Ṛk 7.33.10
Saṃhitā
वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा ।
तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥
विद्युतो ज्योतिः परि संजिहानम् मित्रावरुणा यद् अपश्यतां त्वा |
तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विश आजभार ||
vidyúto jyótiḥ pári saṃjíhānam mitrā́váruṇā yádápaśyatām tvā ǀ
tátte jánmotáikam vasiṣṭhāgástyo yáttvā viśá ājabhā́ra ǁ
vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā |
tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra ||
Padapāṭha
वि॒ऽद्युतः॑ । ज्योतिः॑ । परि॑ । स॒म्ऽजिहा॑नम् । मि॒त्रावरु॑णा । यत् । अप॑श्यताम् । त्वा॒ ।
तत् । ते॒ । जन्म॑ । उ॒त । एक॑म् । व॒सि॒ष्ठ॒ । अ॒गस्त्यः॑ । यत् । त्वा॒ । वि॒शः । आ॒ऽज॒भार॑ ॥
विऽद्युतः । ज्योतिः । परि । सम्ऽजिहानम् । मित्रावरुणा । यत् । अपश्यताम् । त्वा ।
तत् । ते । जन्म । उत । एकम् । वसिष्ठ । अगस्त्यः । यत् । त्वा । विशः । आऽजभार ॥
vi-dyútaḥ ǀ jyótiḥ ǀ pári ǀ sam-jíhānam ǀ mitrā́váruṇā ǀ yát ǀ ápaśyatām ǀ tvā ǀ
tát ǀ te ǀ jánma ǀ utá ǀ ékam ǀ vasiṣṭha ǀ agástyaḥ ǀ yát ǀ tvā ǀ viśáḥ ǀ ā-jabhā́ra ǁ
vi-dyutaḥ ǀ jyotiḥ ǀ pari ǀ sam-jihānam ǀ mitrāvaruṇā ǀ yat ǀ apaśyatām ǀ tvā ǀ
tat ǀ te ǀ janma ǀ uta ǀ ekam ǀ vasiṣṭha ǀ agastyaḥ ǀ yat ǀ tvā ǀ viśaḥ ǀ ā-jabhāra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.033.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.23.05
- Maṇḍala · Anuvāka · Ṛk
- 07.02.157
- Devatā देवता
- 1-9: Vasiṣṭha’s Sons; 10-14: Vasiṣṭha
- Ṛṣi ऋषि
- 1-9: Vasiṣṭha Maitrāvaruṇi; 10-14: Vasiṣṭha Maitrāvaruṇi’s Sons
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.