Ṛk 7.22.2
Saṃhitā
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ ।
स त्वामिं॑द्र प्रभूवसो ममत्तु ॥
यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि |
स त्वाम् इन्द्र प्रभूवसो ममत्तु ||
yáste mádo yújyaścā́rurásti yéna vṛtrā́ṇi haryaśva háṃsi ǀ
sá tvā́mindra prabhūvaso mamattu ǁ
yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi |
sa tvām indra prabhūvaso mamattu ||
Padapāṭha
यः । ते॒ । मदः॑ । युज्यः॑ । चारुः॑ । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ।
सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥
यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ।
सः । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥
yáḥ ǀ te ǀ mádaḥ ǀ yújyaḥ ǀ cā́ruḥ ǀ ásti ǀ yéna ǀ vṛtrā́ṇi ǀ hari-aśva ǀ háṃsi ǀ
sáḥ ǀ tvā́m ǀ indra ǀ prabhuvaso íti prabhu-vaso ǀ mamattu ǁ
yaḥ ǀ te ǀ madaḥ ǀ yujyaḥ ǀ cāruḥ ǀ asti ǀ yena ǀ vṛtrāṇi ǀ hari-aśva ǀ haṃsi ǀ
saḥ ǀ tvām ǀ indra ǀ prabhuvaso iti prabhu-vaso ǀ mamattu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.022.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.05.02
- Maṇḍala · Anuvāka · Ṛk
- 07.02.058
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Virāj, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.