Ṛgveda · Maṇḍala 7 · Sūkta 23

Ṛk 7.23.6

Indra · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

ए॒वेदिंद्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चंत्य॒र्कैः ।
स नः॑ स्तु॒तो वी॒रव॑त्पातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः |
स न स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः सदा नः ||

evédíndram vṛ́ṣaṇam vájrabāhum vásiṣṭhāso abhyárcantyarkáiḥ ǀ
sá naḥ stutó vīrávatpātu gómadyūyám pāta svastíbhiḥ sádā naḥ ǁ

eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ |
sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । पा॒तु॒ । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

एव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः ।
सः । नः । स्तुतः । वीरऽवत् । पातु । गोऽमत् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

evá ǀ ít ǀ índram ǀ vṛ́ṣaṇam ǀ vájra-bāhum ǀ vásiṣṭhāsaḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ
sáḥ ǀ naḥ ǀ stutáḥ ǀ vīrá-vat ǀ pātu ǀ gó-mat ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

eva ǀ it ǀ indram ǀ vṛṣaṇam ǀ vajra-bāhum ǀ vasiṣṭhāsaḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ
saḥ ǀ naḥ ǀ stutaḥ ǀ vīra-vat ǀ pātu ǀ go-mat ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.023.06
Aṣṭaka · Adhyāya · Varga · Ṛk
5.3.07.06
Maṇḍala · Anuvāka · Ṛk
07.02.071
Devatā देवता
Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.23.6

Interpretations

Sāyaṇa

योनिष्टइन्द्रसदनेअकारीति षळृचं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रम्यते च योनिरिति । महाव्रते निष्केवल्येएतत्सूक्तं सूत्रितं च-योनिष्टइन्द्रसदनेअकारीत्येतस्यचतस्रः शस्त्वोत्तमामुपसंतत्योपोत्तमया परिदधातीति ।