Ṛk 7.21.1
Saṃhitā
असा॑वि दे॒वं गोऋ॑जीक॒मंधो॒ न्य॑स्मि॒न्निंद्रो॑ ज॒नुषे॑मुवोच ।
बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ नः॒ स्तोम॒मंध॑सो॒ मदे॑षु ॥
असावि देवं गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच |
बोधामसि त्वा हर्यश्व यज्ञैर् बोधा न स्तोमम् अन्धसो मदेषु ||
ásāvi devám góṛjīkamándho nyásminníndro janúṣemuvoca ǀ
bódhāmasi tvā haryaśva yajñáirbódhā naḥ stómamándhaso mádeṣu ǁ
asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca |
bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu ||
Padapāṭha
असा॑वि । दे॒वम् । गोऽऋ॑जीकम् । अन्धः॑ । नि । अ॒स्मि॒न् । इन्द्रः॑ । ज॒नुषा॑ । ई॒म् । उ॒वो॒च॒ ।
बोधा॑मसि । त्वा॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । बोध॑ । नः॒ । स्तोम॑म् । अन्ध॑सः । मदे॑षु ॥
असावि । देवम् । गोऽऋजीकम् । अन्धः । नि । अस्मिन् । इन्द्रः । जनुषा । ईम् । उवोच ।
बोधामसि । त्वा । हरिऽअश्व । यज्ञैः । बोध । नः । स्तोमम् । अन्धसः । मदेषु ॥
ásāvi ǀ devám ǀ gó-ṛjīkam ǀ ándhaḥ ǀ ní ǀ asmin ǀ índraḥ ǀ janúṣā ǀ īm ǀ uvoca ǀ
bódhāmasi ǀ tvā ǀ hari-aśva ǀ yajñáiḥ ǀ bódha ǀ naḥ ǀ stómam ǀ ándhasaḥ ǀ mádeṣu ǁ
asāvi ǀ devam ǀ go-ṛjīkam ǀ andhaḥ ǀ ni ǀ asmin ǀ indraḥ ǀ januṣā ǀ īm ǀ uvoca ǀ
bodhāmasi ǀ tvā ǀ hari-aśva ǀ yajñaiḥ ǀ bodha ǀ naḥ ǀ stomam ǀ andhasaḥ ǀ madeṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.021.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.03.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.047
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.