam ||

    ए॒ना । वः॒ । अ॒ग्निम् । नम॑सा । ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ ।
    प्रि॒यम् । चेति॑ष्ठम् । अ॒र॒तिम् । सु॒ऽअ॒ध्व॒रम् । विश्व॑स्य । दू॒तम् । अ॒मृत॑म् ॥

    एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे ।
    प्रियम् । चेतिष्ठम् । अरतिम् । सुऽअध्वरम् । विश्वस्य । दूतम् । अमृतम् ॥

    enā́ ǀ vaḥ ǀ agním ǀ námasā ǀ ūrjáḥ ǀ nápātam ǀ ā́ ǀ huve ǀ
    priyám ǀ cétiṣṭham ǀ aratím ǀ su-adhvarám ǀ víśvasya ǀ dūtám ǀ amṛ́tam ǁ

    enā ǀ vaḥ ǀ agnim ǀ namasā ǀ ūrjaḥ ǀ napātam ǀ ā ǀ huve ǀ
    priyam ǀ cetiṣṭham ǀ aratim ǀ su-adhvaram ǀ viśvasya ǀ dūtam ǀ amṛtam ǁ

    7.16.1 Aṣṭaka 5.2.21.1Anuvāka 7.1.127

  2. Ṛk 2

    स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः ।
    सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वं राधो॒ जना॑नां ॥

    स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः |
    सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ||

    sá yojate aruṣā́ viśvábhojasā sá dudravatsvā́hutaḥ ǀ
    subráhmā yajñáḥ suśámī vásūnām devám rā́dho jánānām ǁ

    sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ |
    subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām ||

    सः । यो॒ज॒ते॒ । अ॒रु॒षा । वि॒श्वऽभो॑जसा । सः । दु॒द्र॒व॒त् । सुऽआ॑हुतः ।
    सु॒ऽब्रह्मा॑ । य॒ज्ञः । सु॒ऽशमी॑ । वसू॑नाम् । दे॒वम् । राधः॑ । जना॑नाम् ॥

    सः । योजते । अरुषा । विश्वऽभोजसा । सः । दुद्रवत् । सुऽआहुतः ।
    सुऽब्रह्मा । यज्ञः । सुऽशमी । वसूनाम् । देवम् । राधः । जनानाम् ॥

    sáḥ ǀ yojate ǀ aruṣā́ ǀ viśvá-bhojasā ǀ sáḥ ǀ dudravat ǀ sú-āhutaḥ ǀ
    su-bráhmā ǀ yajñáḥ ǀ su-śámī ǀ vásūnām ǀ devám ǀ rā́dhaḥ ǀ jánānām ǁ

    saḥ ǀ yojate ǀ aruṣā ǀ viśva-bhojasā ǀ saḥ ǀ dudravat ǀ su-āhutaḥ ǀ
    su-brahmā ǀ yajñaḥ ǀ su-śamī ǀ vasūnām ǀ devam ǀ rādhaḥ ǀ janānām ǁ

    7.16.2 Aṣṭaka 5.2.21.2Anuvāka 7.1.128

  3. Ṛk 3

    उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ळ्हुषः॑ ।
    उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृशः॒ सम॒ग्निमिं॑धते॒ नरः॑ ॥

    उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीऌहुषः |
    उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ||

    údasya śocírasthādājúhvānasya mīḷhúṣaḥ ǀ
    úddhūmā́so aruṣā́so divispṛ́śaḥ sámagnímindhate náraḥ ǁ

    ud asya śocir asthād ājuhvānasya mīḷhuṣaḥ |
    ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ ||

    उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । आ॒ऽजुह्वा॑नस्य । मी॒ळ्हुषः॑ ।
    उत् । धू॒मासः॑ । अ॒रु॒षासः॑ । दि॒वि॒ऽस्पृशः॑ । सम् । अ॒ग्निम् । इ॒न्ध॒ते॒ । नरः॑ ॥

    उत् । अस्य । शोचिः । अस्थात् । आऽजुह्वानस्य । मीळ्हुषः ।
    उत् । धूमासः । अरुषासः । दिविऽस्पृशः । सम् । अग्निम् । इन्धते । नरः ॥

    út ǀ asya ǀ śocíḥ ǀ asthāt ǀ ā-júhvānasya ǀ mīḷhúṣaḥ ǀ
    út ǀ dhūmā́saḥ ǀ aruṣā́saḥ ǀ divi-spṛ́śaḥ ǀ sám ǀ agním ǀ indhate ǀ náraḥ ǁ

    ut ǀ asya ǀ śociḥ ǀ asthāt ǀ ā-juhvānasya ǀ mīḷhuṣaḥ ǀ
    ut ǀ dhūmāsaḥ ǀ aruṣāsaḥ ǀ divi-spṛśaḥ ǀ sam ǀ agnim ǀ indhate ǀ naraḥ ǁ

    7.16.3 Aṣṭaka 5.2.21.3Anuvāka 7.1.129

  4. Ṛk 4

    तं त्वा॑ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये॑ वह ।
    विश्वा॑ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ॥

    तं त्वा दूतं कृण्महे यशस्तमं देवां आ वीतये वह |
    विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे ||

    tám tvā dūtám kṛṇmahe yaśástamam devā́m̐ ā́ vītáye vaha ǀ
    víśvā sūno sahaso martabhójanā rā́sva tádyáttvémahe ǁ

    taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṃ ā vītaye vaha |
    viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe ||

    तम् । त्वा॒ । दू॒तम् । कृ॒ण्म॒हे॒ । य॒शःऽत॑मम् । दे॒वान् । आ । वी॒तये॑ । व॒ह॒ ।
    विश्वा॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । म॒र्त॒ऽभोज॑ना । रास्व॑ । तत् । यत् । त्वा॒ । ईम॑हे ॥

    तम् । त्वा । दूतम् । कृण्महे । यशःऽतमम् । देवान् । आ । वीतये । वह ।
    विश्वा । सूनो इति । सहसः । मर्तऽभोजना । रास्व । तत् । यत् । त्वा । ईमहे ॥

    tám ǀ tvā ǀ dūtám ǀ kṛṇmahe ǀ yaśáḥ-tamam ǀ devā́n ǀ ā́ ǀ vītáye ǀ vaha ǀ
    víśvā ǀ sūno íti ǀ sahasaḥ ǀ marta-bhójanā ǀ rā́sva ǀ tát ǀ yát ǀ tvā ǀ ī́mahe ǁ

    tam ǀ tvā ǀ dūtam ǀ kṛṇmahe ǀ yaśaḥ-tamam ǀ devān ǀ ā ǀ vītaye ǀ vaha ǀ
    viśvā ǀ sūno iti ǀ sahasaḥ ǀ marta-bhojanā ǀ rāsva ǀ tat ǀ yat ǀ tvā ǀ īmahe ǁ

    7.16.4 Aṣṭaka 5.2.21.4Anuvāka 7.1.130

  5. Ṛk 5

    त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे ।
    त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्यं॑ ॥

    त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे |
    त्वम् पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ||

    tvámagne gṛhápatistvám hótā no adhvaré ǀ
    tvám pótā viśvavāra prácetā yákṣi véṣi ca vā́ryam ǁ

    tvam agne gṛhapatis tvaṃ hotā no adhvare |
    tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam ||

    त्वम् । अ॒ग्ने॒ । गृ॒हऽप॑तिः । त्वम् । होता॑ । नः॒ । अ॒ध्व॒रे ।
    त्वम् । पोता॑ । वि॒श्व॒ऽवा॒र॒ । प्रऽचे॑ताः । यक्षि॑ । वेषि॑ । च॒ । वार्य॑म् ॥

    त्वम् । अग्ने । गृहऽपतिः । त्वम् । होता । नः । अध्वरे ।
    त्वम् । पोता । विश्वऽवार । प्रऽचेताः । यक्षि । वेषि । च । वार्यम् ॥

    tvám ǀ agne ǀ gṛhá-patiḥ ǀ tvám ǀ hótā ǀ naḥ ǀ adhvaré ǀ
    tvám ǀ pótā ǀ viśva-vāra ǀ prá-cetāḥ ǀ yákṣi ǀ véṣi ǀ ca ǀ vā́ryam ǁ

    tvam ǀ agne ǀ gṛha-patiḥ ǀ tvam ǀ hotā ǀ naḥ ǀ adhvare ǀ
    tvam ǀ potā ǀ viśva-vāra ǀ pra-cetāḥ ǀ yakṣi ǀ veṣi ǀ ca ǀ vāryam ǁ

    7.16.5 Aṣṭaka 5.2.21.5Anuvāka 7.1.131

  6. Ṛk 6

    कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ ।
    आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥

    कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि |
    आ न ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश् च दक्षते ||

    kṛdhí rátnam yájamānāya sukrato tvám hí ratnadhā́ ási ǀ
    ā́ na ṛté śiśīhi víśvamṛtvíjam suśáṃso yáśca dákṣate ǁ

    kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi |
    ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate ||

    कृ॒धि । रत्न॑म् । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त्वम् । हि । र॒त्न॒ऽधाः । असि॑ ।
    आ । नः॒ । ऋ॒ते । शि॒शी॒हि॒ । विश्व॑म् । ऋ॒त्विज॑म् । सु॒ऽशंसः॑ । यः । च॒ । दक्ष॑ते ॥

    कृधि । रत्नम् । यजमानाय । सुक्रतो इति सुऽक्रतो । त्वम् । हि । रत्नऽधाः । असि ।
    आ । नः । ऋते । शिशीहि । विश्वम् । ऋत्विजम् । सुऽशंसः । यः । च । दक्षते ॥

    kṛdhí ǀ rátnam ǀ yájamānāya ǀ sukrato íti su-krato ǀ tvám ǀ hí ǀ ratna-dhā́ḥ ǀ ási ǀ
    ā́ ǀ naḥ ǀ ṛté ǀ śiśīhi ǀ víśvam ǀ ṛtvíjam ǀ su-śáṃsaḥ ǀ yáḥ ǀ ca ǀ dákṣate ǁ

    kṛdhi ǀ ratnam ǀ yajamānāya ǀ sukrato iti su-krato ǀ tvam ǀ hi ǀ ratna-dhāḥ ǀ asi ǀ
    ā ǀ naḥ ǀ ṛte ǀ śiśīhi ǀ viśvam ǀ ṛtvijam ǀ su-śaṃsaḥ ǀ yaḥ ǀ ca ǀ dakṣate ǁ

    7.16.6 Aṣṭaka 5.2.21.6Anuvāka 7.1.132

  7. Ṛk 7

    त्वे अ॑ग्ने स्वाहुत प्रि॒यासः॑ संतु सू॒रयः॑ ।
    यं॒तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वांदयं॑त॒ गोनां॑ ॥

    त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः |
    यन्तारो ये मघवानो जनानाम् ऊर्वान् दयन्त गोनाम् ||

    tvé agne svāhuta priyā́saḥ santu sūráyaḥ ǀ
    yantā́ro yé maghávāno jánānāmūrvā́ndáyanta gónām ǁ

    tve agne svāhuta priyāsaḥ santu sūrayaḥ |
    yantāro ye maghavāno janānām ūrvān dayanta gonām ||

    त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽआ॒हु॒त॒ । प्रि॒यासः॑ । स॒न्तु॒ । सू॒रयः॑ ।
    य॒न्तारः॑ । ये । म॒घऽवा॑नः । जना॑नाम् । ऊ॒र्वान् । दय॑न्त । गोना॑म् ॥

    त्वे इति । अग्ने । सुऽआहुत । प्रियासः । सन्तु । सूरयः ।
    यन्तारः । ये । मघऽवानः । जनानाम् । ऊर्वान् । दयन्त । गोनाम् ॥

    tvé íti ǀ agne ǀ su-āhuta ǀ priyā́saḥ ǀ santu ǀ sūráyaḥ ǀ
    yantā́raḥ ǀ yé ǀ maghá-vānaḥ ǀ jánānām ǀ ūrvā́n ǀ dáyanta ǀ gónām ǁ

    tve iti ǀ agne ǀ su-āhuta ǀ priyāsaḥ ǀ santu ǀ sūrayaḥ ǀ
    yantāraḥ ǀ ye ǀ magha-vānaḥ ǀ janānām ǀ ūrvān ǀ dayanta ǀ gonām ǁ

    7.16.7 Aṣṭaka 5.2.22.1Anuvāka 7.1.133

  8. Ṛk 8

    येषा॒मिळा॑ घृ॒तह॑स्ता दुरो॒ण आँ अपि॑ प्रा॒ता नि॒षीद॑ति ।
    तांस्त्रा॑यस्व सहस्य द्रु॒हो नि॒दो यच्छा॑ नः॒ शर्म॑ दीर्घ॒श्रुत् ॥

    येषाम् इऌआ घृतहस्ता दुरोण आं अपि प्राता निषीदति |
    तांस् त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ||

    yéṣāmíḷā ghṛtáhastā duroṇá ā́m̐ ápi prātā́ niṣī́dati ǀ
    tā́ṃstrāyasva sahasya druhó nidó yácchā naḥ śárma dīrghaśrút ǁ

    yeṣām iḷā ghṛtahastā duroṇa āṃ api prātā niṣīdati |
    tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut ||

    येषा॑म् । इळा॑ । घृ॒तऽह॑स्ता । दु॒रो॒णे । आ । अपि॑ । प्रा॒ता । नि॒ऽसीद॑ति ।
    तान् । त्रा॒य॒स्व॒ । स॒ह॒स्य॒ । द्रु॒हः । नि॒दः । यच्छ॑ । नः॒ । शर्म॑ । दी॒र्घ॒ऽश्रुत् ॥

    येषाम् । इळा । घृतऽहस्ता । दुरोणे । आ । अपि । प्राता । निऽसीदति ।
    तान् । त्रायस्व । सहस्य । द्रुहः । निदः । यच्छ । नः । शर्म । दीर्घऽश्रुत् ॥

    yéṣām ǀ íḷā ǀ ghṛtá-hastā ǀ duroṇé ǀ ā́ ǀ ápi ǀ prātā́ ǀ ni-sī́dati ǀ
    tā́n ǀ trāyasva ǀ sahasya ǀ druháḥ ǀ nidáḥ ǀ yáccha ǀ naḥ ǀ śárma ǀ dīrgha-śrút ǁ

    yeṣām ǀ iḷā ǀ ghṛta-hastā ǀ duroṇe ǀ ā ǀ api ǀ prātā ǀ ni-sīdati ǀ
    tān ǀ trāyasva ǀ sahasya ǀ druhaḥ ǀ nidaḥ ǀ yaccha ǀ naḥ ǀ śarma ǀ dīrgha-śrut ǁ

    7.16.8 Aṣṭaka 5.2.22.2Anuvāka 7.1.134

  9. Ṛk 9

    स मं॒द्रया॑ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।
    अग्ने॑ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च सूदय ॥

    स मन्द्रया च जिह्वया वह्निर् आसा विदुष्टरः |
    अग्ने रयिम् मघवद्भ्यो न आ वह हव्यदातिं च सूदय ||

    sá mandráyā ca jihváyā váhnirāsā́ vidúṣṭaraḥ ǀ
    ágne rayím maghávadbhyo na ā́ vaha havyádātim ca sūdaya ǁ

    sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ |
    agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya ||

    सः । म॒न्द्रया॑ । च॒ । जि॒ह्वया॑ । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः ।
    अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । नः॒ । आ । व॒ह॒ । ह॒व्यऽदा॑तिम् । च॒ । सू॒द॒य॒ ॥

    सः । मन्द्रया । च । जिह्वया । वह्निः । आसा । विदुःऽतरः ।
    अग्ने । रयिम् । मघवत्ऽभ्यः । नः । आ । वह । हव्यऽदातिम् । च । सूदय ॥

    sáḥ ǀ mandráyā ǀ ca ǀ jihváyā ǀ váhniḥ ǀ āsā́ ǀ vidúḥ-taraḥ ǀ
    ágne ǀ rayím ǀ maghávat-bhyaḥ ǀ naḥ ǀ ā́ ǀ vaha ǀ havyá-dātim ǀ ca ǀ sūdaya ǁ

    saḥ ǀ mandrayā ǀ ca ǀ jihvayā ǀ vahniḥ ǀ āsā ǀ viduḥ-taraḥ ǀ
    agne ǀ rayim ǀ maghavat-bhyaḥ ǀ naḥ ǀ ā ǀ vaha ǀ havya-dātim ǀ ca ǀ sūdaya ǁ

    7.16.9 Aṣṭaka 5.2.22.3Anuvāka 7.1.135

  10. Ṛk 10

    ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः ।
    ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥

    ये राधांसि ददत्य् अश्व्या मघा कामेन श्रवसो महः |
    तां अंहसः पिपृहि पर्तृभिष् ट्वं शतम् पूर्भिर् यविष्ठ्य ||

    yé rā́dhāṃsi dádatyáśvyā maghā́ kā́mena śrávaso maháḥ ǀ
    tā́m̐ áṃhasaḥ pipṛhi partṛ́bhiṣṭvám śatám pūrbhíryaviṣṭhya ǁ

    ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ |
    tāṃ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya ||

    ये । राधां॑सि । दद॑ति । अश्व्या॑ । म॒घा । कामे॑न । श्रव॑सः । म॒हः ।
    तान् । अंह॑सः । पि॒पृ॒हि॒ । प॒र्तृऽभिः॑ । त्वम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ्य॒ ॥

    ये । राधांसि । ददति । अश्व्या । मघा । कामेन । श्रवसः । महः ।
    ता��् । अंहसः । पिपृहि । पर्तृऽभिः । त्वम् । शतम् । पूःऽभिः । यविष्ठ्य ॥

    yé ǀ rā́dhāṃsi ǀ dádati ǀ áśvyā ǀ maghā́ ǀ kā́mena ǀ śrávasaḥ ǀ maháḥ ǀ
    tā́n ǀ áṃhasaḥ ǀ pipṛhi ǀ partṛ́-bhiḥ ǀ tvám ǀ śatám ǀ pūḥ-bhíḥ ǀ yaviṣṭhya ǁ

    ye ǀ rādhāṃsi ǀ dadati ǀ aśvyā ǀ maghā ǀ kāmena ǀ śravasaḥ ǀ mahaḥ ǀ
    tān ǀ aṃhasaḥ ǀ pipṛhi ǀ partṛ-bhiḥ ǀ tvam ǀ śatam ǀ pūḥ-bhiḥ ǀ yaviṣṭhya ǁ

    7.16.10 Aṣṭaka 5.2.22.4Anuvāka 7.1.136

  11. Ṛk 11

    दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिचं॑ ।
    उद्वा॑ सिं॒चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥

    देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् |
    उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ||

    devó vo draviṇodā́ḥ pūrṇā́m vivaṣṭyāsícam ǀ
    údvā siñcádhvamúpa vā pṛṇadhvamā́dídvo devá ohate ǁ

    devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam |
    ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate ||

    दे॒वः । वः॒ । द्र॒वि॒णः॒ऽदाः । पू॒र्णाम् । वि॒व॒ष्टि॒ । आ॒ऽसिच॑म् ।
    उत् । वा॒ । सि॒ञ्चध्व॑म् । उप॑ । वा॒ । पृ॒ण॒ध्व॒म् । आत् । इत् । वः॒ । दे॒वः । ओ॒ह॒ते॒ ॥

    देवः । वः । द्रविणःऽदाः । पूर्णाम् । विवष्टि । आऽसिचम् ।
    उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥

    deváḥ ǀ vaḥ ǀ draviṇaḥ-dā́ḥ ǀ pūrṇā́m ǀ vivaṣṭi ǀ ā-sícam ǀ
    út ǀ vā ǀ siñcádhvam ǀ úpa ǀ vā ǀ pṛṇadhvam ǀ ā́t ǀ ít ǀ vaḥ ǀ deváḥ ǀ ohate ǁ

    devaḥ ǀ vaḥ ǀ draviṇaḥ-dāḥ ǀ pūrṇām ǀ vivaṣṭi ǀ ā-sicam ǀ
    ut ǀ vā ǀ siñcadhvam ǀ upa ǀ vā ǀ pṛṇadhvam ǀ āt ǀ it ǀ vaḥ ǀ devaḥ ǀ ohate ǁ

    7.16.11 Aṣṭaka 5.2.22.5Anuvāka 7.1.137

  12. Ṛk 12

    तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत ।
    दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥

    तं होतारम् अध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत |
    दधाति रत्नं विधते सुवीर्यम् अग्निर् जनाय दाशुषे ||

    tám hótāramadhvarásya prácetasam váhnim devā́ akṛṇvata ǀ
    dádhāti rátnam vidhaté suvī́ryamagnírjánāya dāśúṣe ǁ

    taṃ hotāram adhvarasya pracetasaṃ vahniṃ devā akṛṇvata |
    dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe ||

    तम् । होता॑रम् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ।
    दधा॑ति । रत्न॑म् । वि॒ध॒ते । सु॒ऽवीर्य॑म् । अ॒ग्निः । जना॑य । दा॒शुषे॑ ॥

    तम् । होतारम् । अध्वरस्य । प्रऽचेतसम् । वह्निम् । देवाः । अकृण्वत ।
    दधाति । रत्नम् । विधते । सुऽवीर्यम् । अग्निः । जनाय । दाशुषे ॥

    tám ǀ hótāram ǀ adhvarásya ǀ prá-cetasam ǀ váhnim ǀ devā́ḥ ǀ akṛṇvata ǀ
    dádhāti ǀ rátnam ǀ vidhaté ǀ su-vī́ryam ǀ agníḥ ǀ jánāya ǀ dāśúṣe ǁ

    tam ǀ hotāram ǀ adhvarasya ǀ pra-cetasam ǀ vahnim ǀ devāḥ ǀ akṛṇvata ǀ
    dadhāti ǀ ratnam ǀ vidhate ǀ su-vīryam ǀ agniḥ ǀ janāya ǀ dāśuṣe ǁ

    7.16.12 Aṣṭaka 5.2.22.6Anuvāka 7.1.138

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.16 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

With this prostration I invoke for you Fire the son of Energy, the beloved, the traveler most awake to knowledge who carries out well the pilgrim-sacrifice, the immortal messenger of every man. (325)

Ṛk 2

He yokes the two shining steeds that bring all enjoyments, well-fed with the offerings swiftly may he run; to be worshipped with sacrifice he of the perfect Word, accomplisher of the riches, the divine achievement of men. (325)

Ṛk 3

Up stands the flame of light of this bounteous One when to him are cast the offerings, his ruddy smoke goes up and touches heaven; men kindle high the Fire. (325)

Ṛk 4

Thou art that most glorious messenger whom we create, bring to us the advent of the gods, O son of force, give us all mortal enjoyments, give us that which from thee we desire. (325)

Ṛk 5

Thou, O Fire, art the master of the house, thou art the priest of the call in our pilgrim-sacrifice, thou art the purifying priest, he in whom are all desirable things, the conscious thinker; sacrifice and reach the object of our desire. (326)

Ṛk 6

O strong in will, create the ecstasy for the doer of the sacrifice for thou art the founder of ecstasy: sharpen in the Truth for us every doer of the rite and whosoever is perfect in expression and skilful in thought. (326)

Ṛk 7

O Fire fed with the offerings, let them abide in thee, the beloved, the illumined wise and those lords of plenty among men who are they that travel to and allot to us the widenesses of the Rays. (326)

Ṛk 8

Those within whose gated house the goddess of Revelation with her hands of light sits filled with her fullnesses, them deliver from the doer of harm and the Censurer,14O forceful Fire; give to us the peace that hears the Truth from afar. (326)

Ṛk 9

Do thou then with thy rapturous tongue, for thou art the bearer of the oblation with thy mouth and great is thy knowledge, bring to our lords of the plenty the riches and hasten on its way our gift of the offering. (327)

Ṛk 10

They who give to us the achieving plenitudes of the power of the Horse because of our desire of the great inspired knowledge, them, O most young godhead, bring safe out of all evil by thy hundred fortresses of rescue. (327)

Ṛk 11

The divine giver of your Treasure desires from you the full pouring of the oblations; pour out and fill: then the godhead carries you on your way.15 (327)

Ṛk 12

The gods have made him the priest of the call of the pilgrim sacrifice, the conscious thinker, the carrier of flame; Fire founds the ecstasy and the heroic strength for the man who performs the sacrifice for the giver. (327)