Ṛk 7.16.11
Saṃhitā
दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिचं॑ ।
उद्वा॑ सिं॒चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥
देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् |
उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ||
devó vo draviṇodā́ḥ pūrṇā́m vivaṣṭyāsícam ǀ
údvā siñcádhvamúpa vā pṛṇadhvamā́dídvo devá ohate ǁ
devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam |
ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate ||
Padapāṭha
दे॒वः । वः॒ । द्र॒वि॒णः॒ऽदाः । पू॒र्णाम् । वि॒व॒ष्टि॒ । आ॒ऽसिच॑म् ।
उत् । वा॒ । सि॒ञ्चध्व॑म् । उप॑ । वा॒ । पृ॒ण॒ध्व॒म् । आत् । इत् । वः॒ । दे॒वः । ओ॒ह॒ते॒ ॥
देवः । वः । द्रविणःऽदाः । पूर्णाम् । विवष्टि । आऽसिचम् ।
उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥
deváḥ ǀ vaḥ ǀ draviṇaḥ-dā́ḥ ǀ pūrṇā́m ǀ vivaṣṭi ǀ ā-sícam ǀ
út ǀ vā ǀ siñcádhvam ǀ úpa ǀ vā ǀ pṛṇadhvam ǀ ā́t ǀ ít ǀ vaḥ ǀ deváḥ ǀ ohate ǁ
devaḥ ǀ vaḥ ǀ draviṇaḥ-dāḥ ǀ pūrṇām ǀ vivaṣṭi ǀ ā-sicam ǀ
ut ǀ vā ǀ siñcadhvam ǀ upa ǀ vā ǀ pṛṇadhvam ǀ āt ǀ it ǀ vaḥ ǀ devaḥ ǀ ohate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.016.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.22.05
- Maṇḍala · Anuvāka · Ṛk
- 07.01.137
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.