Sūkta 21
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 6, 8, 9); nicṛttriṣṭup (2, 10); bhurikpaṅkti (3, 7); svarāṭpaṅkti (4, 5)
2nd set of styles triṣṭubh
-
Ṛk 1
असा॑वि दे॒वं गोऋ॑जीक॒मंधो॒ न्य॑स्मि॒न्निंद्रो॑ ज॒नुषे॑मुवोच ।
बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ नः॒ स्तोम॒मंध॑सो॒ मदे॑षु ॥असावि देवं गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच |
बोधामसि त्वा हर्यश्व यज्ञैर् बोधा न स्तोमम् अन्धसो मदेषु ||ásāvi devám góṛjīkamándho nyásminníndro janúṣemuvoca ǀ
bódhāmasi tvā haryaśva yajñáirbódhā naḥ stómamándhaso mádeṣu ǁasāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca |
bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu ||असा॑वि । दे॒वम् । गोऽऋ॑जीकम् । अन्धः॑ । नि । अ॒स्मि॒न् । इन्द्रः॑ । ज॒नुषा॑ । ई॒म् । उ॒वो॒च॒ ।
बोधा॑मसि । त्वा॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । बोध॑ । नः॒ । स्तोम॑म् । अन्ध॑सः । मदे॑षु ॥असावि । देवम् । गोऽऋजीकम् । अन्धः । नि । अस्मिन् । इन्द्रः । जनुषा । ईम् । उवोच ।
बोधामसि । त्वा । हरिऽअश्व । यज्ञैः । बोध । नः । स्तोमम् । अन्धसः । मदेषु ॥ásāvi ǀ devám ǀ gó-ṛjīkam ǀ ándhaḥ ǀ ní ǀ asmin ǀ índraḥ ǀ janúṣā ǀ īm ǀ uvoca ǀ
bódhāmasi ǀ tvā ǀ hari-aśva ǀ yajñáiḥ ǀ bódha ǀ naḥ ǀ stómam ǀ ándhasaḥ ǀ mádeṣu ǁasāvi ǀ devam ǀ go-ṛjīkam ǀ andhaḥ ǀ ni ǀ asmin ǀ indraḥ ǀ januṣā ǀ īm ǀ uvoca ǀ
bodhāmasi ǀ tvā ǀ hari-aśva ǀ yajñaiḥ ǀ bodha ǀ naḥ ǀ stomam ǀ andhasaḥ ǀ madeṣu ǁ7.21.1 Aṣṭaka 5.3.3.1Anuvāka 7.2.47
-
Ṛk 2
प्र यं॑ति य॒ज्ञं वि॒पयं॑ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः ।
न्यु॑ भ्रियंते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः |
न्य् उ भ्रियन्ते यशसो गृभाद् आ दूरौपब्दो वृषणो नृषाचः ||prá yanti yajñám vipáyanti barhíḥ somamā́do vidáthe dudhrávācaḥ ǀ
nyú bhriyante yaśáso gṛbhā́dā́ dūrá+upabdo vṛ́ṣaṇo nṛṣā́caḥ ǁpra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ |
ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ ||प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः ।
नि । ऊं॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥प्र । यन्ति । यज्ञम् । विपयन्ति । बर्हिः । सोमऽमादः । विदथे । दुध्रऽवाचः ।
नि । ऊं इति । भ्रियन्ते । यशसः । गृभात् । आ । दूरेऽउपब्दः । वृषणः । नृऽसाचः ॥prá ǀ yanti ǀ yajñám ǀ vipáyanti ǀ barhíḥ ǀ soma-mā́daḥ ǀ vidáthe ǀ dudhrá-vācaḥ ǀ
ní ǀ ūṃ íti ǀ bhriyante ǀ yaśásaḥ ǀ gṛbhā́t ǀ ā́ ǀ dūré-upabdaḥ ǀ vṛ́ṣaṇaḥ ǀ nṛ-sā́caḥ ǁpra ǀ yanti ǀ yajñam ǀ vipayanti ǀ barhiḥ ǀ soma-mādaḥ ǀ vidathe ǀ dudhra-vācaḥ ǀ
ni ǀ ūṃ iti ǀ bhriyante ǀ yaśasaḥ ǀ gṛbhāt ǀ ā ǀ dūre-upabdaḥ ǀ vṛṣaṇaḥ ǀ nṛ-sācaḥ ǁ7.21.2 Aṣṭaka 5.3.3.2Anuvāka 7.2.48
-
Ṛk 3
त्वमिं॑द्र॒ स्रवि॑त॒वा अ॒पस्कः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेजं॑ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः |
त्वद् वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ||tvámindra srávitavā́ apáskaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ ǀ
tvádvāvakre rathyo ná dhénā réjante víśvā kṛtrímāṇi bhīṣā́ ǁtvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā ||त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै । अ॒पः । क॒रिति॑ कः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।
त्वत् । वा॒व॒क्रे॒ । र॒थ्यः॑ । न । धेनाः॑ । रेज॑न्ते । विश्वा॑ । कृ॒त्रिमा॑णि । भी॒षा ॥त्वम् । इन्द्र । स्रवितवै । अपः । करिति कः । परिऽस्थिताः । अहिना । शूर । पूर्वीः ।
त्वत् । वावक्रे । रथ्यः । न । धेनाः । रेजन्ते । विश्वा । कृत्रिमाणि । भीषा ॥tvám ǀ indra ǀ srávitavái ǀ apáḥ ǀ karíti kaḥ ǀ pári-sthitāḥ ǀ áhinā ǀ śūra ǀ pūrvī́ḥ ǀ
tvát ǀ vāvakre ǀ rathyáḥ ǀ ná ǀ dhénāḥ ǀ réjante ǀ víśvā ǀ kṛtrímāṇi ǀ bhīṣā́ ǁtvam ǀ indra ǀ sravitavai ǀ apaḥ ǀ kariti kaḥ ǀ pari-sthitāḥ ǀ ahinā ǀ śūra ǀ pūrvīḥ ǀ
tvat ǀ vāvakre ǀ rathyaḥ ǀ na ǀ dhenāḥ ǀ rejante ǀ viśvā ǀ kṛtrimāṇi ǀ bhīṣā ǁ7.21.3 Aṣṭaka 5.3.3.3Anuvāka 7.2.49
-
Ṛk 4
भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् ।
इंद्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥भीमो विवेषायुधेभिर् एषाम् अपांसि विश्वा नर्याणि विद्वान् |
इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिना जघान ||bhīmó viveṣā́yudhebhireṣāmápāṃsi víśvā náryāṇi vidvā́n ǀ
índraḥ púro járhṛṣāṇo ví dūdhodví vájrahasto mahinā́ jaghāna ǁbhīmo viveṣāyudhebhir eṣām apāṃsi viśvā naryāṇi vidvān |
indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna ||भी॒मः । वि॒वे॒ष॒ । आयु॑धेभिः । ए॒षा॒म् । अपां॑सि । विश्वा॑ । नर्या॑णि । वि॒द्वान् ।
इन्द्रः॑ । पुरः॑ । जर्हृ॑षाणः । वि । दू॒धो॒त् । वि । वज्र॑ऽहस्तः । म॒हि॒ना । ज॒घा॒न॒ ॥भीमः । विवेष । आयुधेभिः । एषाम् । अपांसि । विश्वा । नर्याणि । विद्वान् ।
इन्द्रः । पुरः । जर्हृषाणः । वि । दूधोत् । वि । वज्रऽहस्तः । महिना । जघान ॥bhīmáḥ ǀ viveṣa ǀ ā́yudhebhiḥ ǀ eṣām ǀ ápāṃsi ǀ víśvā ǀ náryāṇi ǀ vidvā́n ǀ
índraḥ ǀ púraḥ ǀ járhṛṣāṇaḥ ǀ ví ǀ dūdhot ǀ ví ǀ vájra-hastaḥ ǀ mahinā́ ǀ jaghāna ǁbhīmaḥ ǀ viveṣa ǀ āyudhebhiḥ ǀ eṣām ǀ apāṃsi ǀ viśvā ǀ naryāṇi ǀ vidvān ǀ
indraḥ ǀ puraḥ ǀ jarhṛṣāṇaḥ ǀ vi ǀ dūdhot ǀ vi ǀ vajra-hastaḥ ǀ mahinā ǀ jaghāna ǁ7.21.4 Aṣṭaka 5.3.3.4Anuvāka 7.2.50
-
Ṛk 5
न या॒तव॑ इंद्र जूजुवुर्नो॒ न वंद॑ना शविष्ठ वे॒द्याभिः॑ ।
स श॑र्धद॒र्यो विषु॑णस्य जं॒तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुर्ऋ॒तं नः॑ ॥न यातव इन्द्र जूजुवुर् नो न वन्दना शविष्ठ वेद्याभिः |
स शर्धद् अर्यो विषुणस्य जन्तोर् मा शिश्नदेवा अपि गुर् ऋतं नः ||ná yātáva indra jūjuvurno ná vándanā śaviṣṭha vedyā́bhiḥ ǀ
sá śardhadaryó víṣuṇasya jantórmā́ śiśnádevā ápi gurṛtám naḥ ǁna yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ |
sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṃ naḥ ||न । या॒तवः॑ । इ॒न्द्र॒ । जू॒जु॒वुः॒ । नः॒ । न । वन्द॑ना । श॒वि॒ष्ठ॒ । वे॒द्याभिः॑ ।
सः । श॒र्ध॒त् । अ॒र्यः । विषु॑णस्य । ज॒न्तोः । मा । शि॒श्नऽदे॑वाः । अपि॑ । गुः॒ । ऋ॒तम् । नः॒ ॥न । यातवः । इन्द्र । जूजुवुः । नः । न । वन्दना । शविष्ठ । वेद्याभिः ।
सः । शर्धत् । अर्यः । विषुणस्य । जन्तोः । मा । शिश्नऽदेवाः । अपि । गुः । ऋतम् । नः ॥ná ǀ yātávaḥ ǀ indra ǀ jūjuvuḥ ǀ naḥ ǀ ná ǀ vándanā ǀ śaviṣṭha ǀ vedyā́bhiḥ ǀ
sáḥ ǀ śardhat ǀ aryáḥ ǀ víṣuṇasya ǀ jantóḥ ǀ mā́ ǀ śiśná-devāḥ ǀ ápi ǀ guḥ ǀ ṛtám ǀ naḥ ǁna ǀ yātavaḥ ǀ indra ǀ jūjuvuḥ ǀ naḥ ǀ na ǀ vandanā ǀ śaviṣṭha ǀ vedyābhiḥ ǀ
saḥ ǀ śardhat ǀ aryaḥ ǀ viṣuṇasya ǀ jantoḥ ǀ mā ǀ śiśna-devāḥ ǀ api ǀ guḥ ǀ ṛtam ǀ naḥ ǁ7.21.5 Aṣṭaka 5.3.3.5Anuvāka 7.2.51
-
Ṛk 6
अ॒भि क्रत्वें॑द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि ।
स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घंथ॒ न शत्रु॒रंतं॑ विविदद्यु॒धा ते॑ ॥अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानं रजांसि |
स्वेना हि वृत्रं शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ||abhí krátvendra bhūrádha jmánná te vivyaṅmahimā́nam rájāṃsi ǀ
svénā hí vṛtrám śávasā jaghántha ná śátrurántam vividadyudhā́ te ǁabhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi |
svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te ||अ॒भि । क्रत्वा॑ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान॑म् । रजां॑सि ।
स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त॑म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥अभि । क्रत्वा । इन्द्र । भूः । अध । ज्मन् । न । ते । विव्यक् । महिमानम् । रजांसि ।
स्वेन । हि । वृत्रम् । शवसा । जघन्थ । न । शत्रुः । अन्तम् । विविदत् । युधा । ते ॥abhí ǀ krátvā ǀ indra ǀ bhūḥ ǀ ádha ǀ jmán ǀ ná ǀ te ǀ vivyak ǀ mahimā́nam ǀ rájāṃsi ǀ
svéna ǀ hí ǀ vṛtrám ǀ śávasā ǀ jaghántha ǀ ná ǀ śátruḥ ǀ ántam ǀ vividat ǀ yudhā́ ǀ te ǁabhi ǀ kratvā ǀ indra ǀ bhūḥ ǀ adha ǀ jman ǀ na ǀ te ǀ vivyak ǀ mahimānam ǀ rajāṃsi ǀ
svena ǀ hi ǀ vṛtram ǀ śavasā ǀ jaghantha ǀ na ǀ śatruḥ ǀ antam ǀ vividat ǀ yudhā ǀ te ǁ7.21.6 Aṣṭaka 5.3.4.1Anuvāka 7.2.52
-
Ṛk 7
दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि ।
इंद्रो॑ म॒घानि॑ दयते वि॒षह्येंद्रं॒ वाज॑स्य जोहुवंत सा॒तौ ॥देवाश् चित् ते असुर्याय पूर्वे ऽनु क्षत्राय ममिरे सहांसि |
इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ||devā́ścitte asuryā́ya pū́rvé’nu kṣatrā́ya mamire sáhāṃsi ǀ
índro maghā́ni dayate viṣáhyéndram vā́jasya johuvanta sātáu ǁdevāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi |
indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau ||दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वे॑ । अनु॑ । क्ष॒त्राय॑ । म॒मि॒रे॒ । सहां॑सि ।
इन्द्रः॑ । म॒घानि॑ । द॒य॒ते॒ । वि॒ऽसह्य॑ । इन्द्र॑म् । वाज॑स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥देवाः । चित् । ते । असुर्याय । पूर्वे । अनु । क्षत्राय । ममिरे । सहांसि ।
इन्द्रः । मघानि । दयते । विऽसह्य । इन्द्रम् । वाजस्य । जोहुवन्त । सातौ ॥devā́ḥ ǀ cit ǀ te ǀ asuryā́ya ǀ pū́rve ǀ ánu ǀ kṣatrā́ya ǀ mamire ǀ sáhāṃsi ǀ
índraḥ ǀ maghā́ni ǀ dayate ǀ vi-sáhya ǀ índram ǀ vā́jasya ǀ johuvanta ǀ sātáu ǁdevāḥ ǀ cit ǀ te ǀ asuryāya ǀ pūrve ǀ anu ǀ kṣatrāya ǀ mamire ǀ sahāṃsi ǀ
indraḥ ǀ maghāni ǀ dayate ǀ vi-sahya ǀ indram ǀ vājasya ǀ johuvanta ǀ sātau ǁ7.21.7 Aṣṭaka 5.3.4.2Anuvāka 7.2.53
-
Ṛk 8
की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिंद्र॒ सौभ॑गस्य॒ भूरेः॑ ।
अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥कीरिश् चिद् धि त्वाम् अवसे जुहावेशानम् इन्द्र सौभगस्य भूरेः |
अवो बभूथ शतमूते अस्मे अभिक्षत्तुस् त्वावतो वरूता ||kīríściddhí tvā́mávase juhā́véśānamindra sáubhagasya bhū́reḥ ǀ
ávo babhūtha śatamūte asmé abhikṣattústvā́vato varūtā́ ǁkīriś cid dhi tvām avase juhāveśānam indra saubhagasya bhūreḥ |
avo babhūtha śatamūte asme abhikṣattus tvāvato varūtā ||की॒रिः । चि॒त् । हि । त्वाम् । अव॑से । जु॒हाव॑ । ईशा॑नम् । इ॒न्द्र॒ । सौभ॑गस्य । भूरेः॑ ।
अवः॑ । ब॒भू॒थ॒ । श॒त॒म्ऽऊ॒ते॒ । अ॒स्मे इति॑ । अ॒भि॒ऽक्ष॒त्तुः । त्वाऽव॑तः । व॒रू॒ता ॥कीरिः । चित् । हि । त्वाम् । अवसे । जुहाव । ईशानम् । इन्द्र । सौभगस्य । भूरेः ।
अवः । बभूथ । शतम्ऽऊते । अस्मे इति । अभिऽक्षत्तुः । त्वाऽवतः । वरूता ॥kīríḥ ǀ cit ǀ hí ǀ tvā́m ǀ ávase ǀ juhā́va ǀ ī́śānam ǀ indra ǀ sáubhagasya ǀ bhū́reḥ ǀ
ávaḥ ǀ babhūtha ǀ śatam-ūte ǀ asmé íti ǀ abhi-kṣattúḥ ǀ tvā́-vataḥ ǀ varūtā́ ǁkīriḥ ǀ cit ǀ hi ǀ tvām ǀ avase ǀ juhāva ǀ īśānam ǀ indra ǀ saubhagasya ǀ bhūreḥ ǀ
avaḥ ǀ babhūtha ǀ śatam-ūte ǀ asme iti ǀ abhi-kṣattuḥ ǀ tvā-vataḥ ǀ varūtā ǁ7.21.8 Aṣṭaka 5.3.4.3Anuvāka 7.2.54
-
Ṛk 9
सखा॑यस्त इंद्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र ।
व॒न्वंतु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥सखायस् त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र |
वन्वन्तु स्मा ते ऽवसा समीके ऽभीतिम् अर्यो वनुषां शवांसि ||sákhāyasta indra viśváha syāma namovṛdhā́so mahinā́ tarutra ǀ
vanvántu smā té’vasā samīké’bhī́timaryó vanúṣām śávāṃsi ǁsakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra |
vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi ||सखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ । न॒मः॒ऽवृ॒धासः॑ । म॒हि॒ना । त॒रु॒त्र॒ ।
व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒म्ऽई॒के । अ॒भिऽइ॑तिम् । अ॒र्यः । व॒नुषा॑म् । शवां॑सि ॥सखायः । ते । इन्द्र । विश्वह । स्याम । नमःऽवृधासः । महिना । तरुत्र ।
वन्वन्तु । स्म । ते । अवसा । सम्ऽईके । अभिऽइतिम् । अर्यः । वनुषाम् । शवांसि ॥sákhāyaḥ ǀ te ǀ indra ǀ viśváha ǀ syāma ǀ namaḥ-vṛdhā́saḥ ǀ mahinā́ ǀ tarutra ǀ
vanvántu ǀ sma ǀ te ǀ ávasā ǀ sam-īké ǀ abhí-itim ǀ aryáḥ ǀ vanúṣām ǀ śávāṃsi ǁsakhāyaḥ ǀ te ǀ indra ǀ viśvaha ǀ syāma ǀ namaḥ-vṛdhāsaḥ ǀ mahinā ǀ tarutra ǀ
vanvantu ǀ sma ǀ te ǀ avasā ǀ sam-īke ǀ abhi-itim ǀ aryaḥ ǀ vanuṣām ǀ śavāṃsi ǁ7.21.9 Aṣṭaka 5.3.4.4Anuvāka 7.2.55
-
Ṛk 10
स न॑ इंद्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नंति॑ ।
वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति |
वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ||sá na indra tváyatāyā iṣé dhāstmánā ca yé maghávāno junánti ǀ
vásvī ṣú te jaritré astu śaktíryūyám pāta svastíbhiḥ sádā naḥ ǁsa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti |
vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ ||सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।
वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥सः । नः । इन्द्र । त्वऽयतायै । इषे । धाः । त्मना । च । ये । मघऽवानः । जुनन्ति ।
वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥sáḥ ǀ naḥ ǀ indra ǀ tvá-yatāyai ǀ iṣé ǀ dhāḥ ǀ tmánā ǀ ca ǀ yé ǀ maghá-vānaḥ ǀ junánti ǀ
vásvī ǀ sú ǀ te ǀ jaritré ǀ astu ǀ śaktíḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁsaḥ ǀ naḥ ǀ indra ǀ tva-yatāyai ǀ iṣe ǀ dhāḥ ǀ tmanā ǀ ca ǀ ye ǀ magha-vānaḥ ǀ junanti ǀ
vasvī ǀ su ǀ te ǀ jaritre ǀ astu ǀ śaktiḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.21.10 Aṣṭaka 5.3.4.5Anuvāka 7.2.56
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.