Ṛk 7.23.3
Saṃhitā
यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेंद्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥
युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः |
वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ||
yujé rátham gavéṣaṇam háribhyāmúpa bráhmāṇi jujuṣāṇámasthuḥ ǀ
ví bādhiṣṭa syá ródasī mahitvéndro vṛtrā́ṇyapratī́ jaghanvā́n ǁ
yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ |
vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān ||
Padapāṭha
यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरि॑ऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थुः॒ ।
वि । बा॒धि॒ष्ट॒ । स्यः । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥
युजे । रथम् । गोऽएषणम् । हरिऽभ्याम् । उप । ब्रह्माणि । जुजुषाणम् । अस्थुः ।
वि । बाधिष्ट । स्यः । रोदसी इति । महिऽत्वा । इन्द्रः । वृत्राणि । अप्रति । जघन्वान् ॥
yujé ǀ rátham ǀ go-éṣaṇam ǀ hári-bhyām ǀ úpa ǀ bráhmāṇi ǀ jujuṣāṇám ǀ asthuḥ ǀ
ví ǀ bādhiṣṭa ǀ syáḥ ǀ ródasī íti ǀ mahi-tvā́ ǀ índraḥ ǀ vṛtrā́ṇi ǀ apratí ǀ jaghanvā́n ǁ
yuje ǀ ratham ǀ go-eṣaṇam ǀ hari-bhyām ǀ upa ǀ brahmāṇi ǀ jujuṣāṇam ǀ asthuḥ ǀ
vi ǀ bādhiṣṭa ǀ syaḥ ǀ rodasī iti ǀ mahi-tvā ǀ indraḥ ǀ vṛtrāṇi ǀ aprati ǀ jaghanvān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.023.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.07.03
- Maṇḍala · Anuvāka · Ṛk
- 07.02.068
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.