Ṛk 7.8.4
Saṃhitā
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥
प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः |
अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ||
práprāyámagnírbharatásya śṛṇve ví yátsū́ryo ná rócate bṛhádbhā́ḥ ǀ
abhí yáḥ pūrúm pṛ́tanāsu tastháu dyutānó dáivyo átithiḥ śuśoca ǁ
pra-prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ |
abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca ||
Padapāṭha
प्रऽप्र॑ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वि । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः ।
अ॒भि । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः॑ । अति॑थिः । शु॒शो॒च॒ ॥
प्रऽप्र । अयम् । अग्निः । भरतस्य । शृण्वे । वि । यत् । सूर्यः । न । रोचते । बृहत् । भाः ।
अभि । यः । पूरुम् । पृतनासु । तस्थौ । द्युतानः । दैव्यः । अतिथिः । शुशोच ॥
prá-pra ǀ ayám ǀ agníḥ ǀ bharatásya ǀ śṛṇve ǀ ví ǀ yát ǀ sū́ryaḥ ǀ ná ǀ rócate ǀ bṛhát ǀ bhā́ḥ ǀ
abhí ǀ yáḥ ǀ pūrúm ǀ pṛ́tanāsu ǀ tastháu ǀ dyutānáḥ ǀ dáivyaḥ ǀ átithiḥ ǀ śuśoca ǁ
pra-pra ǀ ayam ǀ agniḥ ǀ bharatasya ǀ śṛṇve ǀ vi ǀ yat ǀ sūryaḥ ǀ na ǀ rocate ǀ bṛhat ǀ bhāḥ ǀ
abhi ǀ yaḥ ǀ pūrum ǀ pṛtanāsu ǀ tasthau ǀ dyutānaḥ ǀ daivyaḥ ǀ atithiḥ ǀ śuśoca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.008.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.11.04
- Maṇḍala · Anuvāka · Ṛk
- 07.01.083
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.