Sūkta 27
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 5); triṣṭup (3, 4); nicṛttriṣṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
इंद्रं॒ नरो॑ ने॒मधि॑ता हवंते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः |
शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ||índram náro nemádhitā havante yátpā́ryā yunájate dhíyastā́ḥ ǀ
śū́ro nṛ́ṣātā śávasaścakāná ā́ gómati vrajé bhajā tvám naḥ ǁindraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ |
śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ ||इन्द्र॑म् । नरः॑ । ने॒मऽधि॑ता । ह॒व॒न्ते॒ । यत् । पार्याः॑ । यु॒नज॑ते । धियः॑ । ताः ।
शूरः॑ । नृऽसा॑ता । शव॑सः । च॒का॒नः । आ । गोऽम॑ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥इन्द्रम् । नरः । नेमऽधिता । हवन्ते । यत् । पार्याः । युनजते । धियः । ताः ।
शूरः । नृऽसाता । शवसः । चकानः । आ । गोऽमति । व्रजे । भज । त्वम् । नः ॥índram ǀ náraḥ ǀ nemá-dhitā ǀ havante ǀ yát ǀ pā́ryāḥ ǀ yunájate ǀ dhíyaḥ ǀ tā́ḥ ǀ
śū́raḥ ǀ nṛ́-sātā ǀ śávasaḥ ǀ cakānáḥ ǀ ā́ ǀ gó-mati ǀ vrajé ǀ bhaja ǀ tvám ǀ naḥ ǁindram ǀ naraḥ ǀ nema-dhitā ǀ havante ǀ yat ǀ pāryāḥ ǀ yunajate ǀ dhiyaḥ ǀ tāḥ ǀ
śūraḥ ǀ nṛ-sātā ǀ śavasaḥ ǀ cakānaḥ ǀ ā ǀ go-mati ǀ vraje ǀ bhaja ǀ tvam ǀ naḥ ǁ7.27.1 Aṣṭaka 5.3.11.1Anuvāka 7.2.89
-
Ṛk 2
य इं॑द्र॒ शुष्मो॑ मघवंते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ ।
त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राधः॑ ॥य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः |
त्वं हि दृऌहा मघवन् विचेता अपा वृधि परिवृतं न राधः ||yá indra śúṣmo maghavante ásti śíkṣā sákhibhyaḥ puruhūta nṛ́bhyaḥ ǀ
tvám hí dṛḷhā́ maghavanvícetā ápā vṛdhi párivṛtam ná rā́dhaḥ ǁya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ |
tvaṃ hi dṛḷhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ ||यः । इ॒न्द्र॒ । शुष्मः॑ । म॒घ॒ऽव॒न् । ते॒ । अस्ति॑ । शिक्ष॑ । सखि॑ऽभ्यः । पु॒रु॒ऽहू॒त॒ । नृऽभ्यः॑ ।
त्वम् । हि । दृ॒ळ्हा । म॒घ॒ऽव॒न् । विऽचे॑ताः । अप॑ । वृ॒धि॒ । परि॑ऽवृतम् । न । राधः॑ ॥यः । इन्द्र । शुष्मः । मघऽवन् । ते । अस्ति । शिक्ष । सखिऽभ्यः । पुरुऽहूत । नृऽभ्यः ।
त्वम् । हि । दृळ्हा । मघऽवन् । विऽचेताः । अप । वृधि । परिऽवृतम् । न । राधः ॥yáḥ ǀ indra ǀ śúṣmaḥ ǀ magha-van ǀ te ǀ ásti ǀ śíkṣa ǀ sákhi-bhyaḥ ǀ puru-hūta ǀ nṛ́-bhyaḥ ǀ
tvám ǀ hí ǀ dṛḷhā́ ǀ magha-van ǀ ví-cetāḥ ǀ ápa ǀ vṛdhi ǀ pári-vṛtam ǀ ná ǀ rā́dhaḥ ǁyaḥ ǀ indra ǀ śuṣmaḥ ǀ magha-van ǀ te ǀ asti ǀ śikṣa ǀ sakhi-bhyaḥ ǀ puru-hūta ǀ nṛ-bhyaḥ ǀ
tvam ǀ hi ǀ dṛḷhā ǀ magha-van ǀ vi-cetāḥ ǀ apa ǀ vṛdhi ǀ pari-vṛtam ǀ na ǀ rādhaḥ ǁ7.27.2 Aṣṭaka 5.3.11.2Anuvāka 7.2.90
-
Ṛk 3
इंद्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ ।
ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति |
ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ||índro rā́jā jágataścarṣaṇīnā́mádhi kṣámi víṣurūpam yádásti ǀ
táto dadāti dāśúṣe vásūni códadrā́dha úpastutaścidarvā́k ǁindro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti |
tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk ||इन्द्रः॑ । राजा॑ । जग॑तः । च॒र्ष॒णी॒नाम् । अधि॑ । क्षमि॑ । विषु॑ऽरूपम् । यत् । अस्ति॑ ।
ततः॑ । द॒दा॒ति॒ । दा॒शुषे॑ । वसू॑नि । चोद॑त् । राधः॑ । उप॑ऽस्तुतः । चि॒त् । अ॒र्वाक् ॥इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमि । विषुऽरूपम् । यत् । अस्ति ।
ततः । ददाति । दाशुषे । वसूनि । चोदत् । राधः । उपऽस्तुतः । चित् । अर्वाक् ॥índraḥ ǀ rā́jā ǀ jágataḥ ǀ carṣaṇīnā́m ǀ ádhi ǀ kṣámi ǀ víṣu-rūpam ǀ yát ǀ ásti ǀ
tátaḥ ǀ dadāti ǀ dāśúṣe ǀ vásūni ǀ códat ǀ rā́dhaḥ ǀ úpa-stutaḥ ǀ cit ǀ arvā́k ǁindraḥ ǀ rājā ǀ jagataḥ ǀ carṣaṇīnām ǀ adhi ǀ kṣami ǀ viṣu-rūpam ǀ yat ǀ asti ǀ
tataḥ ǀ dadāti ǀ dāśuṣe ǀ vasūni ǀ codat ǀ rādhaḥ ǀ upa-stutaḥ ǀ cit ǀ arvāk ǁ7.27.3 Aṣṭaka 5.3.11.3Anuvāka 7.2.91
-
Ṛk 4
नू चि॑न्न॒ इंद्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती ।
अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥नू चिन् न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती |
अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ||nū́ cinna índro maghávā sáhūtī dānó vā́jam ní yamate na ūtī́ ǀ
ánūnā yásya dákṣiṇā pīpā́ya vāmám nṛ́bhyo abhívītā sákhibhyaḥ ǁnū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī |
anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ ||नु । चि॒त् । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । सऽहू॑ती । दा॒नः । वाज॑म् । नि । य॒म॒ते॒ । नः॒ । ऊ॒ती ।
अनू॑ना । यस्य॑ । दक्षि॑णा । पी॒पाय॑ । वा॒मम् । नृऽभ्यः॑ । अ॒भिऽवी॑ता । सखि॑ऽभ्यः ॥नु । चित् । नः । इन्द्रः । मघऽवा । सऽहूती । दानः । वाजम् । नि । यमते । नः । ऊती ।
अनूना । यस्य । दक्षिणा । पीपाय । वामम् । नृऽभ्यः । अभिऽवीता । सखिऽभ्यः ॥nú ǀ cit ǀ naḥ ǀ índraḥ ǀ maghá-vā ǀ sá-hūtī ǀ dānáḥ ǀ vā́jam ǀ ní ǀ yamate ǀ naḥ ǀ ūtī́ ǀ
ánūnā ǀ yásya ǀ dákṣiṇā ǀ pīpā́ya ǀ vāmám ǀ nṛ́-bhyaḥ ǀ abhí-vītā ǀ sákhi-bhyaḥ ǁnu ǀ cit ǀ naḥ ǀ indraḥ ǀ magha-vā ǀ sa-hūtī ǀ dānaḥ ǀ vājam ǀ ni ǀ yamate ǀ naḥ ǀ ūtī ǀ
anūnā ǀ yasya ǀ dakṣiṇā ǀ pīpāya ǀ vāmam ǀ nṛ-bhyaḥ ǀ abhi-vītā ǀ sakhi-bhyaḥ ǁ7.27.4 Aṣṭaka 5.3.11.4Anuvāka 7.2.92
-
Ṛk 5
नू इं॑द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑ ।
गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यंतो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम मघाय |
गोमद् अश्वावद् रथवद् व्यन्तो यूयम् पात स्वस्तिभिः सदा नः ||nū́ indra rāyé várivaskṛdhī na ā́ te máno vavṛtyāma maghā́ya ǀ
gómadáśvāvadráthavadvyánto yūyám pāta svastíbhiḥ sádā naḥ ǁnū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya |
gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ ||नु । इ॒न्द्र॒ । रा॒ये । वरि॑वः । कृ॒धि॒ । नः॒ । आ । ते॒ । मनः॑ । व॒वृ॒त्या॒म॒ । म॒घाय॑ ।
गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । व्यन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । इन्द्र । राये । वरिवः । कृधि । नः । आ । ते । मनः । ववृत्याम । मघाय ।
गोऽमत् । अश्वऽवत् । रथऽवत् । व्यन्तः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥nú ǀ indra ǀ rāyé ǀ várivaḥ ǀ kṛdhi ǀ naḥ ǀ ā́ ǀ te ǀ mánaḥ ǀ vavṛtyāma ǀ maghā́ya ǀ
gó-mat ǀ áśva-vat ǀ rátha-vat ǀ vyántaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁnu ǀ indra ǀ rāye ǀ varivaḥ ǀ kṛdhi ǀ naḥ ǀ ā ǀ te ǀ manaḥ ǀ vavṛtyāma ǀ maghāya ǀ
go-mat ǀ aśva-vat ǀ ratha-vat ǀ vyantaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.27.5 Aṣṭaka 5.3.11.5Anuvāka 7.2.93
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.