Ṛk 7.21.6
Saṃhitā
अ॒भि क्रत्वें॑द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि ।
स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घंथ॒ न शत्रु॒रंतं॑ विविदद्यु॒धा ते॑ ॥
अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानं रजांसि |
स्वेना हि वृत्रं शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ||
abhí krátvendra bhūrádha jmánná te vivyaṅmahimā́nam rájāṃsi ǀ
svénā hí vṛtrám śávasā jaghántha ná śátrurántam vividadyudhā́ te ǁ
abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi |
svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te ||
Padapāṭha
अ॒भि । क्रत्वा॑ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान॑म् । रजां॑सि ।
स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त॑म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥
अभि । क्रत्वा । इन्द्र । भूः । अध । ज्मन् । न । ते । विव्यक् । महिमानम् । रजांसि ।
स्वेन । हि । वृत्रम् । शवसा । जघन्थ । न । शत्रुः । अन्तम् । विविदत् । युधा । ते ॥
abhí ǀ krátvā ǀ indra ǀ bhūḥ ǀ ádha ǀ jmán ǀ ná ǀ te ǀ vivyak ǀ mahimā́nam ǀ rájāṃsi ǀ
svéna ǀ hí ǀ vṛtrám ǀ śávasā ǀ jaghántha ǀ ná ǀ śátruḥ ǀ ántam ǀ vividat ǀ yudhā́ ǀ te ǁ
abhi ǀ kratvā ǀ indra ǀ bhūḥ ǀ adha ǀ jman ǀ na ǀ te ǀ vivyak ǀ mahimānam ǀ rajāṃsi ǀ
svena ǀ hi ǀ vṛtram ǀ śavasā ǀ jaghantha ǀ na ǀ śatruḥ ǀ antam ǀ vividat ǀ yudhā ǀ te ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.021.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.04.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.052
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.