Ṛk 7.98.2
Saṃhitā
यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि ।
उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्निं॑द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥
यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य वक्षि |
उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ||
yáddadhiṣé pradívi cā́rvánnam divédive pītímídasya vakṣi ǀ
utá hṛdótá mánasā juṣāṇá uśánnindra prásthitānpāhi sómān ǁ
yad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi |
uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān ||
Padapāṭha
यत् । द॒धि॒षे । प्र॒ऽदिवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒क्षि॒ ।
उ॒त । हृ॒दा । उ॒त । मन॑सा । जु॒षा॒णः । उ॒शन् । इ॒न्द्र॒ । प्रऽस्थि॑तान् । पा॒हि॒ । सोमा॑न् ॥
यत् । दधिषे । प्रऽदिवि । चारु । अन्नम् । दिवेऽदिवे । पीतिम् । इत् । अस्य । वक्षि ।
उत । हृदा । उत । मनसा । जुषाणः । उशन् । इन्द्र । प्रऽस्थितान् । पाहि । सोमान् ॥
yát ǀ dadhiṣé ǀ pra-dívi ǀ cā́ru ǀ ánnam ǀ divé-dive ǀ pītím ǀ ít ǀ asya ǀ vakṣi ǀ
utá ǀ hṛdā́ ǀ utá ǀ mánasā ǀ juṣāṇáḥ ǀ uśán ǀ indra ǀ prá-sthitān ǀ pāhi ǀ sómān ǁ
yat ǀ dadhiṣe ǀ pra-divi ǀ cāru ǀ annam ǀ dive-dive ǀ pītim ǀ it ǀ asya ǀ vakṣi ǀ
uta ǀ hṛdā ǀ uta ǀ manasā ǀ juṣāṇaḥ ǀ uśan ǀ indra ǀ pra-sthitān ǀ pāhi ǀ somān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.098.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.23.02
- Maṇḍala · Anuvāka · Ṛk
- 07.06.063
- Devatā देवता
- 1-6: Indra; 7: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.