Ṛk 7.24.5
Saṃhitā
ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि ।
इंद्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ॥
एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्न् अधायि |
इन्द्र त्वायम् अर्क ईट्टे वसूनां दिवीव द्याम् अधि नः श्रोमतं धाः ||
eṣá stómo mahá ugrā́ya vā́he dhurī́vā́tyo ná vājáyannadhāyi ǀ
índra tvāyámarká īṭṭe vásūnām divī́va dyā́mádhi naḥ śrómatam dhāḥ ǁ
eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi |
indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ ||
Padapāṭha
ए॒षः । स्तोमः॑ । म॒हे । उ॒ग्राय॑ । वाहे॑ । धु॒रिऽइ॑व । अत्यः॑ । न । वा॒जय॑न् । अ॒धा॒यि॒ ।
इन्द्र॑ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू॑नाम् । दि॒विऽइ॑व । द्याम् । अधि॑ । नः॒ । श्रोम॑तम् । धाः॒ ॥
एषः । स्तोमः । महे । उग्राय । वाहे । धुरिऽइव । अत्यः । न । वाजयन् । अधायि ।
इन्द्र । त्वा । अयम् । अर्कः । ईट्टे । वसूनाम् । दिविऽइव । द्याम् । अधि । नः । श्रोमतम् । धाः ॥
eṣáḥ ǀ stómaḥ ǀ mahé ǀ ugrā́ya ǀ vā́he ǀ dhurí-iva ǀ átyaḥ ǀ ná ǀ vājáyan ǀ adhāyi ǀ
índra ǀ tvā ǀ ayám ǀ arkáḥ ǀ īṭṭe ǀ vásūnām ǀ diví-iva ǀ dyā́m ǀ ádhi ǀ naḥ ǀ śrómatam ǀ dhāḥ ǁ
eṣaḥ ǀ stomaḥ ǀ mahe ǀ ugrāya ǀ vāhe ǀ dhuri-iva ǀ atyaḥ ǀ na ǀ vājayan ǀ adhāyi ǀ
indra ǀ tvā ǀ ayam ǀ arkaḥ ǀ īṭṭe ǀ vasūnām ǀ divi-iva ǀ dyām ǀ adhi ǀ naḥ ǀ śromatam ǀ dhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.024.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.08.05
- Maṇḍala · Anuvāka · Ṛk
- 07.02.076
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.