Sūkta 8
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2-4, 6); svarāṭpaṅkti (1, 7); nicṛttriṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
इं॒धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ ।
नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥इन्धे राजा सम् अर्यो नमोभिर् यस्य प्रतीकम् आहुतं घृतेन |
नरो हव्येभिर् ईऌअते सबाध आग्निर् अग्र उषसाम् अशोचि ||indhé rā́jā sámaryó námobhiryásya prátīkamā́hutam ghṛténa ǀ
náro havyébhirīḷate sabā́dha ā́gnírágra uṣásāmaśoci ǁindhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena |
naro havyebhir īḷate sabādha āgnir agra uṣasām aśoci ||इ॒न्धे । राजा॑ । सम् । अ॒र्यः । नमः॑ऽभिः । यस्य॑ । प्रती॑कम् । आऽहु॑तम् । घृ॒तेन॑ ।
नरः॑ । ह॒व्येभिः॑ । ई॒ळ॒ते॒ । स॒ऽबाधः॑ । आ । अ॒ग्निः । अग्रे॑ । उ॒षसा॑म् । अ॒शो॒चि॒ ॥इन्धे । राजा । सम् । अर्यः । नमःऽभिः । यस्य । प्रतीकम् । आऽहुतम् । घृतेन ।
नरः । हव्येभिः । ईळते । सऽबाधः । आ । अग्निः । अग्रे । उषसाम् । अशोचि ॥indhé ǀ rā́jā ǀ sám ǀ aryáḥ ǀ námaḥ-bhiḥ ǀ yásya ǀ prátīkam ǀ ā́-hutam ǀ ghṛténa ǀ
náraḥ ǀ havyébhiḥ ǀ īḷate ǀ sa-bā́dhaḥ ǀ ā́ ǀ agníḥ ǀ ágre ǀ uṣásām ǀ aśoci ǁindhe ǀ rājā ǀ sam ǀ aryaḥ ǀ namaḥ-bhiḥ ǀ yasya ǀ pratīkam ǀ ā-hutam ǀ ghṛtena ǀ
naraḥ ǀ havyebhiḥ ǀ īḷate ǀ sa-bādhaḥ ǀ ā ǀ agniḥ ǀ agre ǀ uṣasām ǀ aśoci ǁ7.8.1 Aṣṭaka 5.2.11.1Anuvāka 7.1.80
-
Ṛk 2
अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ मं॒द्रो मनु॑षो य॒ह्वो अ॒ग्निः ।
वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥अयम् उ ष्य सुमहां अवेदि होता मन्द्रो मनुषो यह्वो अग्निः |
वि भा अकः ससृजानः पृथिव्यां कृष्णपविर् ओषधीभिर् ववक्षे ||ayámu ṣyá súmahām̐ avedi hótā mandró mánuṣo yahvó agníḥ ǀ
ví bhā́ akaḥ sasṛjānáḥ pṛthivyā́m kṛṣṇápaviróṣadhībhirvavakṣe ǁayam u ṣya sumahāṃ avedi hotā mandro manuṣo yahvo agniḥ |
vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe ||अ॒यम् । ऊं॒ इति॑ । स्यः । सुऽम॑हान् । अ॒वे॒दि॒ । होता॑ । म॒न्द्रः । मनु॑षः । य॒ह्वः । अ॒ग्निः ।
वि । भाः । अ॒क॒रित्य॑कः । स॒सृ॒जा॒नः । पृ॒थि॒व्याम् । कृ॒ष्णऽप॑विः । ओष॑धीभिः । व॒व॒क्षे॒ ॥अयम् । ऊं इति । स्यः । सुऽमहान् । अवेदि । होता । मन्द्रः । मनुषः । यह्वः । अग्निः ।
वि । भाः । अकरित्यकः । ससृजानः । पृथिव्याम् । कृष्णऽपविः । ओषधीभिः । ववक्षे ॥ayám ǀ ūṃ íti ǀ syáḥ ǀ sú-mahān ǀ avedi ǀ hótā ǀ mandráḥ ǀ mánuṣaḥ ǀ yahváḥ ǀ agníḥ ǀ
ví ǀ bhā́ḥ ǀ akarítyakaḥ ǀ sasṛjānáḥ ǀ pṛthivyā́m ǀ kṛṣṇá-paviḥ ǀ óṣadhībhiḥ ǀ vavakṣe ǁayam ǀ ūṃ iti ǀ syaḥ ǀ su-mahān ǀ avedi ǀ hotā ǀ mandraḥ ǀ manuṣaḥ ǀ yahvaḥ ǀ agniḥ ǀ
vi ǀ bhāḥ ǀ akarityakaḥ ǀ sasṛjānaḥ ǀ pṛthivyām ǀ kṛṣṇa-paviḥ ǀ oṣadhībhiḥ ǀ vavakṣe ǁ7.8.2 Aṣṭaka 5.2.11.2Anuvāka 7.1.81
-
Ṛk 3
कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः ।
क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो वं॒तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥कया नो अग्ने वि वसः सुवृक्तिं काम् उ स्वधाम् ऋणवः शस्यमानः |
कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ||káyā no agne ví vasaḥ suvṛktím kā́mu svadhā́mṛṇavaḥ śasyámānaḥ ǀ
kadā́ bhavema pátayaḥ sudatra rāyó vantā́ro duṣṭárasya sādhóḥ ǁkayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ |
kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ ||कया॑ । नः॒ । अ॒ग्ने॒ । वि । व॒सः॒ । सु॒ऽवृ॒क्तिम् । काम् । ऊं॒ इति॑ । स्व॒धाम् । ऋ॒ण॒वः॒ । श॒स्यमा॑नः ।
क॒दा । भ॒वे॒म॒ । पत॑यः । सु॒ऽद॒त्र॒ । रा॒यः । व॒न्तारः॑ । दु॒स्तर॑स्य । सा॒धोः ॥कया । नः । अग्ने । वि । वसः । सुऽवृक्तिम् । काम् । ऊं इति । स्वधाम् । ऋणवः । शस्यमानः ।
कदा । भवेम । पतयः । सुऽदत्र । रायः । वन्तारः । दुस्तरस्य । साधोः ॥káyā ǀ naḥ ǀ agne ǀ ví ǀ vasaḥ ǀ su-vṛktím ǀ kā́m ǀ ūṃ íti ǀ svadhā́m ǀ ṛṇavaḥ ǀ śasyámānaḥ ǀ
kadā́ ǀ bhavema ǀ pátayaḥ ǀ su-datra ǀ rāyáḥ ǀ vantā́raḥ ǀ dustárasya ǀ sādhóḥ ǁkayā ǀ naḥ ǀ agne ǀ vi ǀ vasaḥ ǀ su-vṛktim ǀ kām ǀ ūṃ iti ǀ svadhām ǀ ṛṇavaḥ ǀ śasyamānaḥ ǀ
kadā ǀ bhavema ǀ patayaḥ ǀ su-datra ǀ rāyaḥ ǀ vantāraḥ ǀ dustarasya ǀ sādhoḥ ǁ7.8.3 Aṣṭaka 5.2.11.3Anuvāka 7.1.82
-
Ṛk 4
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः |
अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ||práprāyámagnírbharatásya śṛṇve ví yátsū́ryo ná rócate bṛhádbhā́ḥ ǀ
abhí yáḥ pūrúm pṛ́tanāsu tastháu dyutānó dáivyo átithiḥ śuśoca ǁpra-prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ |
abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca ||प्रऽप्र॑ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वि । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः ।
अ॒भि । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः॑ । अति॑थिः । शु॒शो॒च॒ ॥प्रऽप्र । अयम् । अग्निः । भरतस्य । शृण्वे । वि । यत् । सूर्यः । न । रोचते । बृहत् । भाः ।
अभि । यः । पूरुम् । पृतनासु । तस्थौ । द्युतानः । दैव्यः । अतिथिः । शुशोच ॥prá-pra ǀ ayám ǀ agníḥ ǀ bharatásya ǀ śṛṇve ǀ ví ǀ yát ǀ sū́ryaḥ ǀ ná ǀ rócate ǀ bṛhát ǀ bhā́ḥ ǀ
abhí ǀ yáḥ ǀ pūrúm ǀ pṛ́tanāsu ǀ tastháu ǀ dyutānáḥ ǀ dáivyaḥ ǀ átithiḥ ǀ śuśoca ǁpra-pra ǀ ayam ǀ agniḥ ǀ bharatasya ǀ śṛṇve ǀ vi ǀ yat ǀ sūryaḥ ǀ na ǀ rocate ǀ bṛhat ǀ bhāḥ ǀ
abhi ǀ yaḥ ǀ pūrum ǀ pṛtanāsu ǀ tasthau ǀ dyutānaḥ ǀ daivyaḥ ǀ atithiḥ ǀ śuśoca ǁ7.8.4 Aṣṭaka 5.2.11.4Anuvāka 7.1.83
-
Ṛk 5
अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ।
स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥असन्न् इत् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः |
स्तुतश् चिद् अग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ||ásanníttvé āhávanāni bhū́ri bhúvo víśvebhiḥ sumánā ánīkaiḥ ǀ
stutáścidagne śṛṇviṣe gṛṇānáḥ svayám vardhasva tanvám sujāta ǁasann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ |
stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta ||अस॑न् । इत् । त्वे इति॑ । आ॒ऽहव॑नानि । भूरि॑ । भुवः॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ।
स्तु॒तः । चि॒त् । अ॒ग्ने॒ । शृ॒ण्वि॒षे॒ । गृ॒णा॒नः । स्व॒यम् । व॒र्ध॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥असन् । इत् । त्वे इति । आऽहवनानि । भूरि । भुवः । विश्वेभिः । सुऽमनाः । अनीकैः ।
स्तुतः । चित् । अग्ने । शृण्विषे । गृणानः । स्वयम् । वर्धस्व । तन्वम् । सुऽजात ॥ásan ǀ ít ǀ tvé íti ǀ ā-hávanāni ǀ bhū́ri ǀ bhúvaḥ ǀ víśvebhiḥ ǀ su-mánāḥ ǀ ánīkaiḥ ǀ
stutáḥ ǀ cit ǀ agne ǀ śṛṇviṣe ǀ gṛṇānáḥ ǀ svayám ǀ vardhasva ǀ tanvám ǀ su-jāta ǁasan ǀ it ǀ tve iti ǀ ā-havanāni ǀ bhūri ǀ bhuvaḥ ǀ viśvebhiḥ ǀ su-manāḥ ǀ anīkaiḥ ǀ
stutaḥ ǀ cit ǀ agne ǀ śṛṇviṣe ǀ gṛṇānaḥ ǀ svayam ǀ vardhasva ǀ tanvam ǀ su-jāta ǁ7.8.5 Aṣṭaka 5.2.11.5Anuvāka 7.1.84
-
Ṛk 6
इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑ ।
शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥इदं वचः शतसाः संसहस्रम् उद् अग्नये जनिषीष्ट द्विबर्हाः |
शं यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनं रक्षोहा ||idám vácaḥ śatasā́ḥ sáṃsahasramúdagnáye janiṣīṣṭa dvibárhāḥ ǀ
śám yátstotṛ́bhya āpáye bhávāti dyumádamīvacā́tanam rakṣohā́ ǁidaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ |
śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā ||इ॒दम् । वचः॑ । श॒त॒ऽसाः । सम्ऽस॑हस्रम् । उत् । अ॒ग्नये॑ । ज॒नि॒षी॒ष्ट॒ । द्वि॒ऽबर्हाः॑ ।
शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । द्यु॒ऽमत् । अ॒मी॒व॒ऽचात॑नम् । र॒क्षः॒ऽहा ॥इदम् । वचः । शतऽसाः । सम्ऽसहस्रम् । उत् । अग्नये । जनिषीष्ट । द्विऽबर्हाः ।
शम् । यत् । स्तोतृऽभ्यः । आपये । भवाति । द्युऽमत् । अमीवऽचातनम् । रक्षःऽहा ॥idám ǀ vácaḥ ǀ śata-sā́ḥ ǀ sám-sahasram ǀ út ǀ agnáye ǀ janiṣīṣṭa ǀ dvi-bárhāḥ ǀ
śám ǀ yát ǀ stotṛ́-bhyaḥ ǀ āpáye ǀ bhávāti ǀ dyu-mát ǀ amīva-cā́tanam ǀ rakṣaḥ-hā́ ǁidam ǀ vacaḥ ǀ śata-sāḥ ǀ sam-sahasram ǀ ut ǀ agnaye ǀ janiṣīṣṭa ǀ dvi-barhāḥ ǀ
śam ǀ yat ǀ stotṛ-bhyaḥ ǀ āpaye ǀ bhavāti ǀ dyu-mat ǀ amīva-cātanam ǀ rakṣaḥ-hā ǁ7.8.6 Aṣṭaka 5.2.11.6Anuvāka 7.1.85
-
Ṛk 7
नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां ।
इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् |
इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ||nū́ tvā́magna īmahe vásiṣṭhā īśānám sūno sahaso vásūnām ǀ
íṣam stotṛ́bhyo maghávadbhya ānaḍyūyám pāta svastíbhiḥ sádā naḥ ǁnū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām |
iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ ||नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।
इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् ।
इषम् । स्तोतृऽभ्यः । मघवत्ऽभ्यः । आनट् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥nú ǀ tvā́m ǀ agne ǀ īmahe ǀ vásiṣṭhāḥ ǀ īśānám ǀ sūno íti ǀ sahasaḥ ǀ vásūnām ǀ
íṣam ǀ stotṛ́-bhyaḥ ǀ maghávat-bhyaḥ ǀ ānaṭ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁnu ǀ tvām ǀ agne ǀ īmahe ǀ vasiṣṭhāḥ ǀ īśānam ǀ sūno iti ǀ sahasaḥ ǀ vasūnām ǀ
iṣam ǀ stotṛ-bhyaḥ ǀ maghavat-bhyaḥ ǀ ānaṭ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.8.7 Aṣṭaka 5.2.11.7Anuvāka 7.1.86
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.