Sūkta 48
- Devatā देवता
- 1-3: Ṛbhus; 4: Ṛbhus Or Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (1); nicṛttriṣṭup (2); triṣṭup (3); virāṭtrisṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ ।
आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयंतु ॥ऋभुक्षणो वाजा मादयध्वम् अस्मे नरो मघवानः सुतस्य |
आ वो ऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ||ṛ́bhukṣaṇo vājā mādáyadhvamasmé naro maghavānaḥ sutásya ǀ
ā́ vo’rvā́caḥ krátavo ná yātā́m víbhvo rátham náryam vartayantu ǁṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya |
ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu ||ऋभु॑क्षणः । वा॒जाः॒ । मा॒दय॑ध्वम् । अ॒स्मे इति॑ । न॒रः॒ । म॒घ॒ऽवा॒नः॒ । सु॒तस्य॑ ।
आ । वः॒ । अ॒र्वाचः॑ । क्रत॑वः । न । या॒ताम् । विऽभ्वः॑ । रथ॑म् । नर्य॑म् । व॒र्त॒य॒न्तु॒ ॥ऋभुक्षणः । वाजाः । मादयध्वम् । अस्मे इति । नरः । मघऽवानः । सुतस्य ।
आ । वः । अर्वाचः । क्रतवः । न । याताम् । विऽभ्वः । रथम् । नर्यम् । वर्तयन्तु ॥ṛ́bhukṣaṇaḥ ǀ vājāḥ ǀ mādáyadhvam ǀ asmé íti ǀ naraḥ ǀ magha-vānaḥ ǀ sutásya ǀ
ā́ ǀ vaḥ ǀ arvā́caḥ ǀ krátavaḥ ǀ ná ǀ yātā́m ǀ ví-bhvaḥ ǀ rátham ǀ náryam ǀ vartayantu ǁṛbhukṣaṇaḥ ǀ vājāḥ ǀ mādayadhvam ǀ asme iti ǀ naraḥ ǀ magha-vānaḥ ǀ sutasya ǀ
ā ǀ vaḥ ǀ arvācaḥ ǀ kratavaḥ ǀ na ǀ yātām ǀ vi-bhvaḥ ǀ ratham ǀ naryam ǀ vartayantu ǁ7.48.1 Aṣṭaka 5.4.15.1Anuvāka 7.3.115
-
Ṛk 2
ऋ॒भुर्ऋ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो॑ वि॒भुभिः॒ शव॑सा॒ शवां॑सि ।
वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विंद्रे॑ण यु॒जा त॑रुषेम वृ॒त्रं ॥ऋभुर् ऋभुभिर् अभि वः स्याम विभ्वो विभुभिः शवसा शवांसि |
वाजो अस्मां अवतु वाजसाताव् इन्द्रेण युजा तरुषेम वृत्रम् ||ṛbhúrṛbhúbhirabhí vaḥ syāma víbhvo vibhúbhiḥ śávasā śávāṃsi ǀ
vā́jo asmā́m̐ avatu vā́jasātāvíndreṇa yujā́ taruṣema vṛtrám ǁṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi |
vājo asmāṃ avatu vājasātāv indreṇa yujā taruṣema vṛtram ||ऋ॒भुः । ऋ॒भुऽभिः॑ । अ॒भि । वः॒ । स्या॒म॒ । विऽभ्वः॑ । वि॒भुऽभिः॑ । शव॑सा । शवां॑सि ।
वाजः॑ । अ॒स्मान् । अ॒व॒तु॒ । वाज॑ऽसातौ । इन्द्रे॑ण । यु॒जा । त॒रु॒षे॒म॒ । वृ॒त्रम् ॥ऋभुः । ऋभुऽभिः । अभि । वः । स्याम । विऽभ्वः । विभुऽभिः । शवसा । शवांसि ।
वाजः । अस्मान् । अवतु । वाजऽसातौ । इन्द्रेण । युजा । तरुषेम । वृत्रम् ॥ṛbhúḥ ǀ ṛbhú-bhiḥ ǀ abhí ǀ vaḥ ǀ syāma ǀ ví-bhvaḥ ǀ vibhú-bhiḥ ǀ śávasā ǀ śávāṃsi ǀ
vā́jaḥ ǀ asmā́n ǀ avatu ǀ vā́ja-sātau ǀ índreṇa ǀ yujā́ ǀ taruṣema ǀ vṛtrám ǁṛbhuḥ ǀ ṛbhu-bhiḥ ǀ abhi ǀ vaḥ ǀ syāma ǀ vi-bhvaḥ ǀ vibhu-bhiḥ ǀ śavasā ǀ śavāṃsi ǀ
vājaḥ ǀ asmān ǀ avatu ǀ vāja-sātau ǀ indreṇa ǀ yujā ǀ taruṣema ǀ vṛtram ǁ7.48.2 Aṣṭaka 5.4.15.2Anuvāka 7.3.116
-
Ṛk 3
ते चि॒द्धि पू॒र्वीर॒भि संति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् ।
इंद्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णं ॥ते चिद् धि पूर्वीर् अभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् |
इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या कृणवन् वि नृम्णम् ||té ciddhí pūrvī́rabhí sánti śāsā́ víśvām̐ aryá uparátāti vanvan ǀ
índro víbhvām̐ ṛbhukṣā́ vā́jo aryáḥ śátrormithatyā́ kṛṇavanví nṛmṇám ǁte cid dhi pūrvīr abhi santi śāsā viśvāṃ arya uparatāti vanvan |
indro vibhvāṃ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam ||ते । चि॒त् । हि । पू॒र्वीः । अ॒भि । सन्ति॑ । शा॒सा । विश्वा॑न् । अ॒र्यः । उ॒प॒रऽता॑ति । व॒न्व॒न् ।
इन्द्रः॑ । विऽभ्वा॑ । ऋ॒भु॒क्षाः । वाजः॑ । अ॒र्यः । शत्रोः॑ । मि॒थ॒त्या । कृ॒ण॒व॒न् । वि । नृ॒म्णम् ॥ते । चित् । हि । पूर्वीः । अभि । सन्ति । शासा । विश्वान् । अर्यः । उपरऽताति । वन्वन् ।
इन्द्रः । विऽभ्वा । ऋभुक्षाः । वाजः । अर्यः । शत्रोः । मिथत्या । कृणवन् । वि । नृम्णम् ॥té ǀ cit ǀ hí ǀ pūrvī́ḥ ǀ abhí ǀ sánti ǀ śāsā́ ǀ víśvān ǀ aryáḥ ǀ upará-tāti ǀ vanvan ǀ
índraḥ ǀ ví-bhvā ǀ ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ aryáḥ ǀ śátroḥ ǀ mithatyā́ ǀ kṛṇavan ǀ ví ǀ nṛmṇám ǁte ǀ cit ǀ hi ǀ pūrvīḥ ǀ abhi ǀ santi ǀ śāsā ǀ viśvān ǀ aryaḥ ǀ upara-tāti ǀ vanvan ǀ
indraḥ ǀ vi-bhvā ǀ ṛbhukṣāḥ ǀ vājaḥ ǀ aryaḥ ǀ śatroḥ ǀ mithatyā ǀ kṛṇavan ǀ vi ǀ nṛmṇam ǁ7.48.3 Aṣṭaka 5.4.15.3Anuvāka 7.3.117
-
Ṛk 4
नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषाः॑ ।
सम॒स्मे इषं॒ वस॑वो ��दीरन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥नू देवासो वरिवः कर्तना नो भूत नो विश्वे ऽवसे सजोषाः |
सम् अस्मे इषं वसवो ददीरन् यूयम् पात स्वस्तिभिः सदा नः ||nū́ devāso várivaḥ kartanā no bhūtá no víśvé’vase sajóṣāḥ ǀ
sámasmé íṣam vásavo dadīranyūyám pāta svastíbhiḥ sádā naḥ ǁnū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ |
sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ ||नु । दे॒वा॒सः॒ । वरि॑वः । क॒र्त॒न॒ । नः॒ । भू॒त । नः॒ । विश्वे॑ । अव॑से । स॒ऽजोषाः॑ ।
सम् । अ॒स्मे इति॑ । इष॑म् । वस॑वः । द॒दी॒र॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । देवासः । वरिवः । कर्तन । नः । भूत । नः । विश्वे । अवसे । सऽजोषाः ।
सम् । अस्मे इति । इषम् । वसवः । ददीरन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥nú ǀ devāsaḥ ǀ várivaḥ ǀ kartana ǀ naḥ ǀ bhūtá ǀ naḥ ǀ víśve ǀ ávase ǀ sa-jóṣāḥ ǀ
sám ǀ asmé íti ǀ íṣam ǀ vásavaḥ ǀ dadīran ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁnu ǀ devāsaḥ ǀ varivaḥ ǀ kartana ǀ naḥ ǀ bhūta ǀ naḥ ǀ viśve ǀ avase ǀ sa-joṣāḥ ǀ
sam ǀ asme iti ǀ iṣam ǀ vasavaḥ ǀ dadīran ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.48.4 Aṣṭaka 5.4.15.4Anuvāka 7.3.118
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.