Ṛk 7.48.3
Saṃhitā
ते चि॒द्धि पू॒र्वीर॒भि संति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् ।
इंद्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णं ॥
ते चिद् धि पूर्वीर् अभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् |
इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या कृणवन् वि नृम्णम् ||
té ciddhí pūrvī́rabhí sánti śāsā́ víśvām̐ aryá uparátāti vanvan ǀ
índro víbhvām̐ ṛbhukṣā́ vā́jo aryáḥ śátrormithatyā́ kṛṇavanví nṛmṇám ǁ
te cid dhi pūrvīr abhi santi śāsā viśvāṃ arya uparatāti vanvan |
indro vibhvāṃ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam ||
Padapāṭha
ते । चि॒त् । हि । पू॒र्वीः । अ॒भि । सन्ति॑ । शा॒सा । विश्वा॑न् । अ॒र्यः । उ॒प॒रऽता॑ति । व॒न्व॒न् ।
इन्द्रः॑ । विऽभ्वा॑ । ऋ॒भु॒क्षाः । वाजः॑ । अ॒र्यः । शत्रोः॑ । मि॒थ॒त्या । कृ॒ण॒व॒न् । वि । नृ॒म्णम् ॥
ते । चित् । हि । पूर्वीः । अभि । सन्ति । शासा । विश्वान् । अर्यः । उपरऽताति । वन्वन् ।
इन्द्रः । विऽभ्वा । ऋभुक्षाः । वाजः । अर्यः । शत्रोः । मिथत्या । कृणवन् । वि । नृम्णम् ॥
té ǀ cit ǀ hí ǀ pūrvī́ḥ ǀ abhí ǀ sánti ǀ śāsā́ ǀ víśvān ǀ aryáḥ ǀ upará-tāti ǀ vanvan ǀ
índraḥ ǀ ví-bhvā ǀ ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ aryáḥ ǀ śátroḥ ǀ mithatyā́ ǀ kṛṇavan ǀ ví ǀ nṛmṇám ǁ
te ǀ cit ǀ hi ǀ pūrvīḥ ǀ abhi ǀ santi ǀ śāsā ǀ viśvān ǀ aryaḥ ǀ upara-tāti ǀ vanvan ǀ
indraḥ ǀ vi-bhvā ǀ ṛbhukṣāḥ ǀ vājaḥ ǀ aryaḥ ǀ śatroḥ ǀ mithatyā ǀ kṛṇavan ǀ vi ǀ nṛmṇam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.048.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.15.03
- Maṇḍala · Anuvāka · Ṛk
- 07.03.117
- Devatā देवता
- 1-3: Ṛbhus; 4: Ṛbhus Or Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.