Ṛgveda · Maṇḍala 7 · Sūkta 56

Ṛk 7.56.25

Maruts · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

तन्न॒ इंद्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषंत ।
शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त |
शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ||

tánna índro váruṇo mitró agnírā́pa óṣadhīrvaníno juṣanta ǀ
śármantsyāma marútāmupásthe yūyám pāta svastíbhiḥ sádā naḥ ǁ

tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta |
śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ ।
शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त ।
शर्मन् । स्याम । मरुताम् । उपऽस्थे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

tát ǀ naḥ ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ ā́paḥ ǀ óṣadhīḥ ǀ vanínaḥ ǀ juṣanta ǀ
śárman ǀ syāma ǀ marútām ǀ upá-sthe ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

tat ǀ naḥ ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ āpaḥ ǀ oṣadhīḥ ǀ vaninaḥ ǀ juṣanta ǀ
śarman ǀ syāma ǀ marutām ǀ upa-sthe ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.056.25
Aṣṭaka · Adhyāya · Varga · Ṛk
5.4.26.05
Maṇḍala · Anuvāka · Ṛk
07.04.025
Devatā देवता
Maruts
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh, Dvipadā Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.56.25

Interpretations

Sāyaṇa

मध्वोवइति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकं मध्वःसप्तेत्यनुक्रान्तं । दशरात्रे षष्ठेहनि आग्निमारुतेइदं मारुत- निविद्धानं सूत्रितंच-मध्वोवोनाम सप्रत्नथेत्याग्निमारुतमिति ।