Sūkta 22
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Virāj, Triṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (2, 7); virāḍanuṣṭup (6, 8); bhuriguṣṇik (1); bhuriganuṣṭup (3); ārcīpaṅkti (4); anuṣṭup (5); virāṭtrisṭup (9)
2nd set of styles virāj (1-8); triṣṭubh (9)
-
Ṛk 1
पिबा॒ सोम॑मिंद्र॒ मंद॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ।
सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः |
सोतुर् बाहुभ्यां सुयतो नार्वा ||píbā sómamindra mándatu tvā yám te suṣā́va haryaśvā́driḥ ǀ
sotúrbāhúbhyām súyato nā́rvā ǁpibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ |
sotur bāhubhyāṃ suyato nārvā ||पिब॑ । सोम॑म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒साव॑ । ह॒रि॒ऽअ॒श्व॒ । अद्रिः॑ ।
सो॒तुः । बा॒हुऽभ्या॑म् । सुऽय॑तः । न । अर्वा॑ ॥पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुसाव । हरिऽअश्व । अद्रिः ।
सोतुः । बाहुऽभ्याम् । सुऽयतः । न । अर्वा ॥píba ǀ sómam ǀ indra ǀ mándatu ǀ tvā ǀ yám ǀ te ǀ susā́va ǀ hari-aśva ǀ ádriḥ ǀ
sotúḥ ǀ bāhú-bhyām ǀ sú-yataḥ ǀ ná ǀ árvā ǁpiba ǀ somam ǀ indra ǀ mandatu ǀ tvā ǀ yam ǀ te ǀ susāva ǀ hari-aśva ǀ adriḥ ǀ
sotuḥ ǀ bāhu-bhyām ǀ su-yataḥ ǀ na ǀ arvā ǁ7.22.1 Aṣṭaka 5.3.5.1Anuvāka 7.2.57
-
Ṛk 2
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ ।
स त्वामिं॑द्र प्रभूवसो ममत्तु ॥यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि |
स त्वाम् इन्द्र प्रभूवसो ममत्तु ||yáste mádo yújyaścā́rurásti yéna vṛtrā́ṇi haryaśva háṃsi ǀ
sá tvā́mindra prabhūvaso mamattu ǁyas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi |
sa tvām indra prabhūvaso mamattu ||यः । ते॒ । मदः॑ । युज्यः॑ । चारुः॑ । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ।
सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ।
सः । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥yáḥ ǀ te ǀ mádaḥ ǀ yújyaḥ ǀ cā́ruḥ ǀ ásti ǀ yéna ǀ vṛtrā́ṇi ǀ hari-aśva ǀ háṃsi ǀ
sáḥ ǀ tvā́m ǀ indra ǀ prabhuvaso íti prabhu-vaso ǀ mamattu ǁyaḥ ǀ te ǀ madaḥ ǀ yujyaḥ ǀ cāruḥ ǀ asti ǀ yena ǀ vṛtrāṇi ǀ hari-aśva ǀ haṃsi ǀ
saḥ ǀ tvām ǀ indra ǀ prabhuvaso iti prabhu-vaso ǀ mamattu ǁ7.22.2 Aṣṭaka 5.3.5.2Anuvāka 7.2.58
-
Ṛk 3
बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिं ।
इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् |
इमा ब्रह्म सधमादे जुषस्व ||bódhā sú me maghavanvā́camémā́m yā́m te vásiṣṭho árcati práśastim ǀ
imā́ bráhma sadhamā́de juṣasva ǁbodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim |
imā brahma sadhamāde juṣasva ||बोध॑ । सु । मे॒ । म॒घ॒ऽव॒न् । वाच॑म् । आ । इ॒माम् । याम् । ते॒ । वसि॑ष्ठः । अर्च॑ति । प्रऽश॑स्तिम् ।
इ॒मा । ब्रह्म॑ । स॒ध॒ऽमादे॑ । जु॒ष॒स्व॒ ॥बोध । सु । मे । मघऽवन् । वाचम् । आ । इमाम् । याम् । ते । वसिष्ठः । अर्चति । प्रऽशस्तिम् ।
इमा । ब्रह्म । सधऽमादे । जुषस्व ॥bódha ǀ sú ǀ me ǀ magha-van ǀ vā́cam ǀ ā́ ǀ imā́m ǀ yā́m ǀ te ǀ vásiṣṭhaḥ ǀ árcati ǀ prá-śastim ǀ
imā́ ǀ bráhma ǀ sadha-mā́de ǀ juṣasva ǁbodha ǀ su ǀ me ǀ magha-van ǀ vācam ǀ ā ǀ imām ǀ yām ǀ te ǀ vasiṣṭhaḥ ǀ arcati ǀ pra-śastim ǀ
imā ǀ brahma ǀ sadha-māde ǀ juṣasva ǁ7.22.3 Aṣṭaka 5.3.5.3Anuvāka 7.2.59
-
Ṛk 4
श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षां ।
कृ॒ष्वा दुवां॒स्यंत॑मा॒ सचे॒मा ॥श्रुधी हवं विपिपानस्याद्रेर् बोधा विप्रस्यार्चतो मनीषाम् |
कृष्वा दुवांस्य् अन्तमा सचेमा ||śrudhī́ hávam vipipānásyā́drerbódhā víprasyā́rcato manīṣā́m ǀ
kṛṣvā́ dúvāṃsyántamā sácemā́ ǁśrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām |
kṛṣvā duvāṃsy antamā sacemā ||श्रु॒धि । हव॑म् । वि॒ऽपि॒पा॒नस्य॑ । अद्रेः॑ । बोध॑ । विप्र॑स्य । अर्च॑तः । म॒नी॒षाम् ।
कृ॒ष्व । दुवां॑सि । अन्त॑मा । सचा॑ । इ॒मा ॥श्रुधि । हवम् । विऽपिपानस्य । अद्रेः । बोध । विप्रस्य । अर्चतः । मनीषाम् ।
कृष्व । दुवांसि । अन्तमा । सचा । इमा ॥śrudhí ǀ hávam ǀ vi-pipānásya ǀ ádreḥ ǀ bódha ǀ víprasya ǀ árcataḥ ǀ manīṣā́m ǀ
kṛṣvá ǀ dúvāṃsi ǀ ántamā ǀ sácā ǀ imā́ ǁśrudhi ǀ havam ǀ vi-pipānasya ǀ adreḥ ǀ bodha ǀ viprasya ǀ arcataḥ ǀ manīṣām ǀ
kṛṣva ǀ duvāṃsi ǀ antamā ǀ sacā ǀ imā ǁ7.22.4 Aṣṭaka 5.3.5.4Anuvāka 7.2.60
-
Ṛk 5
न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् ।
सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिम् असुर्यस्य विद्वान् |
सदा ते नाम स्वयशो विवक्मि ||ná te gíro ápi mṛṣye turásya ná suṣṭutímasuryásya vidvā́n ǀ
sádā te nā́ma svayaśo vivakmi ǁna te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān |
sadā te nāma svayaśo vivakmi ||न । ते॒ । गिरः॑ । अपि॑ । मृ॒ष्ये॒ । तु॒रस्य॑ । न । सु॒ऽस्तु॒तिम् । अ॒सु॒र्य॑स्य । वि॒द्वान् ।
सदा॑ । ते॒ । नाम॑ । स्व॒ऽय॒शः॒ । वि॒व॒क्मि॒ ॥न । ते । गिरः । अपि । मृष्ये । तुरस्य । न । सुऽस्तुतिम् । असुर्यस्य । विद्वान् ।
सदा । ते । नाम । स्वऽयशः । विवक्मि ॥ná ǀ te ǀ gíraḥ ǀ ápi ǀ mṛṣye ǀ turásya ǀ ná ǀ su-stutím ǀ asuryásya ǀ vidvā́n ǀ
sádā ǀ te ǀ nā́ma ǀ sva-yaśaḥ ǀ vivakmi ǁna ǀ te ǀ giraḥ ǀ api ǀ mṛṣye ǀ turasya ǀ na ǀ su-stutim ǀ asuryasya ǀ vidvān ǀ
sadā ǀ te ǀ nāma ǀ sva-yaśaḥ ǀ vivakmi ǁ7.22.5 Aṣṭaka 5.3.5.5Anuvāka 7.2.61
-
Ṛk 6
भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् ।
मारे अ॒स्मन्म॑घवं॒ज्���ोक्कः॑ ॥भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वाम् इत् |
मारे अस्मन् मघवञ् ज्योक् कः ||bhū́ri hí te sávanā mā́nuṣeṣu bhū́ri manīṣī́ havate tvā́mít ǀ
mā́ré asmánmaghavañjyókkaḥ ǁbhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it |
māre asman maghavañ jyok kaḥ ||भूरि॑ । हि । ते॒ । सव॑ना । मानु॑षेषु । भूरि॑ । म॒नी॒षी । ह॒व॒ते॒ । त्वाम् । इत् ।
मा । आ॒रे । अ॒स्मत् । म॒घ॒ऽव॒न् । ज्योक् । क॒रिति॑ कः ॥भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत् ।
मा । आरे । अस्मत् । मघऽवन् । ज्योक् । करिति कः ॥bhū́ri ǀ hí ǀ te ǀ sávanā ǀ mā́nuṣeṣu ǀ bhū́ri ǀ manīṣī́ ǀ havate ǀ tvā́m ǀ ít ǀ
mā́ ǀ āré ǀ asmát ǀ magha-van ǀ jyók ǀ karíti kaḥ ǁbhūri ǀ hi ǀ te ǀ savanā ǀ mānuṣeṣu ǀ bhūri ǀ manīṣī ǀ havate ǀ tvām ǀ it ǀ
mā ǀ āre ǀ asmat ǀ magha-van ǀ jyok ǀ kariti kaḥ ǁ7.22.6 Aṣṭaka 5.3.6.1Anuvāka 7.2.62
-
Ṛk 7
तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि ।
त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥तुभ्येद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि |
त्वं नृभिर् हव्यो विश्वधासि ||túbhyédimā́ sávanā śūra víśvā túbhyam bráhmāṇi várdhanā kṛṇomi ǀ
tvám nṛ́bhirhávyo viśvádhāsi ǁtubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi |
tvaṃ nṛbhir havyo viśvadhāsi ||तुभ्य॑ । इत् । इ॒मा । सव॑ना । शू॒र॒ । विश्वा॑ । तुभ्य॑म् । ब्रह्मा॑णि । वर्ध॑ना । कृ॒णो॒मि॒ ।
त्वम् । नृऽभिः॑ । हव्यः॑ । वि॒श्वधा॑ । अ॒सि॒ ॥तुभ्य । इत् । इमा । सवना । शूर । विश्वा । तुभ्यम् । ब्रह्माणि । वर्धना । कृणोमि ।
त्वम् । नृऽभिः । हव्यः । विश्वधा । असि ॥túbhya ǀ ít ǀ imā́ ǀ sávanā ǀ śūra ǀ víśvā ǀ túbhyam ǀ bráhmāṇi ǀ várdhanā ǀ kṛṇomi ǀ
tvám ǀ nṛ́-bhiḥ ǀ hávyaḥ ǀ viśvádhā ǀ asi ǁtubhya ǀ it ǀ imā ǀ savanā ǀ śūra ǀ viśvā ǀ tubhyam ǀ brahmāṇi ǀ vardhanā ǀ kṛṇomi ǀ
tvam ǀ nṛ-bhiḥ ǀ havyaḥ ǀ viśvadhā ǀ asi ǁ7.22.7 Aṣṭaka 5.3.6.2Anuvāka 7.2.63
-
Ṛk 8
नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवंति महि॒मान॑मुग्र ।
न वी॒र्य॑मिंद्र ते॒ न राधः॑ ॥नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र |
न वीर्यम् इन्द्र ते न राधः ||nū́ cinnú te mányamānasya dasmódaśnuvanti mahimā́namugra ǀ
ná vīryámindra te ná rā́dhaḥ ǁnū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra |
na vīryam indra te na rādhaḥ ||नु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ । म॒हि॒मान॑म् । उ॒ग्र॒ ।
न । वी॒र्य॑म् । इ॒न्द्र॒ । ते॒ । न । राधः॑ ॥नु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवन्ति । महिमानम् । उग्र ।
न । वीर्यम् । इन्द्र । ते । न । राधः ॥nú ǀ cit ǀ nú ǀ te ǀ mányamānasya ǀ dasma ǀ út ǀ aśnuvanti ǀ mahimā́nam ǀ ugra ǀ
ná ǀ vīryám ǀ indra ǀ te ǀ ná ǀ rā́dhaḥ ǁnu ǀ cit ǀ nu ǀ te ǀ manyamānasya ǀ dasma ǀ ut ǀ aśnuvanti ǀ mahimānam ǀ ugra ǀ
na ǀ vīryam ǀ indra ǀ te ǀ na ǀ rādhaḥ ǁ7.22.8 Aṣṭaka 5.3.6.3Anuvāka 7.2.64
-
Ṛk 9
ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इंद्र॒ ब्रह्मा॑णि ज॒नयं॑त॒ विप्राः॑ ।
अ॒स्मे ते॑ संतु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः |
अस्मे ते सन्तु सख्या शिवानि यूयम् पात स्वस्तिभिः सदा नः ||yé ca pū́rva ṛ́ṣayo yé ca nū́tnā índra bráhmāṇi janáyanta víprāḥ ǀ
asmé te santu sakhyā́ śivā́ni yūyám pāta svastíbhiḥ sádā naḥ ǁye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ |
asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ ||ये । च॒ । पूर्वे॑ । ऋष॑यः । ये । च॒ । नूत्नाः॑ । इन्द्र॑ । ब्रह्मा॑णि । ज॒नय॑न्त । विप्राः॑ ।
अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ये । च । पूर्वे । ऋषयः । ये । च । नूत्नाः । इन्द्र । ब्रह्माणि । जनयन्त । विप्राः ।
अस्मे इति । ते । सन्तु । सख्या । शिवानि । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥yé ǀ ca ǀ pū́rve ǀ ṛ́ṣayaḥ ǀ yé ǀ ca ǀ nū́tnāḥ ǀ índra ǀ bráhmāṇi ǀ janáyanta ǀ víprāḥ ǀ
asmé íti ǀ te ǀ santu ǀ sakhyā́ ǀ śivā́ni ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁye ǀ ca ǀ pūrve ǀ ṛṣayaḥ ǀ ye ǀ ca ǀ nūtnāḥ ǀ indra ǀ brahmāṇi ǀ janayanta ǀ viprāḥ ǀ
asme iti ǀ te ǀ santu ǀ sakhyā ǀ śivāni ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.22.9 Aṣṭaka 5.3.6.4Anuvāka 7.2.65
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.