Sūkta 23
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (1, 6); virāṭtrisṭup (2, 3); svarāṭpaṅkti (4); nicṛttriṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येंद्रं॑ सम॒र्ये म॑हया वसिष्ठ ।
आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ |
आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ||údu bráhmāṇyairata śravasyéndram samaryé mahayā vasiṣṭha ǀ
ā́ yó víśvāni śávasā tatā́nopaśrotā́ ma ī́vato vácāṃsi ǁud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha |
ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi ||उत् । ऊं॒ इति॑ । ब्रह्मा॑णि । ऐ॒र॒त॒ । श्र॒व॒स्या । इन्द्र॑म् । स॒ऽम॒र्ये । म॒ह॒य॒ । व॒सि॒ष्ठ॒ ।
आ । यः । विश्वा॑नि । शव॑सा । त॒तान॑ । उ॒प॒ऽश्रो॒ता । मे॒ । ईव॑तः । वचां॑सि ॥उत् । ऊं इति । ब्रह्माणि । ऐरत । श्रवस्या । इन्द्रम् । सऽमर्ये । महय । वसिष्ठ ।
आ । यः । विश्वानि । शवसा । ततान । उपऽश्रोता । मे । ईवतः । वचांसि ॥út ǀ ūṃ íti ǀ bráhmāṇi ǀ airata ǀ śravasyā́ ǀ índram ǀ sa-maryé ǀ mahaya ǀ vasiṣṭha ǀ
ā́ ǀ yáḥ ǀ víśvāni ǀ śávasā ǀ tatā́na ǀ upa-śrotā́ ǀ me ǀ ī́vataḥ ǀ vácāṃsi ǁut ǀ ūṃ iti ǀ brahmāṇi ǀ airata ǀ śravasyā ǀ indram ǀ sa-marye ǀ mahaya ǀ vasiṣṭha ǀ
ā ǀ yaḥ ǀ viśvāni ǀ śavasā ǀ tatāna ǀ upa-śrotā ǀ me ǀ īvataḥ ǀ vacāṃsi ǁ7.23.1 Aṣṭaka 5.3.7.1Anuvāka 7.2.66
-
Ṛk 2
अया॑मि॒ घोष॑ इंद्र दे॒वजा॑मिरिर॒ज्यंत॒ यच्छु॒रुधो॒ विवा॑चि ।
न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि |
नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य् अस्मान् ||áyāmi ghóṣa indra devájāmirirajyánta yácchurúdho vívāci ǀ
nahí svámā́yuścikité jáneṣu tā́nī́dáṃhāṃsyáti parṣyasmā́n ǁayāmi ghoṣa indra devajāmir irajyanta yac churudho vivāci |
nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān ||अया॑मि । घोषः॑ । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः॑ । विऽवा॑चि ।
न॒हि । स्वम् । आयुः॑ । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहां॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥अयामि । घोषः । इन्द्र । देवऽजामिः । इरज्यन्त । यत् । शुरुधः । विऽवाचि ।
नहि । स्वम् । आयुः । चिकिते । जनेषु । तानि । इत् । अंहांसि । अति । पर्षि । अस्मान् ॥áyāmi ǀ ghóṣaḥ ǀ indra ǀ devá-jāmiḥ ǀ irajyánta ǀ yát ǀ śurúdhaḥ ǀ ví-vāci ǀ
nahí ǀ svám ǀ ā́yuḥ ǀ cikité ǀ jáneṣu ǀ tā́ni ǀ ít ǀ áṃhāṃsi ǀ áti ǀ parṣi ǀ asmā́n ǁayāmi ǀ ghoṣaḥ ǀ indra ǀ deva-jāmiḥ ǀ irajyanta ǀ yat ǀ śurudhaḥ ǀ vi-vāci ǀ
nahi ǀ svam ǀ āyuḥ ǀ cikite ǀ janeṣu ǀ tāni ǀ it ǀ aṃhāṃsi ǀ ati ǀ parṣi ǀ asmān ǁ7.23.2 Aṣṭaka 5.3.7.2Anuvāka 7.2.67
-
Ṛk 3
यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेंद्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः |
वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ||yujé rátham gavéṣaṇam háribhyāmúpa bráhmāṇi jujuṣāṇámasthuḥ ǀ
ví bādhiṣṭa syá ródasī mahitvéndro vṛtrā́ṇyapratī́ jaghanvā́n ǁyuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ |
vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān ||यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरि॑ऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थुः॒ ।
वि । बा॒धि॒ष्ट॒ । स्यः । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥युजे । रथम् । गोऽएषणम् । हरिऽभ्याम् । उप । ब्रह्माणि । जुजुषाणम् । अस्थुः ।
वि । बाधिष्ट । स्यः । रोदसी इति । महिऽत्वा । इन्द्रः । वृत्राणि । अप्रति । जघन्वान् ॥yujé ǀ rátham ǀ go-éṣaṇam ǀ hári-bhyām ǀ úpa ǀ bráhmāṇi ǀ jujuṣāṇám ǀ asthuḥ ǀ
ví ǀ bādhiṣṭa ǀ syáḥ ǀ ródasī íti ǀ mahi-tvā́ ǀ índraḥ ǀ vṛtrā́ṇi ǀ apratí ǀ jaghanvā́n ǁyuje ǀ ratham ǀ go-eṣaṇam ǀ hari-bhyām ǀ upa ǀ brahmāṇi ǀ jujuṣāṇam ǀ asthuḥ ǀ
vi ǀ bādhiṣṭa ǀ syaḥ ǀ rodasī iti ǀ mahi-tvā ǀ indraḥ ǀ vṛtrāṇi ǀ aprati ǀ jaghanvān ǁ7.23.3 Aṣṭaka 5.3.7.3Anuvāka 7.2.68
-
Ṛk 4
आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इंद्र ।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त इन्द्र |
याहि वायुर् न नियुतो नो अच्छा त्वं हि धीभिर् दयसे वि वाजान् ||ā́paścitpipyuḥ staryo ná gā́vo nákṣannṛtám jaritā́rasta indra ǀ
yāhí vāyúrná niyúto no ácchā tvám hí dhībhírdáyase ví vā́jān ǁāpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra |
yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān ||आपः॑ । चि॒त् । पि॒प्युः॒ । स्त॒र्यः॑ । न । गावः॑ । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तारः॑ । ते॒ । इ॒न्द्र॒ ।
या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ । त्वम् । हि । धी॒भिः । दय॑से । वि । वाजा॑न् ॥आपः । चित् । पिप्युः । स्तर्यः । न । गावः । नक्षन् । ऋतम् । जरितारः । ते । इन्द्र ।
याहि । वायुः । न । निऽयुतः । नः । अच्छ । त्वम् । हि । धीभिः । दयसे । वि । वाजान् ॥ā́paḥ ǀ cit ǀ pipyuḥ ǀ staryáḥ ǀ ná ǀ gā́vaḥ ǀ nákṣan ǀ ṛtám ǀ jaritā́raḥ ǀ te ǀ indra ǀ
yāhí ǀ vāyúḥ ǀ ná ǀ ni-yútaḥ ǀ naḥ ǀ áccha ǀ tvám ǀ hí ǀ dhībhíḥ ǀ dáyase ǀ ví ǀ vā́jān ǁāpaḥ ǀ cit ǀ pipyuḥ ǀ staryaḥ ǀ na ǀ gāvaḥ ǀ nakṣan ǀ ṛtam ǀ jaritāraḥ ǀ te ǀ indra ǀ
yāhi ǀ vāyuḥ ǀ na ǀ ni-yutaḥ ǀ naḥ ǀ accha ǀ tvam ǀ hi ǀ dhībhiḥ ǀ dayase ǀ vi ǀ vājān ǁ7.23.4 Aṣṭaka 5.3.7.4Anuvāka 7.2.69
-
Ṛk 5
ते त्वा॒ मदा॑ इंद्र मादयंतु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे ।
एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिंछू॑र॒ सव॑ने मादयस्व ॥ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे |
एको देवत्रा दयसे हि मर्तान् अस्मिञ् छूर सवने मादयस्व ||té tvā mádā indra mādayantu śuṣmíṇam tuvirā́dhasam jaritré ǀ
éko devatrā́ dáyase hí mártānasmíñchūra sávane mādayasva ǁte tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre |
eko devatrā dayase hi martān asmiñ chūra savane mādayasva ||ते । त्वा॒ । मदाः॑ । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे ।
एकः॑ । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥ते । त्वा । मदाः । इन्द्र । मादयन्तु । शुष्मिणम् । तुविऽराधसम् । जरित्रे ।
एकः । देवऽत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥té ǀ tvā ǀ mádāḥ ǀ indra ǀ mādayantu ǀ śuṣmíṇam ǀ tuvi-rā́dhasam ǀ jaritré ǀ
ékaḥ ǀ deva-trā́ ǀ dáyase ǀ hí ǀ mártān ǀ asmín ǀ śūra ǀ sávane ǀ mādayasva ǁte ǀ tvā ǀ madāḥ ǀ indra ǀ mādayantu ǀ śuṣmiṇam ǀ tuvi-rādhasam ǀ jaritre ǀ
ekaḥ ǀ deva-trā ǀ dayase ǀ hi ǀ martān ǀ asmin ǀ śūra ǀ savane ǀ mādayasva ǁ7.23.5 Aṣṭaka 5.3.7.5Anuvāka 7.2.70
-
Ṛk 6
ए॒वेदिंद्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चंत्य॒र्कैः ।
स नः॑ स्तु॒तो वी॒रव॑त्पातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः |
स न स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः सदा नः ||evédíndram vṛ́ṣaṇam vájrabāhum vásiṣṭhāso abhyárcantyarkáiḥ ǀ
sá naḥ stutó vīrávatpātu gómadyūyám pāta svastíbhiḥ sádā naḥ ǁeved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ |
sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ ||ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । पा॒तु॒ । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः ।
सः । नः । स्तुतः । वीरऽवत् । पातु । गोऽमत् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥evá ǀ ít ǀ índram ǀ vṛ́ṣaṇam ǀ vájra-bāhum ǀ vásiṣṭhāsaḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ
sáḥ ǀ naḥ ǀ stutáḥ ǀ vīrá-vat ǀ pātu ǀ gó-mat ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁeva ǀ it ǀ indram ǀ vṛṣaṇam ǀ vajra-bāhum ǀ vasiṣṭhāsaḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ
saḥ ǀ naḥ ǀ stutaḥ ǀ vīra-vat ǀ pātu ǀ go-mat ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.23.6 Aṣṭaka 5.3.7.6Anuvāka 7.2.71
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.