Ṛgveda · Maṇḍala 7 · Sūkta 42

Ṛk 7.42.6

Viśvedevās · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् ।
इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् |
इषं रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः सदा नः ||

evā́gním sahasyám vásiṣṭho rāyáskāmo viśvápsnyasya staut ǀ
íṣam rayím paprathadvā́jamasmé yūyám pāta svastíbhiḥ sádā naḥ ǁ

evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut |
iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

ए॒व । अ॒ग्निम् । स॒ह॒स्य॑म् । वसि॑ष्ठः । रा॒यःऽका॑मः । वि॒श्वऽप्स्न्य॑स्य । स्तौ॒त् ।
इष॑म् । र॒यिम् । प॒प्र॒थ॒त् । वाज॑म् । अ॒स्मे इति॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

एव । अग्निम् । सहस्यम् । वसिष्ठः । रायःऽकामः । विश्वऽप्स्न्यस्य । स्तौत् ।
इषम् । रयिम् । पप्रथत् । वाजम् । अस्मे इति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

evá ǀ agním ǀ sahasyám ǀ vásiṣṭhaḥ ǀ rāyáḥ-kāmaḥ ǀ viśvá-psnyasya ǀ staut ǀ
íṣam ǀ rayím ǀ paprathat ǀ vā́jam ǀ asmé íti ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

eva ǀ agnim ǀ sahasyam ǀ vasiṣṭhaḥ ǀ rāyaḥ-kāmaḥ ǀ viśva-psnyasya ǀ staut ǀ
iṣam ǀ rayim ǀ paprathat ǀ vājam ǀ asme iti ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.042.06
Aṣṭaka · Adhyāya · Varga · Ṛk
5.4.09.06
Maṇḍala · Anuvāka · Ṛk
07.03.092
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.42.6

Interpretations

Sāyaṇa

प्रवोयज्ञेष्विति पंचर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवं प्रवःपंचेत्यनुक्रान्तं सूक्तविनियोगोलैंगिकः । प्रथमेछन्दोमे प्रउगशस्त्रे प्रवोयज्ञेष्विति वैश्वदेवस्तृचः सूत्रितंच-प्रवोयज्ञेषुदेवयन्तोअर्चन् प्रक्षोदसाधायसासस्रएषेति प्रउगमिति ।