Ṛgveda · Maṇḍala 7 · Sūkta 65

Ṛk 7.65.5

Mitra, Varuṇa · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि ।
अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि |
अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ||

eṣá stómo varuṇa mitra túbhyam sómaḥ śukró ná vāyáve’yāmi ǀ
aviṣṭám dhíyo jigṛtám púraṃdhīryūyám pāta svastíbhiḥ sádā naḥ ǁ

eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi |
aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

ए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ ।
अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि ।
अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

eṣáḥ ǀ stómaḥ ǀ varuṇa ǀ mitra ǀ túbhyam ǀ sómaḥ ǀ śukráḥ ǀ ná ǀ vāyáve ǀ ayāmi ǀ
aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

eṣaḥ ǀ stomaḥ ǀ varuṇa ǀ mitra ǀ tubhyam ǀ somaḥ ǀ śukraḥ ǀ na ǀ vāyave ǀ ayāmi ǀ
aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.065.05
Aṣṭaka · Adhyāya · Varga · Ṛk
5.5.07.05
Maṇḍala · Anuvāka · Ṛk
07.04.091
Devatā देवता
Mitra, Varuṇa
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.65.5

Interpretations

Sāyaṇa

प्रमित्रयोरित्येकोनविंशत्यृचमेकादशं सूक्तं वसिष्ठस्यार्षम् अत्रेयमनुक्रमणिका-प्रमित्रयोरेकोना गायत्रं दशम्याद्यास्त्रयः प्रगाथाः पुरउष्णिक् चतुर्थ्याद्यादशादित्यास्तिस्रः सौर्यइति । दशमीबृहती एकादशीसतोबृहती द्वादशीबृहती त्रयोदशीसतोबृहती चतुर्दशी- बृहती पञ्चदशीसतोबृहती षोडशीपुरउष्णिक् शिष्टागायत्र्यः चतुर्थ्याद्यास्त्रयोदश्यन्ताः आदित्यदेवताः चतुर्दश्याद्याः स्तिस्रः सूर्यदेवत्याः आद्यन्तौतृचौ पूर्ववन्मैत्रावरुणौ अग्निष्टोमेमाध्यन्दिनसवने मैत्रावरुणशस्त्रे आदितोनवर्चः शस्याः प्रमित्रयोर्वरुणयोरितिनवेति सूत्रितत्वात् । पृष्ठ्याभिप्लवषडहयोः स्तोमवृद्धिनिमित्तमावापार्था आद्याः षळृचः सूत्रितञ्च-प्रमित्रयोर्वरुणयोरितिषळिति ।