Ṛk 7.43.1
Saṃhitā
प्र वो॑ य॒ज्ञेषु॑ देव॒यंतो॑ अर्चं॒द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑ ।
येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यंति॑ व॒निनो॒ न शाखाः॑ ॥
प्र वो यज्ञेषु देवयन्तो अर्चन् द्यावा नमोभिः पृथिवी इषध्यै |
येषाम् ब्रह्माण्य् असमानि विप्रा विष्वग् वियन्ति वनिनो न शाखाः ||
prá vo yajñéṣu devayánto arcandyā́vā námobhiḥ pṛthivī́ iṣádhyai ǀ
yéṣām bráhmāṇyásamāni víprā víṣvagviyánti vaníno ná śā́khāḥ ǁ
pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai |
yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ ||
Padapāṭha
प्र । वः॒ । य॒ज्ञेषु॑ । दे॒व॒ऽयन्तः॑ । अ॒र्च॒न् । द्यावा॑ । नमः॑ऽभिः । पृ॒थि॒वी इति॑ । इ॒षध्यै॑ ।
येषा॑म् । ब्रह्मा॑णि । अस॑मानि । विप्रा॑ । विष्व॑क् । वि॒ऽयन्ति॑ । व॒निनः॑ । न । शाखाः॑ ॥
प्र । वः । यज्ञेषु । देवऽयन्तः । अर्चन् । द्यावा । नमःऽभिः । पृथिवी इति । इषध्यै ।
येषाम् । ब्रह्माणि । असमानि । विप्रा । विष्वक् । विऽयन्ति । वनिनः । न । शाखाः ॥
prá ǀ vaḥ ǀ yajñéṣu ǀ deva-yántaḥ ǀ arcan ǀ dyā́vā ǀ námaḥ-bhiḥ ǀ pṛthivī́ íti ǀ iṣádhyai ǀ
yéṣām ǀ bráhmāṇi ǀ ásamāni ǀ víprā ǀ víṣvak ǀ vi-yánti ǀ vanínaḥ ǀ ná ǀ śā́khāḥ ǁ
pra ǀ vaḥ ǀ yajñeṣu ǀ deva-yantaḥ ǀ arcan ǀ dyāvā ǀ namaḥ-bhiḥ ǀ pṛthivī iti ǀ iṣadhyai ǀ
yeṣām ǀ brahmāṇi ǀ asamāni ǀ viprā ǀ viṣvak ǀ vi-yanti ǀ vaninaḥ ǀ na ǀ śākhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.043.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.10.01
- Maṇḍala · Anuvāka · Ṛk
- 07.03.093
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.