Sūkta 42
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3); virāṭtrisṭup (4, 5); triṣṭup (2); nicṛtpaṅkti (6)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र ब्र॒ह्माणो॒ अंगि॑रसो नक्षंत॒ प्र क्रं॑द॒नुर्न॑भ॒न्य॑स्य वेतु ।
प्र धे॒नव॑ उद॒प्रुतो॑ नवंत यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर् नभन्यस्य वेतु |
प्र धेनव उदप्रुतो नवन्त युज्याताम् अद्री अध्वरस्य पेशः ||prá brahmā́ṇo áṅgiraso nakṣanta prá krandanúrnabhanyásya vetu ǀ
prá dhenáva udaprúto navanta yujyā́tāmádrī adhvarásya péśaḥ ǁpra brahmāṇo aṅgiraso nakṣanta pra krandanur nabhanyasya vetu |
pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ ||प्र । ब्र॒ह्माणः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । प्र । क्र॒न्द॒नुः । न॒भ॒न्य॑स्य । वे॒तु॒ ।
प्र । धे॒नवः॑ । उ॒द॒ऽप्रुतः॑ । न॒व॒न्त॒ । यु॒ज्याता॑म् । अद्री॒ इति॑ । अ॒ध्व॒रस्य॑ । पेशः॑ ॥प्र । ब्रह्माणः । अङ्गिरसः । नक्षन्त । प्र । क्रन्दनुः । नभन्यस्य । वेतु ।
प्र । धेनवः । उदऽप्रुतः । नवन्त । युज्याताम् । अद्री इति । अध्वरस्य । पेशः ॥prá ǀ brahmā́ṇaḥ ǀ áṅgirasaḥ ǀ nakṣanta ǀ prá ǀ krandanúḥ ǀ nabhanyásya ǀ vetu ǀ
prá ǀ dhenávaḥ ǀ uda-prútaḥ ǀ navanta ǀ yujyā́tām ǀ ádrī íti ǀ adhvarásya ǀ péśaḥ ǁpra ǀ brahmāṇaḥ ǀ aṅgirasaḥ ǀ nakṣanta ǀ pra ǀ krandanuḥ ǀ nabhanyasya ǀ vetu ǀ
pra ǀ dhenavaḥ ǀ uda-prutaḥ ǀ navanta ǀ yujyātām ǀ adrī iti ǀ adhvarasya ǀ peśaḥ ǁ7.42.1 Aṣṭaka 5.4.9.1Anuvāka 7.3.87
-
Ṛk 2
सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ युं॒क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च ।
ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥सुगस् ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश् च |
ये वा सद्मन्न् अरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ||sugáste agne sánavitto ádhvā yuṅkṣvā́ suté haríto rohítaśca ǀ
yé vā sádmannaruṣā́ vīravā́ho huvé devā́nām jánimāni sattáḥ ǁsugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca |
ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ ||सु॒ऽगः । ते॒ । अ॒ग्ने॒ । सन॑ऽवित्तः । अध्वा॑ । यु॒ङ्क्ष्व । सु॒ते । ह॒रितः॑ । रो॒हितः॑ । च॒ ।
ये । वा॒ । सद्म॑न् । अ॒रु॒षाः । वी॒र॒ऽवाहः॑ । हु॒वे । दे॒वाना॑म् । जनि॑मानि । स॒त्तः ॥सुऽगः । ते । अग्ने । सनऽवित्तः । अध्वा । युङ्क्ष्व । सुते । हरितः । रोहितः । च ।
ये । वा । सद्मन् । अरुषाः । वीरऽवाहः । हुवे । देवानाम् । जनिमानि । सत्तः ॥su-gáḥ ǀ te ǀ agne ǀ sána-vittaḥ ǀ ádhvā ǀ yuṅkṣvá ǀ suté ǀ harítaḥ ǀ rohítaḥ ǀ ca ǀ
yé ǀ vā ǀ sádman ǀ aruṣā́ḥ ǀ vīra-vā́haḥ ǀ huvé ǀ devā́nām ǀ jánimāni ǀ sattáḥ ǁsu-gaḥ ǀ te ǀ agne ǀ sana-vittaḥ ǀ adhvā ǀ yuṅkṣva ǀ sute ǀ haritaḥ ǀ rohitaḥ ǀ ca ǀ
ye ǀ vā ǀ sadman ǀ aruṣāḥ ǀ vīra-vāhaḥ ǀ huve ǀ devānām ǀ janimāni ǀ sattaḥ ǁ7.42.2 Aṣṭaka 5.4.9.2Anuvāka 7.3.88
-
Ṛk 3
समु॑ वो य॒ज्ञं म॑हय॒न्नमो॑भिः॒ प्र होता॑ मं॒द्रो रि॑रिच उपा॒के ।
यज॑स्व॒ सु पु॑र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑तिं ववृत्याः ॥सम् उ वो यज्ञम् महयन् नमोभिः प्र होता मन्द्रो रिरिच उपाके |
यजस्व सु पुर्वणीक देवान् आ यज्ञियाम् अरमतिं ववृत्याः ||sámu vo yajñám mahayannámobhiḥ prá hótā mandró ririca upāké ǀ
yájasva sú purvaṇīka devā́nā́ yajñíyāmarámatim vavṛtyāḥ ǁsam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke |
yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ ||सम् । ऊं॒ इति॑ । वः॒ । य॒ज्ञम् । म॒ह॒य॒न् । नमः॑ऽभिः । प्र । होता॑ । म॒न्द्रः । रि॒रि॒चे॒ । उ॒पा॒के ।
यज॑स्व । सु । पु॒रु॒ऽअ॒नी॒क॒ । दे॒वान् । आ । य॒ज्ञिया॑म् । अ॒रम॑तिम् । व॒वृ॒त्याः॒ ॥सम् । ऊं इति । वः । यज्ञम् । महयन् । नमःऽभिः । प्र । होता । मन्द्रः । रिरिचे । उपाके ।
यजस्व । सु । पुरुऽअनीक । देवान् । आ । यज्ञियाम् । अरमतिम् । ववृत्याः ॥sám ǀ ūṃ íti ǀ vaḥ ǀ yajñám ǀ mahayan ǀ námaḥ-bhiḥ ǀ prá ǀ hótā ǀ mandráḥ ǀ ririce ǀ upāké ǀ
yájasva ǀ sú ǀ puru-anīka ǀ devā́n ǀ ā́ ǀ yajñíyām ǀ arámatim ǀ vavṛtyāḥ ǁsam ǀ ūṃ iti ǀ vaḥ ǀ yajñam ǀ mahayan ǀ namaḥ-bhiḥ ǀ pra ǀ hotā ǀ mandraḥ ǀ ririce ǀ upāke ǀ
yajasva ǀ su ǀ puru-anīka ǀ devān ǀ ā ǀ yajñiyām ǀ aramatim ǀ vavṛtyāḥ ǁ7.42.3 Aṣṭaka 5.4.9.3Anuvāka 7.3.89
-
Ṛk 4
य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् ।
सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् |
सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै ||yadā́ vīrásya reváto duroṇé syonaśī́rátithirācíketat ǀ
súprīto agníḥ súdhito dáma ā́ sá viśé dāti vā́ryamíyatyai ǁyadā vīrasya revato duroṇe syonaśīr atithir āciketat |
suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai ||य॒दा । वी॒रस्य॑ । रे॒वतः॑ । दु॒रो॒णे । स्यो॒न॒ऽशीः । अति॑थिः । आ॒ऽचिके॑तत् ।
सुऽप्री॑तः । अ॒ग्निः । सुऽधि॑तः । दमे॑ । आ । सः । वि॒शे । दा॒ति॒ । वार्य॑म् । इय॑त्यै ॥यदा । वीरस्य । रेवतः । दुरोणे । स्योनऽशीः । अतिथिः । आऽचिकेतत् ।
सुऽप्रीतः । अग्निः । सुऽधितः । दमे । आ । सः । विशे । दाति । वार्यम् । इयत्यै ॥yadā́ ǀ vīrásya ǀ revátaḥ ǀ duroṇé ǀ syona-śī́ḥ ǀ átithiḥ ǀ ā-cíketat ǀ
sú-prītaḥ ǀ agníḥ ǀ sú-dhitaḥ ǀ dáme ǀ ā́ ǀ sáḥ ǀ viśé ǀ dāti ǀ vā́ryam ǀ íyatyai ǁyadā ǀ vīrasya ǀ revataḥ ǀ duroṇe ǀ syona-śīḥ ǀ atithiḥ ǀ ā-ciketat ǀ
su-prītaḥ ǀ agniḥ ǀ su-dhitaḥ ǀ dame ǀ ā ǀ saḥ ǀ viśe ǀ dāti ǀ vāryam ǀ iyatyai ǁ7.42.4 Aṣṭaka 5.4.9.4Anuvāka 7.3.90
-
Ṛk 5
इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विंद्रे॑ य॒शसं॑ कृधी नः ।
आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शंता॑ मि॒त्रावरु॑णा यजे॒ह ॥इमं नो अग्ने अध्वरं जुषस्व मरुत्स्व् इन्द्रे यशसं कृधी नः |
आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह ||imám no agne adhvarám juṣasva marútsvíndre yaśásam kṛdhī naḥ ǀ
ā́ náktā barhíḥ sadatāmuṣā́sośántā mitrā́váruṇā yajehá ǁimaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ |
ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha ||इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । म॒रुत्ऽसु॑ । इन्द्रे॑ । य॒शस॑म् । कृ॒धि॒ । नः॒ ।
आ । नक्ता॑ । ब॒र्हिः । स॒द॒ता॒म् । उ॒षसा॑ । उ॒शन्ता॑ । मि॒त्रावरु॑णा । य॒ज॒ । इ॒ह ॥इमम् । नः । अग्ने । अध्वरम् । जुषस्व । मरुत्ऽसु । इन्द्रे । यशसम् । कृधि । नः ।
आ । नक्ता । बर्हिः । सदताम् । उषसा । उशन्ता । मित्रावरुणा । यज । इह ॥imám ǀ naḥ ǀ agne ǀ adhvarám ǀ juṣasva ǀ marút-su ǀ índre ǀ yaśásam ǀ kṛdhi ǀ naḥ ǀ
ā́ ǀ náktā ǀ barhíḥ ǀ sadatām ǀ uṣásā ǀ uśántā ǀ mitrā́váruṇā ǀ yaja ǀ ihá ǁimam ǀ naḥ ǀ agne ǀ adhvaram ǀ juṣasva ǀ marut-su ǀ indre ǀ yaśasam ǀ kṛdhi ǀ naḥ ǀ
ā ǀ naktā ǀ barhiḥ ǀ sadatām ǀ uṣasā ǀ uśantā ǀ mitrāvaruṇā ǀ yaja ǀ iha ǁ7.42.5 Aṣṭaka 5.4.9.5Anuvāka 7.3.91
-
Ṛk 6
ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् ।
इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् |
इषं रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः सदा नः ||evā́gním sahasyám vásiṣṭho rāyáskāmo viśvápsnyasya staut ǀ
íṣam rayím paprathadvā́jamasmé yūyám pāta svastíbhiḥ sádā naḥ ǁevāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut |
iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ ||ए॒व । अ॒ग्निम् । स॒ह॒स्य॑म् । वसि॑ष्ठः । रा॒यःऽका॑मः । वि॒श्वऽप्स्न्य॑स्य । स्तौ॒त् ।
इष॑म् । र॒यिम् । प॒प्र॒थ॒त् । वाज॑म् । अ॒स्मे इति॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । अग्निम् । सहस्यम् । वसिष्ठः । रायःऽकामः । विश्वऽप्स्न्यस्य । स्तौत् ।
इषम् । रयिम् । पप्रथत् । वाजम् । अस्मे इति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥evá ǀ agním ǀ sahasyám ǀ vásiṣṭhaḥ ǀ rāyáḥ-kāmaḥ ǀ viśvá-psnyasya ǀ staut ǀ
íṣam ǀ rayím ǀ paprathat ǀ vā́jam ǀ asmé íti ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁeva ǀ agnim ǀ sahasyam ǀ vasiṣṭhaḥ ǀ rāyaḥ-kāmaḥ ǀ viśva-psnyasya ǀ staut ǀ
iṣam ǀ rayim ǀ paprathat ǀ vājam ǀ asme iti ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.42.6 Aṣṭaka 5.4.9.6Anuvāka 7.3.92
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.