Ṛk 7.33.6
Saṃhitā
दं॒डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑ ।
अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथंत ॥
दण्डा इवेद् गोअजनास आसन् परिच्छिन्ना भरता अर्भकासः |
अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनां विशो अप्रथन्त ||
daṇḍā́ ivédgoájanāsa āsanpáricchinnā bharatā́ arbhakā́saḥ ǀ
ábhavacca puraetā́ vásiṣṭha ā́díttṛ́tsūnām víśo aprathanta ǁ
daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ |
abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta ||
Padapāṭha
द॒ण्डाःऽइ॑व । इत् । गो॒ऽअज॑नासः । आ॒स॒न् । परि॑ऽछिन्नाः । भ॒र॒ताः । अ॒र्भ॒कासः॑ ।
अभ॑वत् । च॒ । पु॒रः॒ऽए॒ता । वसि॑ष्ठः । आत् । इत् । तृत्सू॑नाम् । विशः॑ । अ॒प्र॒थ॒न्त॒ ॥
दण्डाःऽइव । इत् । गोऽअजनासः । आसन् । परिऽछिन्नाः । भरताः । अर्भकासः ।
अभवत् । च । पुरःऽएता । वसिष्ठः । आत् । इत् । तृत्सूनाम् । विशः । अप्रथन्त ॥
daṇḍā́ḥ-iva ǀ ít ǀ go-ájanāsaḥ ǀ āsan ǀ pári-chinnāḥ ǀ bharatā́ḥ ǀ arbhakā́saḥ ǀ
ábhavat ǀ ca ǀ puraḥ-etā́ ǀ vásiṣṭhaḥ ǀ ā́t ǀ ít ǀ tṛ́tsūnām ǀ víśaḥ ǀ aprathanta ǁ
daṇḍāḥ-iva ǀ it ǀ go-ajanāsaḥ ǀ āsan ǀ pari-chinnāḥ ǀ bharatāḥ ǀ arbhakāsaḥ ǀ
abhavat ǀ ca ǀ puraḥ-etā ǀ vasiṣṭhaḥ ǀ āt ǀ it ǀ tṛtsūnām ǀ viśaḥ ǀ aprathanta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.033.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.23.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.153
- Devatā देवता
- 1-9: Vasiṣṭha’s Sons; 10-14: Vasiṣṭha
- Ṛṣi ऋषि
- 1-9: Vasiṣṭha Maitrāvaruṇi; 10-14: Vasiṣṭha Maitrāvaruṇi’s Sons
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.