Ṛk 7.42.5
Saṃhitā
इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विंद्रे॑ य॒शसं॑ कृधी नः ।
आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शंता॑ मि॒त्रावरु॑णा यजे॒ह ॥
इमं नो अग्ने अध्वरं जुषस्व मरुत्स्व् इन्द्रे यशसं कृधी नः |
आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह ||
imám no agne adhvarám juṣasva marútsvíndre yaśásam kṛdhī naḥ ǀ
ā́ náktā barhíḥ sadatāmuṣā́sośántā mitrā́váruṇā yajehá ǁ
imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ |
ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha ||
Padapāṭha
इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । म॒रुत्ऽसु॑ । इन्द्रे॑ । य॒शस॑म् । कृ॒धि॒ । नः॒ ।
आ । नक्ता॑ । ब॒र्हिः । स॒द॒ता॒म् । उ॒षसा॑ । उ॒शन्ता॑ । मि॒त्रावरु॑णा । य॒ज॒ । इ॒ह ॥
इमम् । नः । अग्ने । अध्वरम् । जुषस्व । मरुत्ऽसु । इन्द्रे । यशसम् । कृधि । नः ।
आ । नक्ता । बर्हिः । सदताम् । उषसा । उशन्ता । मित्रावरुणा । यज । इह ॥
imám ǀ naḥ ǀ agne ǀ adhvarám ǀ juṣasva ǀ marút-su ǀ índre ǀ yaśásam ǀ kṛdhi ǀ naḥ ǀ
ā́ ǀ náktā ǀ barhíḥ ǀ sadatām ǀ uṣásā ǀ uśántā ǀ mitrā́váruṇā ǀ yaja ǀ ihá ǁ
imam ǀ naḥ ǀ agne ǀ adhvaram ǀ juṣasva ǀ marut-su ǀ indre ǀ yaśasam ǀ kṛdhi ǀ naḥ ǀ
ā ǀ naktā ǀ barhiḥ ǀ sadatām ǀ uṣasā ǀ uśantā ǀ mitrāvaruṇā ǀ yaja ǀ iha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.042.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.09.05
- Maṇḍala · Anuvāka · Ṛk
- 07.03.091
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.