Ṛk 7.8.6
Saṃhitā
इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑ ।
शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥
इदं वचः शतसाः संसहस्रम् उद् अग्नये जनिषीष्ट द्विबर्हाः |
शं यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनं रक्षोहा ||
idám vácaḥ śatasā́ḥ sáṃsahasramúdagnáye janiṣīṣṭa dvibárhāḥ ǀ
śám yátstotṛ́bhya āpáye bhávāti dyumádamīvacā́tanam rakṣohā́ ǁ
idaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ |
śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā ||
Padapāṭha
इ॒दम् । वचः॑ । श॒त॒ऽसाः । सम्ऽस॑हस्रम् । उत् । अ॒ग्नये॑ । ज॒नि॒षी॒ष्ट॒ । द्वि॒ऽबर्हाः॑ ।
शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । द्यु॒ऽमत् । अ॒मी॒व॒ऽचात॑नम् । र॒क्षः॒ऽहा ॥
इदम् । वचः । शतऽसाः । सम्ऽसहस्रम् । उत् । अग्नये । जनिषीष्ट । द्विऽबर्हाः ।
शम् । यत् । स्तोतृऽभ्यः । आपये । भवाति । द्युऽमत् । अमीवऽचातनम् । रक्षःऽहा ॥
idám ǀ vácaḥ ǀ śata-sā́ḥ ǀ sám-sahasram ǀ út ǀ agnáye ǀ janiṣīṣṭa ǀ dvi-bárhāḥ ǀ
śám ǀ yát ǀ stotṛ́-bhyaḥ ǀ āpáye ǀ bhávāti ǀ dyu-mát ǀ amīva-cā́tanam ǀ rakṣaḥ-hā́ ǁ
idam ǀ vacaḥ ǀ śata-sāḥ ǀ sam-sahasram ǀ ut ǀ agnaye ǀ janiṣīṣṭa ǀ dvi-barhāḥ ǀ
śam ǀ yat ǀ stotṛ-bhyaḥ ǀ āpaye ǀ bhavāti ǀ dyu-mat ǀ amīva-cātanam ǀ rakṣaḥ-hā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.008.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.11.06
- Maṇḍala · Anuvāka · Ṛk
- 07.01.085
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.