Sūkta 56
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Dvipadā Virāj
Metres by ṛk
1st set of styles nicṛttriṣṭup (12, 13, 15, 18, 19, 21); bhurigārcīgāyatrī (2, 6, 7, 9); prājāpatyābṛhatī (3-5); virāṭtrisṭup (22, 23, 25); ārcyuṣṇik (8, 10); svarāṭpaṅkti (14, 16); triṣṭup (17, 20); ārcīgāyatrī (1); nicṛdārcyuṣṇik (11); paṅktiḥ (24)
2nd set of styles triṣṭubh (12-25); dvipadā virāj (1-11)
-
Ṛk 1
क ईं॒ व्य॑क्ता॒ नरः॒ सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वाः॑ ॥
क ईं व्यक्ता नरः सनीऌआ रुद्रस्य मर्या अध स्वश्वाः ||
ká īm vyáktā náraḥ sánīḷā rudrásya máryā ádha sváśvāḥ ǁ
ka īṃ vyaktā naraḥ sanīḷā rudrasya maryā adha svaśvāḥ ||
के । ई॒म् । विऽअ॑क्ताः । नरः॑ । सऽनी॑ळाः । रु॒द्रस्य॑ । मर्याः॑ । अध॑ । सु॒ऽअश्वाः॑ ॥
के । ईम् । विऽअक्ताः । नरः । सऽनीळाः । रुद्रस्य । मर्याः । अध । सुऽअश्वाः ॥
ké ǀ īm ǀ ví-aktāḥ ǀ náraḥ ǀ sá-nīḷāḥ ǀ rudrásya ǀ máryāḥ ǀ ádha ǀ su-áśvāḥ ǁ
ke ǀ īm ǀ vi-aktāḥ ǀ naraḥ ǀ sa-nīḷāḥ ǀ rudrasya ǀ maryāḥ ǀ adha ǀ su-aśvāḥ ǁ
7.56.1 Aṣṭaka 5.4.23.1Anuvāka 7.4.1
-
Ṛk 2
नकि॒र्ह्ये॑षां ज॒नूंषि॒ वेद॒ ते अं॒ग वि॑द्रे मि॒थो ज॒नित्रं॑ ॥
नकिर् ह्य् एषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ||
nákirhyéṣām janū́ṃṣi véda té aṅgá vidre mithó janítram ǁ
nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram ||
नकिः॑ । हि । ए॒षा॒म् । ज॒नूंषि॑ । वेद॑ । ते । अ॒ङ्ग । वि॒द्रे॒ । मि॒थः । ज॒नित्र॑म् ॥
नकिः । हि । एषाम् । जनूंषि । वेद । ते । अङ्ग । विद्रे । मिथः । जनित्रम् ॥
nákiḥ ǀ hí ǀ eṣām ǀ janū́ṃṣi ǀ véda ǀ té ǀ aṅgá ǀ vidre ǀ mitháḥ ǀ janítram ǁ
nakiḥ ǀ hi ǀ eṣām ǀ janūṃṣi ǀ veda ǀ te ǀ aṅga ǀ vidre ǀ mithaḥ ǀ janitram ǁ
7.56.2 Aṣṭaka 5.4.23.2Anuvāka 7.4.2
-
Ṛk 3
अ॒भि स्व॒पूभि॑र्मि॒थो व॑पंत॒ वात॑स्वनसः श्ये॒ना अ॑स्पृध्रन् ॥
अभि स्वपूभिर् मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ||
abhí svapū́bhirmithó vapanta vā́tasvanasaḥ śyenā́ aspṛdhran ǁ
abhi svapūbhir mitho vapanta vātasvanasaḥ śyenā aspṛdhran ||
अ॒भि । स्व॒ऽपूभिः॑ । मि॒थः । व॒प॒न्त॒ । वात॑ऽस्वनसः । श्ये॒नाः । अ॒स्पृ॒ध्र॒न् ॥
अभि । स्वऽपूभिः । मिथः । वपन्त । वातऽस्वनसः । श्येनाः । अस्पृध्रन् ॥
abhí ǀ sva-pū́bhiḥ ǀ mitháḥ ǀ vapanta ǀ vā́ta-svanasaḥ ǀ śyenā́ḥ ǀ aspṛdhran ǁ
abhi ǀ sva-pūbhiḥ ǀ mithaḥ ǀ vapanta ǀ vāta-svanasaḥ ǀ śyenāḥ ǀ aspṛdhran ǁ
7.56.3 Aṣṭaka 5.4.23.3Anuvāka 7.4.3
-
Ṛk 4
ए॒तानि॒ धीरो॑ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो॑ म॒ही ज॒भार॑ ॥
एतानि धीरो निण्या चिकेत पृश्निर् यद् ऊधो मही जभार ||
etā́ni dhī́ro niṇyā́ ciketa pṛ́śniryádū́dho mahī́ jabhā́ra ǁ
etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra ||
ए॒तानि॑ । धीरः॑ । नि॒ण्या । चि॒के॒त॒ । पृश्निः॑ । यत् । ऊधः॑ । म॒ही । ज॒भार॑ ॥
एतानि । धीरः । निण्या । चिकेत । पृश्निः । यत् । ऊधः । मही । जभार ॥
etā́ni ǀ dhī́raḥ ǀ niṇyā́ ǀ ciketa ǀ pṛ́śniḥ ǀ yát ǀ ū́dhaḥ ǀ mahī́ ǀ jabhā́ra ǁ
etāni ǀ dhīraḥ ǀ niṇyā ǀ ciketa ǀ pṛśniḥ ǀ yat ǀ ūdhaḥ ǀ mahī ǀ jabhāra ǁ
7.56.4 Aṣṭaka 5.4.23.4Anuvāka 7.4.4
-
Ṛk 5
सा विट् सु॒वीरा॑ म॒रुद्भि॑रस्तु स॒नात्सहं॑ती॒ पुष्यं॑ती नृ॒म्णं ॥
सा विट् सुवीरा मरुद्भिर् अस्तु सनात् सहन्ती पुष्यन्ती नृम्णम् ||
sā́ víṭ suvī́rā marúdbhirastu sanā́tsáhantī púṣyantī nṛmṇám ǁ
sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam ||
सा । विट् । सु॒ऽवीरा॑ । म॒रुत्ऽभिः॑ । अ॒स्तु॒ । स॒नात् । सह॑न्ती । पुष्य॑न्ती । नृ॒म्णम् ॥
सा । विट् । सुऽवीरा । मरुत्ऽभिः । अस्तु । सनात् । सहन्ती । पुष्यन्ती । नृम्णम् ॥
sā́ ǀ víṭ ǀ su-vī́rā ǀ marút-bhiḥ ǀ astu ǀ sanā́t ǀ sáhantī ǀ púṣyantī ǀ nṛmṇám ǁ
sā ǀ viṭ ǀ su-vīrā ǀ marut-bhiḥ ǀ astu ǀ sanāt ǀ sahantī ǀ puṣyantī ǀ nṛmṇam ǁ
7.56.5 Aṣṭaka 5.4.23.5Anuvāka 7.4.5
-
Ṛk 6
यामं॒ येष्ठाः॑ शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒ ओजो॑भिरु॒ग्राः ॥
यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिर् उग्राः ||
yā́mam yéṣṭhāḥ śubhā́ śóbhiṣṭhāḥ śriyā́ sámmiślā ójobhirugrā́ḥ ǁ
yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ ||
याम॑म् । येष्ठाः॑ । शु॒भा । शोभि॑ष्ठाः । श्रि॒या । सम्ऽमि॑श्लाः । ओजः॑ऽभिः । उ॒ग्राः ॥
यामम् । येष्ठाः । शुभा । शोभिष्ठाः । श्रिया । सम्ऽमिश्लाः । ओजःऽभिः । उग्राः ॥
yā́mam ǀ yéṣṭhāḥ ǀ śubhā́ ǀ śóbhiṣṭhāḥ ǀ śriyā́ ǀ sám-miślāḥ ǀ ójaḥ-bhiḥ ǀ ugrā́ḥ ǁ
yāmam ǀ yeṣṭhāḥ ǀ śubhā ǀ śobhiṣṭhāḥ ǀ śriyā ǀ sam-miślāḥ ǀ ojaḥ-bhiḥ ǀ ugrāḥ ǁ
7.56.6 Aṣṭaka 5.4.23.6Anuvāka 7.4.6
-
Ṛk 7
उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा॑ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ॥
उग्रं व ओज स्थिरा शवांस्य् अधा मरुद्भिर् गणस् तुविष्मान् ||
ugrám va ójaḥ sthirā́ śávāṃsyádhā marúdbhirgaṇástúviṣmān ǁ
ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān ||
उ॒ग्रम् । वः॒ । ओजः॑ । स्थि॒रा । शवां॑सि । अध॑ । म॒रुत्ऽभिः॑ । ग॒णः । तुवि॑ष्मान् ॥
उग्रम् । वः । ओजः । स्थिरा । शवांसि । अध । मरुत्ऽभिः । गणः । तुविष्मान् ॥
ugrám ǀ vaḥ ǀ ójaḥ ǀ sthirā́ ǀ śávāṃsi ǀ ádha ǀ marút-bhiḥ ǀ gaṇáḥ ǀ túviṣmān ǁ
ugram ǀ vaḥ ǀ ojaḥ ǀ sthirā ǀ śavāṃsi ǀ adha ǀ marut-bhiḥ ǀ gaṇaḥ ǀ tuviṣmān ǁ
7.56.7 Aṣṭaka 5.4.23.7Anuvāka 7.4.7
-
Ṛk 8
शु॒भ्रो वः॒ शुष्मः॒ क्रुध्मी॒ मनां॑सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ॥
शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर् मुनिर् इव शर्धस्य धृष्णोः ||
śubhró vaḥ śúṣmaḥ krúdhmī mánāṃsi dhúnirmúniriva śárdhasya dhṛṣṇóḥ ǁ
śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ ||
शु॒भ्रः । वः॒ । शुष्मः॑ । क्रुध्मी॑ । मनां॑सि । धुनिः॑ । मुनिः॑ऽइव । शर्ध॑स्य । धृ॒ष्णोः ॥
शुभ्रः । वः । शुष्मः । क्रुध्मी । मनांसि । धुनिः । मुनिःऽइव । शर्धस्य । धृष्णोः ॥
śubhráḥ ǀ vaḥ ǀ śúṣmaḥ ǀ krúdhmī ǀ mánāṃsi ǀ dhúniḥ ǀ múniḥ-iva ǀ śárdhasya ǀ dhṛṣṇóḥ ǁ
śubhraḥ ǀ vaḥ ǀ śuṣmaḥ ǀ krudhmī ǀ manāṃsi ǀ dhuniḥ ǀ muniḥ-iva ǀ śardhasya ǀ dhṛṣṇoḥ ǁ
7.56.8 Aṣṭaka 5.4.23.8Anuvāka 7.4.8
-
Ṛk 9
सने॑म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो॑ दुर्म॒तिरि॒ह प्रण॑ङ्नः ॥
सनेम्य् अस्मद् युयोत दिद्युम् मा वो दुर्मतिर् इह प्रणङ् नः ||
sánemyasmádyuyóta didyúm mā́ vo durmatírihá práṇaṅnaḥ ǁ
sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ ||
सने॑मि । अ॒स्मत् । यु॒योत॑ । दि॒द्युम् । मा । वः॒ । दुः॒ऽम॒तिः । इ॒ह । प्रण॑क् । नः॒ ॥
सनेमि । अस्मत् । युयोत । दिद्युम् । मा । वः । दुःऽमतिः । इह । प्रणक् । नः ॥
sánemi ǀ asmát ǀ yuyóta ǀ didyúm ǀ mā́ ǀ vaḥ ǀ duḥ-matíḥ ǀ ihá ǀ práṇak ǀ naḥ ǁ
sanemi ǀ asmat ǀ yuyota ǀ didyum ǀ mā ǀ vaḥ ǀ duḥ-matiḥ ǀ iha ǀ praṇak ǀ naḥ ǁ
7.56.9 Aṣṭaka 5.4.23.9Anuvāka 7.4.9
-
Ṛk 10
प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ॥
प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानाः ||
priyā́ vo nā́ma huve turā́ṇāmā́ yáttṛpánmaruto vāvaśānā́ḥ ǁ
priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ ||
प्रि॒या । वः॒ । नाम॑ । हु॒वे॒ । तु॒राणा॑म् । आ । यत् । तृ॒पत् । म॒रु॒तः॒ । वा॒व॒शा॒नाः ॥
प्रिया । वः । नाम । हुवे । तुराणाम् । आ । यत् । तृपत् । मरुतः । वावशानाः ॥
priyā́ ǀ vaḥ ǀ nā́ma ǀ huve ǀ turā́ṇām ǀ ā́ ǀ yát ǀ tṛpát ǀ marutaḥ ǀ vāvaśānā́ḥ ǁ
priyā ǀ vaḥ ǀ nāma ǀ huve ǀ turāṇām ǀ ā ǀ yat ǀ tṛpat ǀ marutaḥ ǀ vāvaśānāḥ ǁ
7.56.10 Aṣṭaka 5.4.23.10Anuvāka 7.4.10
-
Ṛk 11
स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्वः१॒॑ शुंभ॑मानाः ॥
स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ||
svāyudhā́sa iṣmíṇaḥ suniṣkā́ utá svayám tanváḥ śúmbhamānāḥ ǁ
svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ ||
सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ । सु॒ऽनि॒ष्काः । उ॒त । स्व॒यम् । त॒न्वः॑ । शुम्भ॑मानाः ॥
सुऽआयुधासः । इष्मिणः । सुऽनिष्काः । उत । स्वयम् । तन्वः । शुम्भमानाः ॥
su-āyudhā́saḥ ǀ iṣmíṇaḥ ǀ su-niṣkā́ḥ ǀ utá ǀ svayám ǀ tanváḥ ǀ śúmbhamānāḥ ǁ
su-āyudhāsaḥ ǀ iṣmiṇaḥ ǀ su-niṣkāḥ ǀ uta ǀ svayam ǀ tanvaḥ ǀ śumbhamānāḥ ǁ
7.56.11 Aṣṭaka 5.4.24.1Anuvāka 7.4.11
-
Ṛk 12
शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः ।
ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आयं॒छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ॥शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः |
ऋतेन सत्यम् ऋतसाप आयञ् छुचिजन्मानः शुचयः पावकाः ||śúcī vo havyā́ marutaḥ śúcīnām śúcim hinomyadhvarám śúcibhyaḥ ǀ
ṛténa satyámṛtasā́pa āyañchúcijanmānaḥ śúcayaḥ pāvakā́ḥ ǁśucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ |
ṛtena satyam ṛtasāpa āyañ chucijanmānaḥ śucayaḥ pāvakāḥ ||शुची॑ । वः॒ । ह॒व्या । म॒रु॒तः॒ । शुची॑नाम् । शुचि॑म् । हि॒नो॒मि॒ । अ॒ध्व॒रम् । शुचि॑ऽभ्यः ।
ऋ॒तेन॑ । स॒त्यम् । ऋ॒त॒ऽसापः॑ । आ॒य॒न् । शुचि॑ऽजन्मानः । शुच॑यः । पा॒व॒काः ॥शुची । वः । हव्या । मरुतः । शुचीनाम् । शुचिम् । हिनोमि । अध्वरम् । शुचिऽभ्यः ।
ऋतेन । सत्यम् । ऋतऽसापः । आयन् । शुचिऽजन्मानः । शुचयः । पावकाः ॥śúcī ǀ vaḥ ǀ havyā́ ǀ marutaḥ ǀ śúcīnām ǀ śúcim ǀ hinomi ǀ adhvarám ǀ śúci-bhyaḥ ǀ
ṛténa ǀ satyám ǀ ṛta-sā́paḥ ǀ āyan ǀ śúci-janmānaḥ ǀ śúcayaḥ ǀ pāvakā́ḥ ǁśucī ǀ vaḥ ǀ havyā ǀ marutaḥ ǀ śucīnām ǀ śucim ǀ hinomi ǀ adhvaram ǀ śuci-bhyaḥ ǀ
ṛtena ǀ satyam ǀ ṛta-sāpaḥ ǀ āyan ǀ śuci-janmānaḥ ǀ śucayaḥ ǀ pāvakāḥ ǁ7.56.12 Aṣṭaka 5.4.24.2Anuvāka 7.4.12
-
Ṛk 13
अंसे॒ष्वा म॑रुतः खा॒दयो॑ वो॒ वक्ष॑स्सु रु॒क्मा उ॑पशिश्रिया॒णाः ।
वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ॥अंसेष्व् आ मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः |
वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यच्छमानाः ||áṃseṣvā́ marutaḥ khādáyo vo vákṣassu rukmā́ upaśiśriyāṇā́ḥ ǀ
ví vidyúto ná vṛṣṭíbhī rucānā́ ánu svadhā́mā́yudhairyácchamānāḥ ǁaṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ |
vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ ||अंसे॑षु । आ । म॒रु॒तः॒ । खा॒दयः॑ । वः॒ । वक्षः॑ऽसु । रु॒क्माः । उ॒प॒ऽशि॒श्रि॒या॒णाः ।
वि । वि॒ऽद्युतः॑ । न । वृ॒ष्टिऽभिः॑ । रु॒चा॒नाः । अनु॑ । स्व॒धाम् । आयु॑धैः । यच्छ॑मानाः ॥अंसेषु । आ । मरुतः । खादयः । वः । वक्षःऽसु । रुक्माः । उपऽशिश्रियाणाः ।
वि । विऽद्युतः । न । वृष्टिऽभिः । रुचानाः । अनु । स्वधाम् । आयुधैः । यच्छमानाः ॥áṃseṣu ǀ ā́ ǀ marutaḥ ǀ khādáyaḥ ǀ vaḥ ǀ vákṣaḥ-su ǀ rukmā́ḥ ǀ upa-śiśriyāṇā́ḥ ǀ
ví ǀ vi-dyútaḥ ǀ ná ǀ vṛṣṭí-bhiḥ ǀ rucānā́ḥ ǀ ánu ǀ svadhā́m ǀ ā́yudhaiḥ ǀ yácchamānāḥ ǁaṃseṣu ǀ ā ǀ marutaḥ ǀ khādayaḥ ǀ vaḥ ǀ vakṣaḥ-su ǀ rukmāḥ ǀ upa-śiśriyāṇāḥ ǀ
vi ǀ vi-dyutaḥ ǀ na ǀ vṛṣṭi-bhiḥ ǀ rucānāḥ ǀ anu ǀ svadhām ǀ āyudhaiḥ ǀ yacchamānāḥ ǁ7.56.13 Aṣṭaka 5.4.24.3Anuvāka 7.4.13
-
Ṛk 14
प्र बु॒ध्न्या॑ व ईरते॒ महां॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वं ।
स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषध्वं ॥प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस् तिरध्वम् |
सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ||prá budhnyā́ va īrate máhāṃsi prá nā́māni prayajyavastiradhvam ǀ
sahasríyam dámyam bhāgámetám gṛhamedhī́yam maruto juṣadhvam ǁpra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam |
sahasriyaṃ damyam bhāgam etaṃ gṛhamedhīyam maruto juṣadhvam ||प्र । बु॒ध्न्या॑ । वः॒ । ई॒र॒ते॒ । महां॑सि । प्र । नामा॑नि । प्र॒ऽय॒ज्य॒वः॒ । ति॒र॒ध्व॒म् ।
स॒ह॒स्रिय॑म् । दम्य॑म् । भा॒गम् । ए॒तम् । गृ॒ह॒ऽमे॒धीय॑म् । म॒रु॒तः॒ । जु॒ष॒ध्व॒म् ॥प्र । बुध्न्या । वः । ईरते । महांसि । प्र । नामानि । प्रऽयज्यवः । तिरध्वम् ।
सहस्रियम् । दम्यम् । भागम् । एतम् । गृहऽमेधीयम् । मरुतः । जुषध्वम् ॥prá ǀ budhnyā́ ǀ vaḥ ǀ īrate ǀ máhāṃsi ǀ prá ǀ nā́māni ǀ pra-yajyavaḥ ǀ tiradhvam ǀ
sahasríyam ǀ dámyam ǀ bhāgám ǀ etám ǀ gṛha-medhī́yam ǀ marutaḥ ǀ juṣadhvam ǁpra ǀ budhnyā ǀ vaḥ ǀ īrate ǀ mahāṃsi ǀ pra ǀ nāmāni ǀ pra-yajyavaḥ ǀ tiradhvam ǀ
sahasriyam ǀ damyam ǀ bhāgam ǀ etam ǀ gṛha-medhīyam ǀ marutaḥ ǀ juṣadhvam ǁ7.56.14 Aṣṭaka 5.4.24.4Anuvāka 7.4.14
-
Ṛk 15
यदि॑ स्तु॒तस्य॑ मरुतो अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी॑मन् ।
म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा॑वा ॥यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् |
मक्षू रायः सुवीर्यस्य दात नू चिद् यम् अन्य आदभद् अरावा ||yádi stutásya maruto adhīthétthā́ víprasya vājíno hávīman ǀ
makṣū́ rāyáḥ suvī́ryasya dāta nū́ cidyámanyá ādábhadárāvā ǁyadi stutasya maruto adhīthetthā viprasya vājino havīman |
makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā ||यदि॑ । स्तु॒तस्य॑ । म॒रु॒तः॒ । अ॒धि॒ऽइ॒थ । इ॒त्था । विप्र॑स्य । वा॒जिनः॑ । हवी॑मन् ।
म॒क्षु । रा॒यः । सु॒ऽवीर्य॑स्य । दा॒त॒ । नु । चि॒त् । यम् । अ॒न्यः । आ॒ऽदभ॑त् । अरा॑वा ॥यदि । स्तुतस्य । मरुतः । अधिऽइथ । इत्था । विप्रस्य । वाजिनः । हवीमन् ।
मक्षु । रायः । सुऽवीर्यस्य । दात । नु । चित् । यम् । अन्यः । आऽदभत् । अरावा ॥yádi ǀ stutásya ǀ marutaḥ ǀ adhi-ithá ǀ itthā́ ǀ víprasya ǀ vājínaḥ ǀ hávīman ǀ
makṣú ǀ rāyáḥ ǀ su-vī́ryasya ǀ dāta ǀ nú ǀ cit ǀ yám ǀ anyáḥ ǀ ā-dábhat ǀ árāvā ǁyadi ǀ stutasya ǀ marutaḥ ǀ adhi-itha ǀ itthā ǀ viprasya ǀ vājinaḥ ǀ havīman ǀ
makṣu ǀ rāyaḥ ǀ su-vīryasya ǀ dāta ǀ nu ǀ cit ǀ yam ǀ anyaḥ ǀ ā-dabhat ǀ arāvā ǁ7.56.15 Aṣṭaka 5.4.24.5Anuvāka 7.4.15
-
Ṛk 16
अत्या॑सो॒ न ये म॒रुतः॒ स्वंचो॑ यक्ष॒दृशो॒ न शु॒भयं॑त॒ मर्याः॑ ।
ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ॥अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः |
ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीऌइनः पयोधाः ||átyāso ná yé marútaḥ sváñco yakṣadṛ́śo ná śubháyanta máryāḥ ǀ
té harmyeṣṭhā́ḥ śíśavo ná śubhrā́ vatsā́so ná prakrīḷínaḥ payodhā́ḥ ǁatyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ |
te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḷinaḥ payodhāḥ ||अत्या॑सः । न । ये । म॒रुतः॑ । सु॒ऽअञ्चः॑ । य॒क्ष॒ऽदृशः॑ । न । शु॒भय॑न्त । मर्याः॑ ।
ते । ह॒र्म्ये॒ऽस्थाः । शिश॑वः । न । शु॒भ्राः । व॒त्सासः॑ । न । प्र॒ऽक्री॒ळिनः॑ । प॒यः॒ऽधाः ॥अत्यासः । न । ये । मरुतः । सुऽअञ्चः । यक्षऽदृशः । न । शुभयन्त । मर्याः ।
ते । हर्म्येऽस्थाः । शिशवः । न । शुभ्राः । वत्सासः । न । प्रऽक्रीळिनः । पयःऽधाः ॥átyāsaḥ ǀ ná ǀ yé ǀ marútaḥ ǀ su-áñcaḥ ǀ yakṣa-dṛ́śaḥ ǀ ná ǀ śubháyanta ǀ máryāḥ ǀ
té ǀ harmye-sthā́ḥ ǀ śíśavaḥ ǀ ná ǀ śubhrā́ḥ ǀ vatsā́saḥ ǀ ná ǀ pra-krīḷínaḥ ǀ payaḥ-dhā́ḥ ǁatyāsaḥ ǀ na ǀ ye ǀ marutaḥ ǀ su-añcaḥ ǀ yakṣa-dṛśaḥ ǀ na ǀ śubhayanta ǀ maryāḥ ǀ
te ǀ harmye-sthāḥ ǀ śiśavaḥ ǀ na ǀ śubhrāḥ ǀ vatsāsaḥ ǀ na ǀ pra-krīḷinaḥ ǀ payaḥ-dhāḥ ǁ7.56.16 Aṣṭaka 5.4.25.1Anuvāka 7.4.16
-
Ṛk 17
द॒श॒स्यंतो॑ नो म॒रुतो॑ मृळंतु वरिव॒स्यंतो॒ रोद॑सी सु॒मेके॑ ।
आ॒रे गो॒हा नृ॒हा व॒धो वो॑ अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वं ॥दशस्यन्तो नो मरुतो मृऌअन्तु वरिवस्यन्तो रोदसी सुमेके |
आरे गोहा नृहा वधो वो अस्तु सुम्नेभिर् अस्मे वसवो नमध्वम् ||daśasyánto no marúto mṛḷantu varivasyánto ródasī suméke ǀ
āré gohā́ nṛhā́ vadhó vo astu sumnébhirasmé vasavo namadhvam ǁdaśasyanto no maruto mṛḷantu varivasyanto rodasī sumeke |
āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam ||द॒श॒स्यन्तः॑ । नः॒ । म॒रुतः॑ । मृ॒ळ॒न्तु॒ । व॒रि॒व॒स्यन्तः॑ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
आ॒रे । गो॒ऽहा । नृ॒ऽहा । व॒धः । वः॒ । अ॒स्तु॒ । सु॒म्नेभिः॑ । अ॒स्मे इति॑ । व॒स॒वः॒ । न॒म॒ध्व॒म् ॥दशस्यन्तः । नः । मरुतः । मृळन्तु । वरिवस्यन्तः । रोदसी इति । सुमेके इति सुऽमेके ।
आरे । गोऽहा । नृऽहा । वधः । वः । अस्तु । सुम्नेभिः । अस्मे इति । वसवः । नमध्वम् ॥daśasyántaḥ ǀ naḥ ǀ marútaḥ ǀ mṛḷantu ǀ varivasyántaḥ ǀ ródasī íti ǀ suméke íti su-méke ǀ
āré ǀ go-hā́ ǀ nṛ-hā́ ǀ vadháḥ ǀ vaḥ ǀ astu ǀ sumnébhiḥ ǀ asmé íti ǀ vasavaḥ ǀ namadhvam ǁdaśasyantaḥ ǀ naḥ ǀ marutaḥ ǀ mṛḷantu ǀ varivasyantaḥ ǀ rodasī iti ǀ sumeke iti su-meke ǀ
āre ǀ go-hā ǀ nṛ-hā ǀ vadhaḥ ǀ vaḥ ǀ astu ǀ sumnebhiḥ ǀ asme iti ǀ vasavaḥ ǀ namadhvam ǁ7.56.17 Aṣṭaka 5.4.25.2Anuvāka 7.4.17
-
Ṛk 18
आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः ।
य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ॥आ वो होता जोहवीति सत्तः सत्राचीं रातिम् मरुतो गृणानः |
य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ||ā́ vo hótā johavīti sattáḥ satrā́cīm rātím maruto gṛṇānáḥ ǀ
yá ī́vato vṛṣaṇo ásti gopā́ḥ só ádvayāvī havate va uktháiḥ ǁā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ |
ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ ||आ । वः॒ । होता॑ । जो॒ह॒वी॒ति॒ । स॒त्तः । स॒त्राची॑ । रा॒तिम् । म॒रु॒तः॒ । गृ॒णा॒नः ।
यः । ईव॑तः । वृ॒ष॒णः॒ । अस्ति॑ । गो॒पाः । सः । अद्व॑यावी । ह॒व॒ते॒ । वः॒ । उ॒क्थैः ॥आ । वः । होता । जोहवीति । सत्तः । सत्राची । रातिम् । मरुतः । गृणानः ।
यः । ईवतः । वृषणः । अस्ति । गोपाः । सः । अद्वयावी । हवते । वः । उक्थैः ॥ā́ ǀ vaḥ ǀ hótā ǀ johavīti ǀ sattáḥ ǀ satrā́cī ǀ rātím ǀ marutaḥ ǀ gṛṇānáḥ ǀ
yáḥ ǀ ī́vataḥ ǀ vṛṣaṇaḥ ǀ ásti ǀ gopā́ḥ ǀ sáḥ ǀ ádvayāvī ǀ havate ǀ vaḥ ǀ uktháiḥ ǁā ǀ vaḥ ǀ hotā ǀ johavīti ǀ sattaḥ ǀ satrācī ǀ rātim ǀ marutaḥ ǀ gṛṇānaḥ ǀ
yaḥ ǀ īvataḥ ǀ vṛṣaṇaḥ ǀ asti ǀ gopāḥ ǀ saḥ ǀ advayāvī ǀ havate ǀ vaḥ ǀ ukthaiḥ ǁ7.56.18 Aṣṭaka 5.4.25.3Anuvāka 7.4.18
-
Ṛk 19
इ॒मे तु॒रं म॒रुतो॑ रामयंती॒मे सहः॒ सह॑स॒ आ न॑मंति ।
इ॒मे शंसं॑ वनुष्य॒तो नि पां॑ति गु॒रु द्वेषो॒ अर॑रुषे दधंति ॥इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति |
इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ||imé turám marúto rāmayantīmé sáhaḥ sáhasa ā́ namanti ǀ
imé śáṃsam vanuṣyató ní pānti gurú dvéṣo áraruṣe dadhanti ǁime turam maruto rāmayantīme sahaḥ sahasa ā namanti |
ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti ||इ॒मे । तु॒रम् । म॒रुतः॑ । र॒म॒य॒न्ति॒ । इ॒मे । सहः॑ । सह॑सः । आ । न॒म॒न्ति॒ ।
इ॒मे । शंस॑म् । व॒नु॒ष्य॒तः । नि । पा॒न्ति॒ । गु॒रु । द्वेषः॑ । अर॑रुषे । द॒ध॒न्ति॒ ॥इमे । तुरम् । मरुतः । रमयन्ति । इमे । सहः । सहसः । आ । नमन्ति ।
इमे । शंसम् । वनुष्यतः । नि । पान्ति । गुरु । द्वेषः । अररुषे । दधन्ति ॥imé ǀ turám ǀ marútaḥ ǀ ramayanti ǀ imé ǀ sáhaḥ ǀ sáhasaḥ ǀ ā́ ǀ namanti ǀ
imé ǀ śáṃsam ǀ vanuṣyatáḥ ǀ ní ǀ pānti ǀ gurú ǀ dvéṣaḥ ǀ áraruṣe ǀ dadhanti ǁime ǀ turam ǀ marutaḥ ǀ ramayanti ǀ ime ǀ sahaḥ ǀ sahasaḥ ǀ ā ǀ namanti ǀ
ime ǀ śaṃsam ǀ vanuṣyataḥ ǀ ni ǀ pānti ǀ guru ǀ dveṣaḥ ǀ araruṣe ǀ dadhanti ǁ7.56.19 Aṣṭaka 5.4.25.4Anuvāka 7.4.19
-
Ṛk 20
इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनंति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षंत॑ ।
अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥इमे रध्रं चिन् मरुतो जुनन्ति भृमिं चिद् यथा वसवो जुषन्त |
अप बाधध्वं वृषणस् तमांसि धत्त विश्वं तनयं तोकम् अस्मे ||imé radhrám cinmarúto junanti bhṛ́mim cidyáthā vásavo juṣánta ǀ
ápa bādhadhvam vṛṣaṇastámāṃsi dhattá víśvam tánayam tokámasmé ǁime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta |
apa bādhadhvaṃ vṛṣaṇas tamāṃsi dhatta viśvaṃ tanayaṃ tokam asme ||इ॒मे । र॒ध्रम् । चि॒त् । म॒रुतः॑ । जु॒न॒न्ति॒ । भृमि॑म् । चि॒त् । यथा॑ । वस॑वः । जु॒षन्त॑ ।
अप॑ । बा॒ध॒ध्व॒म् । वृ॒ष॒णः॒ । तमां॑सि । ध॒त्त । विश्व॑म् । तन॑यम् । तो॒कम् । अ॒स्मे इति॑ ॥इमे । रध्रम् । चित् । मरुतः । जुनन्ति । भृमिम् । चित् । यथा । वसवः । जुषन्त ।
अप । बाधध्वम् । वृषणः । तमांसि । धत्त । विश्वम् । तनयम् । तोकम् । अस्मे इति ॥imé ǀ radhrám ǀ cit ǀ marútaḥ ǀ junanti ǀ bhṛ́mim ǀ cit ǀ yáthā ǀ vásavaḥ ǀ juṣánta ǀ
ápa ǀ bādhadhvam ǀ vṛṣaṇaḥ ǀ támāṃsi ǀ dhattá ǀ víśvam ǀ tánayam ǀ tokám ǀ asmé íti ǁime ǀ radhram ǀ cit ǀ marutaḥ ǀ junanti ǀ bhṛmim ǀ cit ǀ yathā ǀ vasavaḥ ǀ juṣanta ǀ
apa ǀ bādhadhvam ǀ vṛṣaṇaḥ ǀ tamāṃsi ǀ dhatta ǀ viśvam ǀ tanayam ǀ tokam ǀ asme iti ǁ7.56.20 Aṣṭaka 5.4.25.5Anuvāka 7.4.20
-
Ṛk 21
मा वो॑ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे ।
आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॒॑ यदीं॑ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ॥मा वो दात्रान् मरुतो निर् अराम मा पश्चाद् दघ्म रथ्यो विभागे |
आ न स्पार्हे भजतना वसव्ये यद् ईं सुजातं वृषणो वो अस्ति ||mā́ vo dātrā́nmaruto nírarāma mā́ paścā́ddaghma rathyo vibhāgé ǀ
ā́ naḥ spārhé bhajatanā vasavyé yádīm sujātám vṛṣaṇo vo ásti ǁmā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge |
ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti ||मा । वः॒ । दा॒त्रात् । म॒रु॒तः॒ । निः । अ॒रा॒म॒ । मा । प॒श्चात् । द॒घ्म॒ । र॒थ्यः॒ । वि॒ऽभा॒गे ।
आ । नः॒ । स्पा॒र्हे । भ॒ज॒त॒न॒ । व॒स॒व्ये॑ । यत् । ई॒म् । सु॒ऽजा॒तम् । वृ॒ष॒णः॒ । वः॒ । अस्ति॑ ॥मा । वः । दात्रात् । मरुतः । निः । अराम । मा । पश्चात् । दघ्म । रथ्यः । विऽभागे ।
आ । नः । स्पार्हे । भजतन । वसव्ये । यत् । ईम् । सुऽजातम् । वृषणः । वः । अस्ति ॥mā́ ǀ vaḥ ǀ dātrā́t ǀ marutaḥ ǀ níḥ ǀ arāma ǀ mā́ ǀ paścā́t ǀ daghma ǀ rathyaḥ ǀ vi-bhāgé ǀ
ā́ ǀ naḥ ǀ spārhé ǀ bhajatana ǀ vasavyé ǀ yát ǀ īm ǀ su-jātám ǀ vṛṣaṇaḥ ǀ vaḥ ǀ ásti ǁmā ǀ vaḥ ǀ dātrāt ǀ marutaḥ ǀ niḥ ǀ arāma ǀ mā ǀ paścāt ǀ daghma ǀ rathyaḥ ǀ vi-bhāge ǀ
ā ǀ naḥ ǀ spārhe ǀ bhajatana ǀ vasavye ǀ yat ǀ īm ǀ su-jātam ǀ vṛṣaṇaḥ ǀ vaḥ ǀ asti ǁ7.56.21 Aṣṭaka 5.4.26.1Anuvāka 7.4.21
-
Ṛk 22
सं यद्धनं॑त म॒न्युभि॒र्जना॑सः॒ शूरा॑ य॒ह्वीष्वोष॑धीषु वि॒क्षु ।
अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो॑ भूत॒ पृत॑नास्व॒र्यः ॥सं यद् धनन्त मन्युभिर् जनासः शूरा यह्वीष्व् ओषधीषु विक्षु |
अध स्मा नो मरुतो रुद्रियासस् त्रातारो भूत पृतनास्व् अर्यः ||sám yáddhánanta manyúbhirjánāsaḥ śū́rā yahvī́ṣvóṣadhīṣu vikṣú ǀ
ádha smā no maruto rudriyāsastrātā́ro bhūta pṛ́tanāsvaryáḥ ǁsaṃ yad dhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu |
adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ ||सम् । यत् । हन॑न्त । म॒न्युऽभिः�� । जना॑सः । शूराः॑ । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु ।
अध॑ । स्म॒ । नः॒ । म॒रु॒तः॒ । रु॒द्रि॒या॒सः॒ । त्रा॒तारः॑ । भू॒त॒ । पृत॑नासु । अ॒र्यः ॥सम् । यत् । हनन्त । मन्युऽभिः । जनासः । शूराः । यह्वीषु । ओषधीषु । विक्षु ।
अध । स्म । नः । मरुतः । रुद्रियासः । त्रातारः । भूत । पृतनासु । अर्यः ॥sám ǀ yát ǀ hánanta ǀ manyú-bhiḥ ǀ jánāsaḥ ǀ śū́rāḥ ǀ yahvī́ṣu ǀ óṣadhīṣu ǀ vikṣú ǀ
ádha ǀ sma ǀ naḥ ǀ marutaḥ ǀ rudriyāsaḥ ǀ trātā́raḥ ǀ bhūta ǀ pṛ́tanāsu ǀ aryáḥ ǁsam ǀ yat ǀ hananta ǀ manyu-bhiḥ ǀ janāsaḥ ǀ śūrāḥ ǀ yahvīṣu ǀ oṣadhīṣu ǀ vikṣu ǀ
adha ǀ sma ǀ naḥ ǀ marutaḥ ǀ rudriyāsaḥ ǀ trātāraḥ ǀ bhūta ǀ pṛtanāsu ǀ aryaḥ ǁ7.56.22 Aṣṭaka 5.4.26.2Anuvāka 7.4.22
-
Ṛk 23
भूरि॑ चक्र मरुतः॒ पित्र्या॑ण्यु॒क्थानि॒ या वः॑ श॒स्यंते॑ पु॒रा चि॑त् ।
म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा॑ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा॑ ॥भूरि चक्र मरुतः पित्र्याण्य् उक्थानि या वः शस्यन्ते पुरा चित् |
मरुद्भिर् उग्रः पृतनासु साऌहा मरुद्भिर् इत् सनिता वाजम् अर्वा ||bhū́ri cakra marutaḥ pítryāṇyukthā́ni yā́ vaḥ śasyánte purā́ cit ǀ
marúdbhirugráḥ pṛ́tanāsu sā́ḷhā marúdbhirítsánitā vā́jamárvā ǁbhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit |
marudbhir ugraḥ pṛtanāsu sāḷhā marudbhir it sanitā vājam arvā ||भूरि॑ । च॒क्र॒ । म॒रु॒तः॒ । पित्र्या॑णि । उ॒क्थानि॑ । या । वः॒ । श॒स्यन्ते॑ । पु॒रा । चि॒त् ।
म॒रुत्ऽभिः॑ । उ॒ग्रः । पृत॑नासु । साळ्हा॑ । म॒रुत्ऽभिः॑ । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥भूरि । चक्र । मरुतः । पित्र्याणि । उक्थानि । या । वः । शस्यन्ते । पुरा । चित् ।
मरुत्ऽभिः । उग्रः । पृतनासु । साळ्हा । मरुत्ऽभिः । इत् । सनिता । वाजम् । अर्वा ॥bhū́ri ǀ cakra ǀ marutaḥ ǀ pítryāṇi ǀ ukthā́ni ǀ yā́ ǀ vaḥ ǀ śasyánte ǀ purā́ ǀ cit ǀ
marút-bhiḥ ǀ ugráḥ ǀ pṛ́tanāsu ǀ sā́ḷhā ǀ marút-bhiḥ ǀ ít ǀ sánitā ǀ vā́jam ǀ árvā ǁbhūri ǀ cakra ǀ marutaḥ ǀ pitryāṇi ǀ ukthāni ǀ yā ǀ vaḥ ǀ śasyante ǀ purā ǀ cit ǀ
marut-bhiḥ ǀ ugraḥ ǀ pṛtanāsu ǀ sāḷhā ǀ marut-bhiḥ ǀ it ǀ sanitā ǀ vājam ǀ arvā ǁ7.56.23 Aṣṭaka 5.4.26.3Anuvāka 7.4.23
-
Ṛk 24
अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्ता ।
अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको॑ अ॒भि वः॑ स्याम ॥अस्मे वीरो मरुतः शुष्म्य् अस्तु जनानां यो असुरो विधर्ता |
अपो येन सुक्षितये तरेमाध स्वम् ओको अभि वः स्याम ||asmé vīró marutaḥ śuṣmyástu jánānām yó ásuro vidhartā́ ǀ
apó yéna sukṣitáye táremā́dha svámóko abhí vaḥ syāma ǁasme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā |
apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma ||अ॒स्मे इति॑ । वी॒रः । म॒रु॒तः॒ । शु॒ष्मी । अ॒स्तु॒ । जना॑नाम् । यः । असु॑रः । वि॒ऽध॒र्ता ।
अ॒पः । येन॑ । सु॒ऽक्षि॒तये॑ । तरे॑म । अध॑ । स्वम् । ओकः॑ । अ॒भि । वः॒ । स्या॒म॒ ॥अस्मे इति । वीरः । मरुतः । शुष्मी । अस्तु । जनानाम् । यः । असुरः । विऽधर्ता ।
अपः । येन । सुऽक्षितये । तरेम । अध । स्वम् । ओकः । अभि । वः । स्याम ॥asmé íti ǀ vīráḥ ǀ marutaḥ ǀ śuṣmī́ ǀ astu ǀ jánānām ǀ yáḥ ǀ ásuraḥ ǀ vi-dhartā́ ǀ
apáḥ ǀ yéna ǀ su-kṣitáye ǀ tárema ǀ ádha ǀ svám ǀ ókaḥ ǀ abhí ǀ vaḥ ǀ syāma ǁasme iti ǀ vīraḥ ǀ marutaḥ ǀ śuṣmī ǀ astu ǀ janānām ǀ yaḥ ǀ asuraḥ ǀ vi-dhartā ǀ
apaḥ ǀ yena ǀ su-kṣitaye ǀ tarema ǀ adha ǀ svam ǀ okaḥ ǀ abhi ǀ vaḥ ǀ syāma ǁ7.56.24 Aṣṭaka 5.4.26.4Anuvāka 7.4.24
-
Ṛk 25
तन्न॒ इंद्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषंत ।
शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त |
शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ||tánna índro váruṇo mitró agnírā́pa óṣadhīrvaníno juṣanta ǀ
śármantsyāma marútāmupásthe yūyám pāta svastíbhiḥ sádā naḥ ǁtan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta |
śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ ||तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ ।
शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त ।
शर्मन् । स्याम । मरुताम् । उपऽस्थे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥tát ǀ naḥ ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ ā́paḥ ǀ óṣadhīḥ ǀ vanínaḥ ǀ juṣanta ǀ
śárman ǀ syāma ǀ marútām ǀ upá-sthe ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁtat ǀ naḥ ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ āpaḥ ǀ oṣadhīḥ ǀ vaninaḥ ǀ juṣanta ǀ
śarman ǀ syāma ǀ marutām ǀ upa-sthe ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.56.25 Aṣṭaka 5.4.26.5Anuvāka 7.4.25
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.