Ṛk 7.16.6
Saṃhitā
कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ ।
आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥
कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि |
आ न ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश् च दक्षते ||
kṛdhí rátnam yájamānāya sukrato tvám hí ratnadhā́ ási ǀ
ā́ na ṛté śiśīhi víśvamṛtvíjam suśáṃso yáśca dákṣate ǁ
kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi |
ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate ||
Padapāṭha
कृ॒धि । रत्न॑म् । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त्वम् । हि । र॒त्न॒ऽधाः । असि॑ ।
आ । नः॒ । ऋ॒ते । शि॒शी॒हि॒ । विश्व॑म् । ऋ॒त्विज॑म् । सु॒ऽशंसः॑ । यः । च॒ । दक्ष॑ते ॥
कृधि । रत्नम् । यजमानाय । सुक्रतो इति सुऽक्रतो । त्वम् । हि । रत्नऽधाः । असि ।
आ । नः । ऋते । शिशीहि । विश्वम् । ऋत्विजम् । सुऽशंसः । यः । च । दक्षते ॥
kṛdhí ǀ rátnam ǀ yájamānāya ǀ sukrato íti su-krato ǀ tvám ǀ hí ǀ ratna-dhā́ḥ ǀ ási ǀ
ā́ ǀ naḥ ǀ ṛté ǀ śiśīhi ǀ víśvam ǀ ṛtvíjam ǀ su-śáṃsaḥ ǀ yáḥ ǀ ca ǀ dákṣate ǁ
kṛdhi ǀ ratnam ǀ yajamānāya ǀ sukrato iti su-krato ǀ tvam ǀ hi ǀ ratna-dhāḥ ǀ asi ǀ
ā ǀ naḥ ǀ ṛte ǀ śiśīhi ǀ viśvam ǀ ṛtvijam ǀ su-śaṃsaḥ ǀ yaḥ ǀ ca ǀ dakṣate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.016.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.21.06
- Maṇḍala · Anuvāka · Ṛk
- 07.01.132
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.