Ṛk 7.42.4
Saṃhitā
य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् ।
सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥
यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् |
सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै ||
yadā́ vīrásya reváto duroṇé syonaśī́rátithirācíketat ǀ
súprīto agníḥ súdhito dáma ā́ sá viśé dāti vā́ryamíyatyai ǁ
yadā vīrasya revato duroṇe syonaśīr atithir āciketat |
suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai ||
Padapāṭha
य॒दा । वी॒रस्य॑ । रे॒वतः॑ । दु॒रो॒णे । स्यो॒न॒ऽशीः । अति॑थिः । आ॒ऽचिके॑तत् ।
सुऽप्री॑तः । अ॒ग्निः । सुऽधि॑तः । दमे॑ । आ । सः । वि॒शे । दा॒ति॒ । वार्य॑म् । इय॑त्यै ॥
यदा । वीरस्य । रेवतः । दुरोणे । स्योनऽशीः । अतिथिः । आऽचिकेतत् ।
सुऽप्रीतः । अग्निः । सुऽधितः । दमे । आ । सः । विशे । दाति । वार्यम् । इयत्यै ॥
yadā́ ǀ vīrásya ǀ revátaḥ ǀ duroṇé ǀ syona-śī́ḥ ǀ átithiḥ ǀ ā-cíketat ǀ
sú-prītaḥ ǀ agníḥ ǀ sú-dhitaḥ ǀ dáme ǀ ā́ ǀ sáḥ ǀ viśé ǀ dāti ǀ vā́ryam ǀ íyatyai ǁ
yadā ǀ vīrasya ǀ revataḥ ǀ duroṇe ǀ syona-śīḥ ǀ atithiḥ ǀ ā-ciketat ǀ
su-prītaḥ ǀ agniḥ ǀ su-dhitaḥ ǀ dame ǀ ā ǀ saḥ ǀ viśe ǀ dāti ǀ vāryam ǀ iyatyai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.042.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.09.04
- Maṇḍala · Anuvāka · Ṛk
- 07.03.090
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.