Ṛgveda · Maṇḍala 7 · Sūkta 21

Ṛk 7.21.10

Indra · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

स न॑ इंद्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नंति॑ ।
वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति |
वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ||

sá na indra tváyatāyā iṣé dhāstmánā ca yé maghávāno junánti ǀ
vásvī ṣú te jaritré astu śaktíryūyám pāta svastíbhiḥ sádā naḥ ǁ

sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti |
vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।
वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सः । नः । इन्द्र । त्वऽयतायै । इषे । धाः । त्मना । च । ये । मघऽवानः । जुनन्ति ।
वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

sáḥ ǀ naḥ ǀ indra ǀ tvá-yatāyai ǀ iṣé ǀ dhāḥ ǀ tmánā ǀ ca ǀ yé ǀ maghá-vānaḥ ǀ junánti ǀ
vásvī ǀ sú ǀ te ǀ jaritré ǀ astu ǀ śaktíḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

saḥ ǀ naḥ ǀ indra ǀ tva-yatāyai ǀ iṣe ǀ dhāḥ ǀ tmanā ǀ ca ǀ ye ǀ magha-vānaḥ ǀ junanti ǀ
vasvī ǀ su ǀ te ǀ jaritre ǀ astu ǀ śaktiḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.021.10
Aṣṭaka · Adhyāya · Varga · Ṛk
5.3.04.05
Maṇḍala · Anuvāka · Ṛk
07.02.056
Devatā देवता
Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.21.10

Interpretations

Sāyaṇa

पिबासोममिन्द्रमन्दतुत्वेति नवर्चं पंचमं सूक्तं । अनुक्रम्यते च-पिबनव वैराजमृतेंत्यामिति । वसिष्ठऋषिः आदितोष्टौविराजः नवमी- त्रिष्टुबिन्द्रोदेवता दशरात्रे चतुर्थेहनि निष्केवल्यशस्त्रे पिबासोममिन्द्रेतिषट् स्तोत्रियानुरूपौ सूत्रितं च-वैराजंचेत्पृष्ठं पिबासोममिन्द्रमन्द- तुत्वेति षट्स्तोत्रियानुरूपाविति । महाव्रतेपि निष्केवल्येआद्याः षळृचः सूत्रितं च-पिबासोममिन्द्रमन्दतुत्वेति षळिति । आद्या निष्के- वल्यशस्त्रयाज्या सूत्रितं च-पिबासोममिन्द्रमन्दतुत्वेति याज्येति । चतुर्थेहनि माध्यंदिने सवने होत्रकशस्त्रेषु सप्तविराजः त्रींस्तृचान्- कृत्वाएकैकस्तृचः शंसनीयः तत्र नतेगिरइत्याद्याश्चतस्रऋचः सूत्रितं च-नतेगिरोअपिमृष्येतुरस्य प्रवोमहेमहिवृधेभरध्वमिति ।