Ṛk 7.56.19
Saṃhitā
इ॒मे तु॒रं म॒रुतो॑ रामयंती॒मे सहः॒ सह॑स॒ आ न॑मंति ।
इ॒मे शंसं॑ वनुष्य॒तो नि पां॑ति गु॒रु द्वेषो॒ अर॑रुषे दधंति ॥
इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति |
इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ||
imé turám marúto rāmayantīmé sáhaḥ sáhasa ā́ namanti ǀ
imé śáṃsam vanuṣyató ní pānti gurú dvéṣo áraruṣe dadhanti ǁ
ime turam maruto rāmayantīme sahaḥ sahasa ā namanti |
ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti ||
Padapāṭha
इ॒मे । तु॒रम् । म॒रुतः॑ । र॒म॒य॒न्ति॒ । इ॒मे । सहः॑ । सह॑सः । आ । न॒म॒न्ति॒ ।
इ॒मे । शंस॑म् । व॒नु॒ष्य॒तः । नि । पा॒न्ति॒ । गु॒रु । द्वेषः॑ । अर॑रुषे । द॒ध॒न्ति॒ ॥
इमे । तुरम् । मरुतः । रमयन्ति । इमे । सहः । सहसः । आ । नमन्ति ।
इमे । शंसम् । वनुष्यतः । नि । पान्ति । गुरु । द्वेषः । अररुषे । दधन्ति ॥
imé ǀ turám ǀ marútaḥ ǀ ramayanti ǀ imé ǀ sáhaḥ ǀ sáhasaḥ ǀ ā́ ǀ namanti ǀ
imé ǀ śáṃsam ǀ vanuṣyatáḥ ǀ ní ǀ pānti ǀ gurú ǀ dvéṣaḥ ǀ áraruṣe ǀ dadhanti ǁ
ime ǀ turam ǀ marutaḥ ǀ ramayanti ǀ ime ǀ sahaḥ ǀ sahasaḥ ǀ ā ǀ namanti ǀ
ime ǀ śaṃsam ǀ vanuṣyataḥ ǀ ni ǀ pānti ǀ guru ǀ dveṣaḥ ǀ araruṣe ǀ dadhanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.056.19
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.25.04
- Maṇḍala · Anuvāka · Ṛk
- 07.04.019
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Dvipadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.