Ṛk 7.57.3
Saṃhitā
नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राजं॑ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ ।
आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नमं॒ज्यं॑जते शु॒भे कं ॥
नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस् तनूभिः |
आ रोदसी विश्वपिशः पिशानाः समानम् अञ्ज्य् अञ्जते शुभे कम् ||
náitā́vadanyé marúto yáthemé bhrā́jante rukmáirā́yudhaistanū́bhiḥ ǀ
ā́ ródasī viśvapíśaḥ piśānā́ḥ samānámañjyáñjate śubhé kám ǁ
naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ |
ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam ||
Padapāṭha
न । ए॒ताव॑त् । अ॒न्ये । म॒रुतः॑ । यथा॑ । इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ ।
आ । रोद॑सी॒ इति॑ । वि॒श्व॒ऽपिशः॑ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥
न । एतावत् । अन्ये । मरुतः । यथा । इमे । भ्राजन्ते । रुक्मैः । आयुधैः । तनूभिः ।
आ । रोदसी इति । विश्वऽपिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम् ॥
ná ǀ etā́vat ǀ anyé ǀ marútaḥ ǀ yáthā ǀ imé ǀ bhrā́jante ǀ rukmáiḥ ǀ ā́yudhaiḥ ǀ tanū́bhiḥ ǀ
ā́ ǀ ródasī íti ǀ viśva-píśaḥ ǀ piśānā́ḥ ǀ samānám ǀ añjí ǀ añjate ǀ śubhé ǀ kám ǁ
na ǀ etāvat ǀ anye ǀ marutaḥ ǀ yathā ǀ ime ǀ bhrājante ǀ rukmaiḥ ǀ āyudhaiḥ ǀ tanūbhiḥ ǀ
ā ǀ rodasī iti ǀ viśva-piśaḥ ǀ piśānāḥ ǀ samānam ǀ añji ǀ añjate ǀ śubhe ǀ kam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.057.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.27.03
- Maṇḍala · Anuvāka · Ṛk
- 07.04.028
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.