Ṛk 7.21.3
Saṃhitā
त्वमिं॑द्र॒ स्रवि॑त॒वा अ॒पस्कः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेजं॑ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥
त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः |
त्वद् वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ||
tvámindra srávitavā́ apáskaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ ǀ
tvádvāvakre rathyo ná dhénā réjante víśvā kṛtrímāṇi bhīṣā́ ǁ
tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā ||
Padapāṭha
त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै । अ॒पः । क॒रिति॑ कः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।
त्वत् । वा॒व॒क्रे॒ । र॒थ्यः॑ । न । धेनाः॑ । रेज॑न्ते । विश्वा॑ । कृ॒त्रिमा॑णि । भी॒षा ॥
त्वम् । इन्द्र । स्रवितवै । अपः । करिति कः । परिऽस्थिताः । अहिना । शूर । पूर्वीः ।
त्वत् । वावक्रे । रथ्यः । न । धेनाः । रेजन्ते । विश्वा । कृत्रिमाणि । भीषा ॥
tvám ǀ indra ǀ srávitavái ǀ apáḥ ǀ karíti kaḥ ǀ pári-sthitāḥ ǀ áhinā ǀ śūra ǀ pūrvī́ḥ ǀ
tvát ǀ vāvakre ǀ rathyáḥ ǀ ná ǀ dhénāḥ ǀ réjante ǀ víśvā ǀ kṛtrímāṇi ǀ bhīṣā́ ǁ
tvam ǀ indra ǀ sravitavai ǀ apaḥ ǀ kariti kaḥ ǀ pari-sthitāḥ ǀ ahinā ǀ śūra ǀ pūrvīḥ ǀ
tvat ǀ vāvakre ǀ rathyaḥ ǀ na ǀ dhenāḥ ǀ rejante ǀ viśvā ǀ kṛtrimāṇi ǀ bhīṣā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.021.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.03.03
- Maṇḍala · Anuvāka · Ṛk
- 07.02.049
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.