Ṛgveda · Maṇḍala 7 · Sūkta 44

Ṛk 7.44.5

Liṅgoktadevatāḥ · Dadhikrā · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पंथा॒मन्वे॑त॒वा उ॑ ।
शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वंतु॒ विश्वे॑ महि॒षा अमू॑राः ॥

आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ |
शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ||

ā́ no dadhikrā́ḥ pathyā́manaktvṛtásya pánthāmánvetavā́ u ǀ
śṛṇótu no dáivyam śárdho agníḥ śṛṇvántu víśve mahiṣā́ ámūrāḥ ǁ

ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u |
śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ ||

Padapāṭha

आ । नः॒ । द॒धि॒ऽक्राः । प॒थ्या॑म् । अ॒न॒क्तु॒ । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।
शृ॒णोतु॑ । नः॒ । दैव्य॑म् । शर्धः॑ । अ॒ग्निः । शृ॒ण्वन्तु॑ । विश्वे॑ । म॒हि॒षाः । अमू॑राः ॥

आ । नः । दधिऽक्राः । पथ्याम् । अनक्तु । ऋतस्य । पन्थाम् । अनुऽएतवै । ऊं इति ।
शृणोतु । नः । दैव्यम् । शर्धः । अग्निः । शृण्वन्तु । विश्वे । महिषाः । अमूराः ॥

ā́ ǀ naḥ ǀ dadhi-krā́ḥ ǀ pathyā́m ǀ anaktu ǀ ṛtásya ǀ pánthām ǀ ánu-etavái ǀ ūṃ íti ǀ
śṛṇótu ǀ naḥ ǀ dáivyam ǀ śárdhaḥ ǀ agníḥ ǀ śṛṇvántu ǀ víśve ǀ mahiṣā́ḥ ǀ ámūrāḥ ǁ

ā ǀ naḥ ǀ dadhi-krāḥ ǀ pathyām ǀ anaktu ǀ ṛtasya ǀ panthām ǀ anu-etavai ǀ ūṃ iti ǀ
śṛṇotu ǀ naḥ ǀ daivyam ǀ śardhaḥ ǀ agniḥ ǀ śṛṇvantu ǀ viśve ǀ mahiṣāḥ ǀ amūrāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.044.05
Aṣṭaka · Adhyāya · Varga · Ṛk
5.4.11.05
Maṇḍala · Anuvāka · Ṛk
07.03.102
Devatā देवता
1: Liṅgoktadevatāḥ; 2-5: Dadhikrā
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.44.5

Interpretations

Sāyaṇa

आदेवोयात्विति चतुरृचं द्वादशं सूक्तं वसिष्ठस्यार्षं सबितृदेवताकं त्रैष्टुभं आदेवश्चतुष्कं साबित्रमित्यनुक्रान्तं । व्यूह्ळेदशरात्रे चतुर्थे- हनि वैश्वदेवशस्त्रे इदंसवित्रनिविद्धानं सूत्र्यतेहिचतुर्थेहन्यादेवोयात्विति । एषा वपानुवाक्या सूत्रितंच-आदेवोयातुसवितासुरत्नः सघानोदेवः सवितासहावेति । अश्वमेधे अनुसवनं तिस्रः सावित्र्यइष्टयः तत्रद्वितीयस्यामिष्टौ याज्येमं सूत्रितंच-यइमाविश्वाजातान्या- देवोयात्विति ।