Ṛk 7.65.2
Saṃhitā
ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑ क्षि॒तीः क॑रतमू॒र्जयं॑तीः ।
अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥
ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम् ऊर्जयन्तीः |
अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्न् अहा च ||
tā́ hí devā́nāmásurā tā́varyā́ tā́ naḥ kṣitī́ḥ karatamūrjáyantīḥ ǀ
aśyā́ma mitrāvaruṇā vayám vām dyā́vā ca yátra pīpáyannáhā ca ǁ
tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ |
aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca ||
Padapāṭha
ता । हि । दे॒वाना॑म् । असु॑रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय॑न्तीः ।
अ॒श्याम॑ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा॑ । च॒ । यत्र॑ । पी॒पय॑न् । अहा॑ । च॒ ॥
ता । हि । देवानाम् । असुरा । तौ । अर्या । ता । नः । क्षितीः । करतम् । ऊर्जयन्तीः ।
अश्याम । मित्रावरुणा । वयम् । वाम् । द्यावा । च । यत्र । पीपयन् । अहा । च ॥
tā́ ǀ hí ǀ devā́nām ǀ ásurā ǀ táu ǀ aryā́ ǀ tā́ ǀ naḥ ǀ kṣitī́ḥ ǀ karatam ǀ ūrjáyantīḥ ǀ
aśyā́ma ǀ mitrāvaruṇā ǀ vayám ǀ vām ǀ dyā́vā ǀ ca ǀ yátra ǀ pīpáyan ǀ áhā ǀ ca ǁ
tā ǀ hi ǀ devānām ǀ asurā ǀ tau ǀ aryā ǀ tā ǀ naḥ ǀ kṣitīḥ ǀ karatam ǀ ūrjayantīḥ ǀ
aśyāma ǀ mitrāvaruṇā ǀ vayam ǀ vām ǀ dyāvā ǀ ca ǀ yatra ǀ pīpayan ǀ ahā ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.065.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.07.02
- Maṇḍala · Anuvāka · Ṛk
- 07.04.088
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.