Ṛk 7.57.1
Saṃhitā
मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदंति ।
ये रे॒जयं॑ति॒ रोद॑सी चिदु॒र्वी पिन्वं॒त्युत्सं॒ यदया॑सुरु॒ग्राः ॥
मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति |
ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सं यद् अयासुर् उग्राः ||
mádhvo vo nā́ma mā́rutam yajatrāḥ prá yajñéṣu śávasā madanti ǀ
yé rejáyanti ródasī cidurvī́ pínvantyútsam yádáyāsurugrā́ḥ ǁ
madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti |
ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ ||
Padapāṭha
मध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ ।
ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥
मध्वः । वः । नाम । मारुतम् । यजत्राः । प्र । यज्ञेषु । शवसा । मदन्ति ।
ये । रेजयन्ति । रोदसी इति । चित् । उर्वी इति । पिन्वन्ति । उत्सम् । यत् । अयासुः । उग्राः ॥
mádhvaḥ ǀ vaḥ ǀ nā́ma ǀ mā́rutam ǀ yajatrāḥ ǀ prá ǀ yajñéṣu ǀ śávasā ǀ madanti ǀ
yé ǀ rejáyanti ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ pínvanti ǀ útsam ǀ yát ǀ áyāsuḥ ǀ ugrā́ḥ ǁ
madhvaḥ ǀ vaḥ ǀ nāma ǀ mārutam ǀ yajatrāḥ ǀ pra ǀ yajñeṣu ǀ śavasā ǀ madanti ǀ
ye ǀ rejayanti ǀ rodasī iti ǀ cit ǀ urvī iti ǀ pinvanti ǀ utsam ǀ yat ǀ ayāsuḥ ǀ ugrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.057.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.27.01
- Maṇḍala · Anuvāka · Ṛk
- 07.04.026
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.